Enter your Email Address to subscribe to our newsletters

जयपुरम्, ०८ जुलाईमासः (हि.स.)। आषाढमासस्य कृष्णपक्षे योगिनी-एकादशी-व्रतम् अग्रिमे शुक्रवासरे, १० जुलाई-दिनाङ्के, श्रद्धया भक्तिभावेन च आचरिष्यते। सनातनधर्मे अस्याः एकादश्याः विशेषं धार्मिकमहत्त्वं मन्यते। धार्मिकमान्यतानुसारं भगवत: विष्णोः, मातु: लक्ष्म्याः तथा वृन्दाया: विधिवत् पूजनं व्रतपालनं च कृत्वा अनेकजन्मकृतानां पापानां नाशः भवति तथा सुख-समृद्धिः, आरोग्यं मानसिकशान्तिश्च प्राप्यते।
पण्डितः राजेशकुमारशर्मा अवदत् यत् योगिनी-एकादशी केवलं धार्मिकश्रद्धायाः पर्व न, अपितु आत्मसंयमस्य, सकारात्मक-ऊर्जायाः तथा आध्यात्मिकोन्नतेः अपि प्रतीकम् अस्ति। धार्मिकमान्यतानुसारम् एतद् व्रतं विशेषतः चर्मरोगेभ्यः राहतप्राप्त्यर्थं तथा परिवारे सुख-शान्ति-समृद्धीनां कामनया आचर्यते।
योगिनी-एकादश्याः तिथिः १० जुलाई-दिनाङ्के प्रातः ८:१६ वादनात् आरभ्य ११ जुलाई-दिनाङ्के प्रातः ५:२२ वादनपर्यन्तं भविष्यति। व्रतस्य पारणं ११ जुलाई-दिनाङ्के अपराह्णे २:०३ वादनात् सायं ४:४२ वादनपर्यन्तं कर्तव्यम्।
तेन उक्तं यत् एकादश्यां प्रातः स्नानानन्तरं भगवत: विष्णोः, मातु: लक्ष्म्याः तथा वृन्दाया: पूजनं कर्तव्यम्। अश्वत्थवृक्षस्य पूजनमपि शुभं मन्यते। दिवसभरं सात्त्विकाचारं पालनं कृत्वा भगवत: विष्णोः नामस्मरणं कुर्यात् तथा रात्रौ दीपं प्रज्वाल्य श्रीविष्णुसहस्रनाम-पाठं कुर्यात्। यथाशक्ति रात्रिजागरणं भजन-कीर्तनं च कृत्वा विशेषं पुण्यफलं लभ्यते।
पण्डितशर्मणा उक्तं यत् एकादश्यां गृहे मार्जनी-प्रयोगः न कर्तव्यः। आवश्यकता सति वस्त्रेण शौचकार्यं कर्तुं शक्यते। केशकर्तनं अन्यत् क्षौरकर्म वा न कर्तव्यम्। व्रतधारिभिः अन्नं न भोक्तव्यं तथा गोपुष्पं, गृंजनम्, शलगम्, पालकं विशेषतः तण्डुलानां सेवनं च वर्जनीयम्। यथाशक्ति: अन्नदानं पुण्यदायकं मन्यते। धार्मिकमान्यतानुसारं योगिनी-एकादशी-व्रतं शरीरस्य, मनसः आत्मनश्च शुद्धेः साधनम् अस्ति। श्रद्धया नियमपूर्वकं च व्रत-पूजनयोः आचरणेन रोगेभ्यः मुक्ति:, मानसिकशान्तिः, सकारात्मक-ऊर्जा तथा परिवारे सुख-समृद्धेः आशीर्वादः प्राप्यते।
Hindusthan Samachar / Divya Ranjan