अखिलभारतीयविद्यापरिषद: स्थापना-दिवसे अमितशाहादिभिः शुभकामनाः प्रदत्ताः, राष्ट्रनिर्माणे छात्रशक्तेः भूमिकायाः प्रशंसा कृता
नवदेहली, ०९ जुलाईमासः (हि.स.)। विश्वस्य बृहत्तमस्य छात्रसङ्गठनस्य अखिलभारतीयविद्यार्थीपरिषदः स्थापना-दिवसस्य अवसरे केन्द्रीयगृहमन्त्री अमितशाहः, विविधराज्यानां मुख्यमन्त्रिणः, केन्द्रीयमन्त्रिणश्च शुभकामनाः प्रदत्तवन्तः। तैः राष्ट्रनिर्माणे, छात्रह
अखिल भारतीय विद्यार्थी परिषद (अभाविप) (फाइल फोटो)।


नवदेहली, ०९ जुलाईमासः (हि.स.)। विश्वस्य बृहत्तमस्य छात्रसङ्गठनस्य अखिलभारतीयविद्यार्थीपरिषदः स्थापना-दिवसस्य अवसरे केन्द्रीयगृहमन्त्री अमितशाहः, विविधराज्यानां मुख्यमन्त्रिणः, केन्द्रीयमन्त्रिणश्च शुभकामनाः प्रदत्तवन्तः। तैः राष्ट्रनिर्माणे, छात्रहितसंरक्षणे तथा सामाजिकचेतनायाः संवर्धने परिषदः निर्वह्यमाणस्य महत्त्वपूर्णस्य योगदानस्य प्रशंसा कृता।

केन्द्रीयगृह-सहकारितामन्त्री अमितशाहः अवदत् यत् स्वामी-विवेकानन्दस्य आदर्शान् अनुसरन्ती अखिलभारतीय-विद्यार्थीपरिषदः छात्रशक्तिं संगठ्य तेषु राष्ट्रभक्तेः भावनां सञ्चारयति। सः अवदत् यत् आपत्कालस्य विरोधात् आरभ्य पूर्वोत्तरभारते अवैधप्रवेश-समस्यापर्यन्तं परिषदः सर्वदा यूनः राष्ट्रहितकार्येषु अग्रस्थानं प्रापितवती अस्ति तथा भविष्येऽपि राष्ट्रहितं सर्वोपरि स्थापयितुं युववंशं प्रेरयिष्यति।

केन्द्रीय-मार्ग-परिवहन-राजमार्गमन्त्री नितिनगडकरी अखिलभारतीयविद्यार्थी-परिषद् राष्ट्रवादी-विचारधारया प्रेरितं सङ्गठनम् इति वर्णयन् अवदत् यत् परिषद् देशस्य युवाशक्तिं राष्ट्रसेवायै राष्ट्रिय-पुनर्निर्माणाय च निरन्तरं प्रेरयति। रक्षामन्त्री राजनाथसिंहः अवदत् यत् 'राष्ट्रं प्रथमम्' इति भावनया अखिलभारतीयविद्यार्थीपरिषद् बहुदशकेभ्यः विद्यार्थिनः राष्ट्रसेवायै, नेतृत्वाय, सामाजिक-उत्तरदायित्वाय च प्रेरयति। सः विश्वासं व्यक्तवान् यत् सङ्घटनं नूतनया ऊर्जया विद्यार्थीहितस्य राष्ट्रहितस्य च स्वस्य गौरवशालिनीं यात्रां निरन्तरं प्रवर्धयिष्यति।

