जनसेवाशिविरे 128 लाभार्थिभ्योऽमिलत् विभिन्न योजनानां लाभः
पौडीगढ़वालः, 08 जुलाईमासः (हि.स.)। मुख्यमन्त्रिणः पुष्करसिंहधामिनः निर्देशानुसारं सञ्चालितस्य सेवा सुशासनं समर्पणं च जनजनस्य सर्वकारः जनजनस्य द्वारे अभियानस्य अन्तर्गतं बुधवासरे दुगड्डाविकासखण्डस्य कोटद्वारस्थिते जिलाउद्योगकेन्द्रसभागारे जनसेवाशिवि
कोटद्वार में जन सेवा शिविर में लाभार्थियों के साथ मौजूद पदाधिकारी


पौडीगढ़वालः, 08 जुलाईमासः (हि.स.)।

मुख्यमन्त्रिणः पुष्करसिंहधामिनः निर्देशानुसारं सञ्चालितस्य सेवा सुशासनं समर्पणं च जनजनस्य सर्वकारः जनजनस्य द्वारे अभियानस्य अन्तर्गतं बुधवासरे दुगड्डाविकासखण्डस्य कोटद्वारस्थिते जिलाउद्योगकेन्द्रसभागारे जनसेवाशिविरम् आयोजितम्। शिविरस्य उद्देश्यं विभिन्नसर्वकारीयविभागानां सेवाः एकस्मिन्नेव स्थाने उपलब्धाः कारयित्वा सामान्यजनानां समस्यानां त्वरितसमाधानं सुनिश्चितं कर्तुम् आसीत्।

शिविरं प्राप्तानां जनानां परिवादेषु आवेदनपत्रेषु च सम्बन्धितविभागैः तत्कालं कार्यवाही कृता तथा अनेकेषां प्रकरणानां स्थले एव समाधानं कृतम्। एतदतिरिक्तं स्वास्थ्यपरीक्षणं प्रमाणपत्रवितरणं स्वरोजगारयोजनानां सूचना रोजगारसम्बन्धिपञ्जीकरणम् औषधवितरणं कृषिसम्बन्धिसहायता च उपलब्धा कारिता। अधिकारिभिः लाभार्थिभ्यः सर्वकारस्य विभिन्नजनकल्याणकारीयोजनानां सूचना अपि प्रदत्ता।

कार्यक्रमे राज्यमहिलायोगस्य अध्यक्षा कुसुमकण्डवालः विभागीयप्रदर्शनकक्षाणाम् निरीक्षणं कृत्वा लाभार्थिभिः सह संवादं कृतवती। सा उक्तवती यत् जनसेवाशिविराणि शासनस्य जनतायाश्च मध्ये संवादस्य प्रभावपूर्णं माध्यमं भवन्ति। एभिः शिविरैः पात्रव्यक्तिभ्यः योजनानां लाभः समयबद्धरूपेण पारदर्शितया च प्राप्यते। सा अधिकारिभ्यः निर्देशान् दत्तवती यत् १९ जुलाईपर्यन्तम् आयोज्यमानेषु सर्वेषु शिविरेषु अधिकाधिकाः पात्रजनाः योजनाभिः संयोजनीयाः तथा कोपि पात्रव्यक्तिः लाभात् वञ्चितः न भवेत्।

सा उक्तवती यत् मुख्यमन्त्रिणः नेतृत्वे राज्यसर्वकारः सेवायाः सुशासनस्य जनकल्याणस्य च भावनया कार्यं करोति। महिलानां कृषकाणां युवानां वरिष्ठनागरिकाणाम् आवश्यकतावन्तानां वर्गाणां च कृते सञ्चालितानां योजनानां लाभः निरन्तरं वर्धते येन जनानां शासनप्रशासनयोः प्रति विश्वासः सुदृढः अभवत्। शिविरे कुलं १२८ लाभार्थिभ्यः विभिन्नयोजनानां सेवानां च लाभः प्रदत्तः।

उद्योगविभागेन ५० लाभार्थिभ्यः ऋणवितरणसमायोजनपत्राणि यूडीवाईएम प्रमाणपत्राणि तथा मुख्यमन्त्रीस्वरोजगारयोजनायाः सूचना प्रदत्ता। स्वास्थ्यविभागेन ३० जनानां विभिन्नस्वास्थ्यपरीक्षणानि कृत्वा आवश्यकप्रमाणपत्राणि निर्गतानि।

ग्राम्यविकासविभागेन १० युवानां रोजगारावेदनपत्राणि पूरितानि तथा आयुर्वेदविभागेन १० लाभार्थिभ्यः निशुल्कौषधानि वितरितानि। समाजकल्याणविभागेन पञ्चजनेभ्यः वृद्धावस्थापेन्शनयोजनायाः सूचना प्रदत्ता। बालविकासविभागेन त्रिभ्यः पात्रलाभार्थिभ्यः महालक्ष्मीकिट वितरितानि तथा उद्यानविभागेन २० लाभार्थिभ्यः शाकबीजानि वितरितानि।

अस्मिन् अवसरे गोसेवायोगस्य अध्यक्षः पण्डित डा राजेन्द्रअण्थवालः सिञ्चनपरामर्शसमितेः उपाध्यक्षः ऋषिकण्डवालः महापौरः शैलेन्द्ररावतः भारतीयजनतापक्षस्य प्रदेशमन्त्री नलिनभट्टः भारतीयजनतापक्षस्य जिलाध्यक्षः राजगौरवनौटियालः नगरायुक्तः पी एल शाहः उपजिलाधिकारी सन्दीपकुमारः उद्योगमहाप्रबन्धकः सोमनाथगर्गः इत्यादयः उपस्थिताः आसन्।

Hindusthan Samachar / Dheeraj Maithani