Enter your Email Address to subscribe to our newsletters


सारणम्, ०८ जुलाईमासः (हि.स.)। नवीन-शिक्षाव्यवस्थायाः विद्यालयस्तरे प्रभावी-रीत्या कार्यान्वयनस्य उद्देश्येन सरस्वती-शिशु-विद्यामन्दिरे, दर्शननगरे, एक-दिवसीया कार्यशाला आयोजिता।
राष्ट्रियशिक्षानीतिः-२०२० तथा पञ्चपदी-शिक्षण-पाठयोजना इति विषय-केन्द्रितायाम् अस्यां कार्यशालायां विद्यालयस्य सर्वे शिक्षकाः सहभागिनः अभवन्।
विद्यालयस्य माध्यम-प्रभारी अनिल-कुमार-आजादः अवदत् यत् मुख्य-प्रशिक्षकः दिलीपतिवारी राष्ट्रियशिक्षानीतेः मूलोद्देश्यान्, पञ्चपदी-शिक्षण-पद्धतिम्, क्रियाकलाप-आधारित-शिक्षणम् तथा अनुभवानुभूतिमूलकम् अधिगमनम् इत्येषां विषये विस्तृतां सूचनाम् अयच्छत्।
तेन विशेषरूपेण प्रतिपादितं यत् आधुनिके शैक्षिकपरिवेशे शिक्षकस्य भूमिका केवलं पुस्तकीयज्ञानस्य प्रदाने सीमिता नास्ति, अपितु विद्यार्थिषु जिज्ञासा, तार्किकचिन्तनम् तथा जीवनकौशलस्य विकासः अपि तस्य महत्त्वपूर्णं दायित्वम् अस्ति।
प्रधानाचार्यः विनोदकुमारः राष्ट्रिय-शिक्षानीतिं-२०२० भारतीयशिक्षायाः कृते ऐतिहासिकं प्रयत्नम् इति वर्णयन् अवदत् यत् तस्य सफलकार्यन्वयनार्थं शिक्षकाणां निरन्तरं प्रशिक्षणम् अनिवार्यम् अस्ति।
सः सर्वान् शिक्षकान् एतानि नवीनानि शिक्षणविधानानि कक्षाकक्षेषु अपनयितुम् आहूतवान्। कार्यशालायां आदर्श-पाठयोजना, समूहचर्चा तथा व्यावहारिकाभ्यासस्य माध्यमेन शिक्षकाः प्रशिक्षिताः, यत् सर्वैरपि अत्यन्तं ज्ञानवर्धकम् इति कथितम्।
Hindusthan Samachar / Divya Ranjan