केन्द्रीय-संसदीय-कार्य-अल्पसंख्यक-कार्य-मन्त्री किरेन-रिजिजू परिषदं भारतीय-संस्कृतेः, ज्ञान-परम्परायाः, राष्ट्रस्य एकता-अखण्डतायाश्च मूल्यैः प्रेरितं सङ्घटनम् इति निरूप्य अवदत् यत् तत् यूनां चरित्रनिर्माणाय समाजसेवायै च निरन्तरं कार्यं करोति। केन्द्रीय-कृषि-कृषक-कल्याणमन्त्री शिवराजसिंहचौहानः स्वस्य विद्यार्थीपरिषद्-संबद्धान् अनुभवान् संस्मरन् अवदत् यत् परिषद् तस्य जीवनस्य दिशां परिवर्तितवती। सः अवदत् यत् परिषद् तं केवलं स्वार्थाय न, अपितु देशाय समाजाय च जीवितुं प्रेरितवती। सः 'ज्ञानं, शीलम्, एकता—परिषदः विशेषता' इति मन्त्रं स्मरन् परिषदः सर्वेभ्यः कार्यकर्तृभ्यः शुभकामनाः प्रदत्तवान्।

केन्द्रीय-स्वास्थ्य-परिवार-कल्याणमन्त्री तथा भाजपापक्षस्य पूर्व-राष्ट्रीयाध्यक्षः जगतप्रकाश-नड्डा अवदत् यत् अखिलभारतीयविद्यार्थीपरिषद् स्वामी-विवेकानन्दस्य राष्ट्र-पुनर्निर्माण-संकल्पं अग्रे नीत्वा युवसु राष्ट्रसेवा, कर्तव्यबोधः, सामाजिकोत्थानस्य भावना च विकसितवती। सः परिषदः पूर्णकालिक-कार्यकर्तृत्वेन स्वस्य दीर्घानुभवस्यापि उल्लेखम् अकरोत्। भाजपापक्षस्य राष्ट्रीयाध्यक्षः नितिननवीनः अवदत् यत् अखिलभारतीयविद्यार्थीपरिषद् छात्रेषु 'राष्ट्रं प्रथमम्' इति भावनां, सांस्कृतिक-चेतनां, नेतृत्व-क्षमतां च विकसित्य देशस्य भविष्यं सुदृढं कृतवती।

केन्द्रीय-जलशक्ति-मन्त्री सी.आर. पाटिलः अवदत् यत् परिषद् शिक्षा, सङ्गठनम्, राष्ट्रनिर्माणम्, सामाजिक-उत्तरदायित्वम् इत्येतानि मूल्यानि आत्मसात् कृत्वा छात्रशक्तेः सकारात्मकां दिशां प्रदत्तवती। उत्तरप्रदेशस्य मुख्यमन्त्री योगी-आदित्यनाथः अखिलभारतीयविद्यार्थी-परिषद् 'ज्ञानं, शीलम्, एकता' इति मन्त्रेण युवाशक्तेः सकारात्मकदिशा-प्रदर्शकं सङ्गठनम् इति वर्णयन् तस्य उज्ज्वल-भविष्यस्य कामनाम् अकरोत्।

दिल्लीराज्यस्य मुख्यमन्त्री रेखा-गुप्ता अवदत् यत् विद्यार्थीजीवने राष्ट्रवादस्य, अनुशासनस्य, सेवाभावस्य च जागरणे अखिलभारतीयविद्यार्थीपरिषदः भूमिका अत्यन्तं महत्त्वपूर्णा वर्तते। सा अवदत् यत् परिषदः प्राप्ताः संस्काराः तस्याः सार्वजनिकजीवनस्य अमूल्य-सम्पदः सन्ति, तथा परिषदः कार्यकर्तारः विकसित-भारत-संकल्पस्य साकारकरणे महत्त्वपूर्णं योगदानं ददति। राजस्थानस्य मुख्यमन्त्री भजनलालशर्मा अवदत् यत् राष्ट्रनिर्माणे, छात्रहितसंरक्षणे, शिक्षाक्षेत्रे सकारात्मक-परिवर्तनस्य आनयने च अखिलभारतीयविद्यार्थीपरिषदः योगदानम् उल्लेखनीयम् अस्ति। सः परिषदः सर्वेभ्यः कार्यकर्तृभ्यः छात्रेभ्यः छात्राभ्यश्च स्थापना-दिवसस्य हार्दिकाः शुभकामनाः प्रदत्तवान्।

Hindusthan Samachar / Divya Ranjan