Enter your Email Address to subscribe to our newsletters

वाराणसीनगरम्, ०८ जुलाईमास: (हि.स.)। उत्तरप्रदेशस्य वाराणसी-जनपदे प्राकृतिकीं, स्थायिनीं तथा गो-आधारितां कृषिपद्धतिं वैज्ञानिकाधारेण प्रोत्साहयितुं महत्त्वपूर्णं पदं गृहीतम्।
अस्याः योजनायाः अन्तर्गतं गुजरात-राज्यस्य अहमदाबाद-स्थितायाः बंशी गिर गोशालायाः, वाराणसी-कृषिविभागस्य तथा वाराणसी-उद्यानविभागस्य मध्ये एकवर्षीयावधये सन्धि-स्मरणपत्रे हस्ताक्षराणि कृतानि।
अयं सन्धि: वाराणसी-मण्डलस्य आयुक्तस्य एस. राजलिङ्गम्, जन-पदाधिकारिण: सतेन्द्रकुमारस्य तथा मुख्यविकासाधिकरणस्य प्रखरकुमार-सिंहस्य सन्निधौ सम्पन्नः। एतद्विषये बुधवासरे जनपद-उद्यानाधिकारी सुभाषकुमारः अवदत्। तेन उक्तं यत् अस्मिन् महत्त्वपूर्णे सन्धि-स्मरणपत्रे उपकृषिनिदेशकः वाराणसी अमित-जायसवालः, स्वयम् जनपद-उद्यानाधिकारी सुभाषकुमारः तथा बंशी गिर गोशालायाः संस्थापकः गोपालभाई सुतारिया हस्ताक्षराणि अकुर्वन्।
जनपद-उद्यानाधिकारेण उक्तं यत् एषा पहलः प्राकृतिककृषेः, मृदास्वास्थ्य-संरक्षणस्य, कृषकाणाम् आयवृद्धेः तथा स्थायिनः कृषितन्त्रस्य विकासस्य दिशि महत्त्वपूर्णः प्रयासः भविष्यति।
समझौता-स्मरणपत्रस्य अन्तर्गतं वाराणसी-जनपदे प्रायः १०० एकर-क्षेत्रे चयनितैः प्रगतिशील-कृषकैः सह एकवर्षीयः प्रायोगिक-परियोजना सञ्चालिता भविष्यति। अस्यां परियोजनायां “गोकृपामृतम्” आधारिताया: प्राकृतिक-गोआधारित-कृषिपद्धतेः वैज्ञानिक-परीक्षणं, प्रदर्शनं तथा मूल्याङ्कनं क्रियते।
समझौतानुसारं परियोजनाकाले चयनित-कृषकेभ्यः नियमितं तकनीकी-मार्गदर्शनं, प्रशिक्षणं, साप्ताहिक-क्षेत्र-निरीक्षणं तथा वैज्ञानिक-सहायता प्रदास्यते। कृषिक्षेत्राणां नियमित-निरीक्षणं कृषिविभागेन, उद्यानविभागेन तथा बंशी गिर गोशालायाः वैज्ञानिकैः संयुक्तरूपेण क्रियते, परियोजनायाः प्रत्येकं चरणस्य वैज्ञानिक-अभिलेखीकरणं च भविष्यति।
सन्धिना सह कृषकाणां चयनं पूर्णतया स्वैच्छिकं भविष्यति। परियोजनासम्बद्धे वैज्ञानिक-अनुसन्धाने मृदास्वास्थ्यस्य, सूक्ष्मजीव-क्रियाकलापानाम्, कार्बन-सञ्चयनस्य, पोषकतत्त्व-पुनर्चक्रणस्य तथा कृषेः लाभप्रदतायाः अपि अध्ययनं भविष्यति।
जनपदस्य कृषकाणां विश्वासवर्धनार्थं बंशी गिर गोशालया प्रारम्भिकचरणे चयनितेभ्यः १०० कृषकेभ्यः प्रत्येकस्मै अधिकतमम् एकैकरे क्षेत्रे समस्या-सहायतायाः अपि व्यवस्था कृता अस्ति। अस्याः व्यवस्थायाः अन्तर्गतं यदि परियोजनायाः स्वीकृत्या कृषकाणां लाभप्रदता सत्यापनानन्तरं निर्धारित-आधारस्तरात् न्यूना भवति, तर्हि निर्धारित-प्रक्रियानुसारं तस्याः क्षतेः पूरणस्य सम्पूर्णं दायित्वं बंशी गिर गोशालायाः भविष्यति। एतेन कृषिविभागस्य अथवा उद्यानविभागस्य उपरि किमपि वित्तीयदायित्वं न भविष्यति।
एतदतिरिक्तं उत्कृष्ट-प्रदर्शनं कुर्वतां कृषकाणां सम्माननम्, शोधपत्राणां, तकनीकी-प्रकाशनानां तथा परियोजना-प्रतिवेदनानां संयुक्त-प्रकाशनम्, एवं परियोजनायाः सुचारु-सञ्चालनार्थं स्टीयरिङ्ग-समितेः, मॉनिटरिङ्ग-समितेः तथा कार्यान्वयन-समितेः गठनस्य अपि प्रावधानम् अस्ति।
Hindusthan Samachar / Divya Ranjan