उत्तराखण्डेन 98.7 प्रतिशतस्य साक्षरतादरस्य ऐतिहासिकः अभिलेखः निर्मितः, पूर्णसाक्षरतायाः दर्जा प्राप्तः
देहरादूनम्, 08 जुलाईमासः (हि.स.)। उत्तराखण्डेन शिक्षाक्षेत्रे महत्त्वपूर्णां उपलब्धिं प्राप्नुवता देशस्य षष्ठस्य पूर्णसाक्षरराज्यस्य दर्जा प्राप्तः। राज्यपालस्य स्वीकृत्यनन्तरं, केन्द्रस्य ''उल्लास'' कार्यक्रमस्य अन्तर्गतं राज्येन 98.7 प्रतिशतस्य
मुख्यमंत्री पुष्कर सिंह धामी फाइल चित्र।


देहरादूनम्, 08 जुलाईमासः (हि.स.)। उत्तराखण्डेन शिक्षाक्षेत्रे महत्त्वपूर्णां उपलब्धिं प्राप्नुवता देशस्य षष्ठस्य पूर्णसाक्षरराज्यस्य दर्जा प्राप्तः। राज्यपालस्य स्वीकृत्यनन्तरं, केन्द्रस्य 'उल्लास' कार्यक्रमस्य अन्तर्गतं राज्येन 98.7 प्रतिशतस्य साक्षरतादरस्य ऐतिहासिकः अभिलेखः निर्मितः।

भारतसर्वकारस्य विद्यालयीशिक्षासाक्षरताविभागेन निर्धारितान् मानकान् पूरयित्वा राज्यपालेन अद्य राज्यं पूर्णसाक्षरं घोषयितुं स्वीकृतिः प्रदत्ता।इतः पूर्वं मिज़ोरम्, गोआ, त्रिपुरा, हिमाचलप्रदेशः, सिक्किमं च पूर्णसाक्षरराज्यानि घोषितानि अभवन्। इदानीम् उत्तराखण्डम् अपि अस्यां सूच्यां समाविष्टम् अभवत्।

मुख्यमन्त्री पुष्करसिंहधामी-महोदयः इदं राज्यस्य कृते मीलस्तम्भः इति कथयन् अकथयत् यत् इयम् उपलब्धिः सर्वकारस्य सततप्रयासानां जनसहभागितायाः च परिणामः अस्ति। सः अकथयत् यत् सर्वकारः डिजिटलसाक्षरतां, वित्तीयसाक्षरतां, सततशिक्षां, जीवनोपयोगिकौशलानि च प्रत्येकनागरिकं यावत् प्रापयितुं प्रतिबद्धः अस्ति।

शिक्षामन्त्री धनसिंहरावतः अकथयत् यत् देशस्य षष्ठं पूर्णसाक्षरराज्यं भवितुं प्रत्येकोत्तराखण्डवासिनः कृते गर्वस्य विषयः अस्ति। सः अकथयत् यत् राष्ट्रियशिक्षानीतेः-2020 अनुरूपं प्रत्येकनागरिकाय गुणवत्तापूर्णाम् आजीवनशिक्षां च उपलब्धं कारयितुं सर्वकारः निरन्तरं कार्यं करोति।विद्यालयीशिक्षाविभागस्य सचिवः रविनाथरमण-महोदयः अकथयत् यत् पूर्णसाक्षरता सामाजिकस्य आर्थिकस्य विकासस्य च आधारशिला अस्ति। सः अकथयत् यत् उल्लासकार्यक्रमस्य माध्यमेन शिक्षायाः प्राप्तिः समाजस्य अन्तिमव्यक्तिं यावत् सुनिश्चिता कृता, यस्य परिणामस्वरूपं राज्यम् इदं लक्ष्यं प्राप्तवत्।

महानिदेशिका विद्यालयीशिक्षायाः आकांक्षा-कोण्डे-महोदया प्रारम्भिकशिक्षानिदेशकः कुँवरसिंहरावत-महोदयः च अपि इदं सर्वेषां जनपदानां, शिक्षकाणां, स्वयंसेवकानां, समुदायस्य च संयुक्तानां प्रयासानां परिणामम् इति अकथयताम्। सर्वकारीविज्ञप्त्यनुसारं उल्लासकार्यक्रमस्य उद्देश्यं केवलं निरक्षरान् वयस्कान् साक्षरान् कर्तुम् एव नास्ति, अपितु तान् डिजिटलसाक्षरतया, वित्तीयसाक्षरतया, जीवनोपयोगिकौशलैः, सततअधिगमेन च संयोजयितुम् अपि अस्ति।

Hindusthan Samachar / अंशु गुप्ता