Enter your Email Address to subscribe to our newsletters

वाराणसीनगरम्, ०८ जुलाईमासः (हि.स.)। प्रधानमन्त्रीणः नरेन्द्रमोदिनः संसदीय-क्षेत्रे वाराणस्यां अद्य बुधवासरे प्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शिक्षकेभ्य: तेषां परिवारजनेभ्यश्च मुख्यमन्त्री-शिक्षक-निःशुल्क-चिकित्सा-योजनायाः लाभं प्रदास्यति। पण्डित-दीनदयाल-हस्तकला-सङ्कुले, बृहत्-लालपुरे आयोजिते कार्यक्रमे सः शीघ्रमेव प्रदेशस्य प्रायः १.१० कोटि-विद्यार्थिनां पालकानां धनागारेषु गणवेश-पादत्राण-ऊर्णावस्त्र-लेखनसामग्री-आदीनां कृते प्रति-विद्यार्थिनं १२०० रूप्यकाणि प्रत्यक्ष-लाभ-हस्तान्तरण-माध्यमेन प्रेषयिष्यति।
अस्मिन् कार्यक्रमे आधारभूत-शिक्षा-विभागस्य (स्वतन्त्र-प्रभारः) मन्त्री सन्दीपसिंहः तथा माध्यमिक-शिक्षा-विभागस्य (स्वतन्त्र-प्रभारः) मन्त्रिणी गुलाबदेवी अपि उपस्थिते भविष्यतः। मुख्यमन्त्रिणः सन्निधौ १० लक्ष-शिक्षकाणां संविदा-कर्मचारिणां च सामाजिक-सुरक्षार्थं स्टेट् बैङ्क् ऑफ् इण्डिया इत्यनेन सह महत्त्वपूर्णे सन्धि-स्मरणपत्रे हस्ताक्षराणि भविष्यन्ति। अनेन पात्र-कर्मचारिभ्यः अतिरिक्त-सामाजिक-सुरक्षा-सुविधाः प्रदातुं महत्त्वपूर्ण: प्रयत्न: भविष्यति। मुख्यमन्त्री राष्ट्रियस्तरे चयनितानां स्वच्छ-हरित-विद्यालयानां १२ प्रधानाचार्यान् अपि सम्मानयिष्यति।
ज्ञातव्यं यत् मुख्यमन्त्री-शिक्षक-निःशुल्क-चिकित्सा-योजना प्रवर्तितमात्रेण प्रदेशस्य प्रायः १२ लक्ष-शिक्षकाः तेषां परिवारजनाश्च पञ्चलक्ष-रूप्यक-पर्यन्तां निःशुल्क-चिकित्सा-सुविधां प्राप्स्यन्ति। अस्यां महत्त्वपूर्णायां योजनायां नियमित-शिक्षकैः सह शिक्षामित्राणि, अनुदेशकाः, पाककर्मिणः तथा कस्तूरबा-गान्धी-बालिका-विद्यालयेषु कार्यरताः पात्र-कर्मचारिणोऽपि समाविष्टाः सन्ति।
आधारभूत-शिक्षा-विभागस्य सहायक-निदेशकः हेमन्तरावः अवदत् यत् मुख्यमन्त्रिणः एतस्याः निःशुल्क-चिकित्सा-सुविधायाः माध्यमेन वाराणसी-मण्डलस्य ७,४१७ आधारभूत-विद्यालयेषु कार्यरताः ६६,२०५ पात्र-कर्मचारिणः प्रत्यक्षतया लाभान्विताः भविष्यन्ति।
— शिक्षायाः, जनकल्याणस्य विकासस्य च नूतन-सङ्कल्पेभ्यः नूतना गतिः भविष्यति
कार्यक्रमे सहभागितां कर्तुं पूर्वं मुख्यमन्त्री योगी आदित्यनाथः स्वस्य आधिकारिक-सामाजिक-माध्यम-लेखे लिखितवान् यत्— अद्य बाबा श्रीविश्वनाथस्य पवित्र-नगरी काशी तथा मर्यादा-पुरुषोत्तमस्य भगवत: श्रीरामस्य तपोभूमिः चित्रकूटम् इत्येताभ्यां शिक्षायाः, जनकल्याणस्य विकासस्य च नूतन-सङ्कल्पेभ्यः नूतना गतिः प्रदास्यते।
वाराणस्यां १२ लक्ष-शिक्षकाणां, अशैक्षणिक-कर्मचारिणां तेषां आश्रितानां च स्वास्थ्य-सुरक्षां प्रदास्यन्त्याः मुख्य-मन्त्री-शिक्षक-निःशुल्क-चिकित्सा-योजनायाः शुभारम्भः भविष्यति। तदनन्तरं डीबीटी-माध्यमेन १.१० कोटि-विद्यार्थिनां पालकानां धनागारेषु प्रति-विद्यार्थिनं १२०० रूप्यकाणां हस्तान्तरणं, १० लक्ष-शिक्षकाणां संविदा-कर्मचारिणां च सामाजिक-सुरक्षार्थं स्टेट् बैङ्क् ऑफ् इण्डिया इत्यनेन सह सन्धि-स्मरणपत्रे हस्ताक्षराणि, राष्ट्रियस्तरे चयनितानां स्वच्छ-हरित-विद्यालयानां प्रधानाचार्याणां मुख्याध्यापकानां च सम्माननं भविष्यति।
Hindusthan Samachar / Divya Ranjan