Enter your Email Address to subscribe to our newsletters

जोधपुरम्, ०८ जुलाईमासः (हि.स.)। योगगुरो: बाबारामदेवस्य जोधपुरागमनावसरे यादव-समाजस्य प्रतिनिधिभिः तस्य हार्दिकं स्वागतं सम्मानं च कृतम्।
समाजस्य अध्यक्षः जगदीशयादवः तथा संरक्षकः डॉ.शैलेशयादवः बाबारामदेवं साफा-वस्त्रेण सम्मानितवन्तौ। अस्मिन् अवसरे तस्मै पुष्पगुच्छं तथा उत्तरीयं समर्प्य समाजस्य पक्षतः अभिनन्दनं शुभकामनाश्च प्रदत्ताः। बाबारामदेवः समाजबन्धुभ्यः सामाजिक-सौहार्दं, ऐक्यं तथा सेवाभावं धारयितुं सन्देशम् अददात्। सः समाजस्य जनान् प्रगतिपथे निरन्तरम् अग्रे गन्तुम् आशीर्वादं दत्त्वा अवदत् यत् सङ्गठितः समाजः एव राष्ट्रनिर्माणे प्रभावीं भूमिकां निर्वहति।
सः सर्वान् योगं प्राणायामं च दैनिकजीवनस्य अभिन्नमङ्गं कर्तुम् आहूतवान् तथा स्वस्थजीवनशैल्याः अवलम्बने विशेषं बलम् अददात्। बाबारामदेवः स्वस्य सहजेन सरलस्वभावेन समाजस्य प्रतिनिधिभिः सह आत्मीयं संवादम् अकरोत् तथा योगस्य माध्यमेन शारीरिक-मानसिक-स्वास्थ्ययोः सुदृढीकरणस्य सन्देशम् अददात्।
स्वागत-सम्मान-समारोहे यादव-समाजस्य अध्यक्षः जगदीशयादवः, संरक्षकः डॉ.शैलेशयादवः, उपाध्यक्षः मदनसिंहयादवः, युवा-अध्यक्षः चेतनयादवः, कोषाध्यक्षः संजययादवः, सह-कोषाध्यक्षः सन्तोष-सिंहयादवः, सूचना-प्रौद्योगिकी-प्रभारी रामावतारयादवः, सङ्गठन-सचिवः रामसिंहयादवः तथा हर्षयादवः, सुमनयादवः, पूजायादवः, मनीतयादवः, भूपेन्द्रयादवः, ध्रुवयादवः इत्यादयः समाजस्य बहवः सदस्याः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan