Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 08 जुलाईमासः(हि.स.)।भारतीयजनतापक्षेण उक्तं यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे भारतस्य सांस्कृतिककूटनीतिः केवलं भाषणेषु प्रतीकात्मकोपक्रमेषु वा सीमिता नास्ति अपितु सामूहिकसभ्यतागतविरासतस्य संरक्षणाय पुनर्स्थापनाय च क्रियमाणानां ठोसप्रयत्नानां रूपेण अपि समक्षम् आगच्छति।
भारतीयजनतापक्षस्य सूचनाप्रौद्योगिकीप्रकोष्ठस्य प्रमुखः अमितमालवीयः बुधवासरे स्वसन्देशे लिखितवान् यत् श्रीलङ्कायाः थिरुकेथीश्वरममन्दिरस्य बहरीनदेशस्य श्रीनाथजीमन्दिरस्य च जीर्णोद्धारेण सह कम्बोडियादेशस्य अङ्कोरस्य लाओसदेशस्य वाटफूस्थलस्य वियतनामदेशस्य मायसोनस्थलस्य नेपालदेशस्य ऐतिहासिकविरासतस्थलानां बाङ्ग्लादेशस्य मन्दिराणां म्यान्मारदेशस्य बागानविरासतक्षेत्रस्य तथा अधुना इण्डोनेशियादेशस्य प्रम्बाननमन्दिरपरिसरस्य संरक्षणे भारतं सक्रियभूमिकां निर्वहति।
एतासां परियोजनानां माध्यमेन भारतम् आधुनिकसीमाभ्यः परं विस्तृतायाः सामूहिकसांस्कृतिकविरासतस्य संरक्षणे योगदानं ददाति। एतत् भारतस्य तादृश्याः मृदुशक्तेः रूपेण दृश्यते या सभ्यतागतात्मविश्वासे आधारिता अस्ति तथा क्षेत्रीयदेशैः सह मैत्रीं जनानां परस्परसम्बन्धान् सांस्कृतिकसहयोगं च अधिकं सुदृढं करोति। अमितमालवीयः उक्तवान् यत् भारतं केवलम् ऐतिहासिकस्मारकाणां संरक्षणं न करोति अपितु शताब्दीप्राचीनसभ्यतागतसम्बन्धेभ्यः अपि नवीनं सुदृढत्वं प्रददाति।
भारतं यूनेस्कोविश्वविरासतस्थलस्य प्रम्बाननमन्दिरपरिसरस्य संरक्षणे जीर्णोद्धारे च इण्डोनेशियादेशस्य साहाय्यं करिष्यति। अस्यां परियोजनायां कार्यं कर्तुं मङ्गलवासरे उभाभ्यां देशाभ्याम् आशयपत्रं साझा कृतम् आसीत्।
इण्डोनेशियादेशे दशमशताब्द्यां निर्मितानि एतानि मन्दिराणि हिन्दुधर्मस्य त्रिभ्यः प्रमुखदेवेभ्यः ब्रह्मणे विष्णवे महेशाय च समर्पितानि सन्ति। एतदतिरिक्तं त्रीणि अन्यानि मन्दिराणि तेभ्यः पशुभ्यः समर्पितानि सन्ति ये एतेषां देवानां वाहनरूपेण मन्यन्ते। प्रम्बाननमन्दिरस्य निर्माणं १८५० ईस्वीये वर्षे अभवत्। अस्य मन्दिरस्य निर्माणं प्राचीनमतारसाम्राज्ये शासनं कृतवतः सञ्जयराजवंशस्य हिन्दुराज्ञः राकाईपिकाटनेन कारितम् आसीत्।
---------------
Hindusthan Samachar / Dheeraj Maithani