Enter your Email Address to subscribe to our newsletters

– अङ्कितशुक्लः
भारतीयज्ञानपरम्परायां शिक्षा केवलं जीविकोपार्जनस्य साधनं न मन्यते, अपितु चरित्रनिर्माणस्य, समाजोन्नतेः तथा राष्ट्रचेतनायाः मूलाधारः इति परिगण्यते। अस्माकं ग्रन्थेषु उक्तम् अस्ति—
“विद्या ददाति विनयं, विनयाद् याति पात्रताम्।पात्रत्वात् धनमाप्नोति, धनात् धर्मं ततः सुखम्॥”
एतस्याः महत: शिक्षादृष्टेः आधुनिक-भारतीयविद्यार्थिजीवने मूर्तरूपं दातुं अखिलभारतीयविद्यार्थिपरिषद् महत्त्वपूर्णं कार्यम् अकरोत्— “देहः आसीत्, ध्येयं तु परिषदेव अददात्।” एषा केवलं पङ्क्तिर्नास्ति, अपितु तेषां लक्षशः यूनां अनुभूतिः अस्ति, ये स्वविद्यार्थिजीवनं केवलं उपाधिप्राप्त्यै न सीमितवन्तः, प्रत्युत राष्ट्रपुनर्निर्माणस्य सङ्कल्पं कृत्वा स्वजीवनं समाजाय समर्पितवन्तः।
जुलाईमासस्य नवमः दिवसः भारतीयविद्यार्थ्यान्दोलनस्य इतिहासे केवलं तिथिमात्रं नास्ति, अपितु तादृशस्य विचारस्य प्रारम्भदिवसः अस्ति, येन विद्यार्थिजीवनं राष्ट्रजीवनस्य व्यापक-परिप्रेक्ष्ये संयोजितम्। अस्मिन्नेव दिने १९४९ तमे वर्षे अखिलभारतीय-विद्यार्थिपरिषदः विधिवत् पञ्जीकृता अभवत्। ततः प्रभृति: अद्यपर्यन्तं परिषद् छात्रहितस्य, समाजहितस्य, राष्ट्रहितस्य च त्रिवेणीसङ्गमस्य प्रतीका वर्तते।
अद्य यदा अखिलभारतीयविद्यार्थिपरिषद् स्वस्य अष्टसप्ततिवर्षीयगौरवयात्रायाः उत्सवं आचरति, तदा एषः केवलं संस्थापनादिवसस्य उत्सवः नास्ति, अपितु भारतीयविद्यार्थ्यान्दोलनस्य तस्याः स्वर्णिमयात्रायाः उत्सवः अस्ति, या असंख्येभ्यः युवभ्यः राष्ट्रसेवायाः मार्गं प्रदर्शितवती। विश्वस्य बृहत्तमविद्यार्थि-सङ्घटनत्वेन प्रतिष्ठिता परिषद् पुनः पुनः एतत् प्रतिपादितवती यत् विद्यार्थी केवलं भविष्यस्य नागरिकः नास्ति, सः वर्तमानस्य राष्ट्रनिर्माता अस्ति।
भारतस्य स्वातन्त्र्यप्राप्तेः अनन्तरं राष्ट्रं बहुभिः समस्याभिः पीडितम् आसीत्। शिक्षाव्यवस्था औपनिवेशिकमानसिकतया प्रभावितासीत्, समाजः दिशाभ्रष्टताम् अनुभूतवान्, युवशक्तेः सकारात्मकदिशे कश्चित् व्यापकः राष्ट्रियमञ्चः नासीत्। तस्मिन् समये कतिपयैः राष्ट्रनिष्ठैः युवकैः अनुभूतं यत् यदि भारतस्य भविष्यं उज्ज्वलं कर्तव्यम्, तर्हि विद्यार्थिनः राष्ट्रनिर्माणस्य सहभागीकरणीयाः। एतस्मात् चिन्तनात् परिषदः उद्भवः अभवत्। परिषदः ध्येयवाक्यम्— “ज्ञानम्, शीलम्, एकता”— विद्यार्थिनां व्यक्तित्वविकासस्य दूरदर्शिनः सिद्धान्तस्य परिचायकम् अस्ति। तस्मिन् काले परिषद् “छात्रशक्तिः राष्ट्रशक्तिः” इति घोषवाक्यं दत्त्वा विद्यार्थिशक्तेः राष्ट्रपुनर्निर्माणे महत्त्वम् उद्घाटितवती।
अस्यां यात्रायां परिषदः विशेषता एषा अपि आसीत् यत् सा रचनात्मकान्दोलनस्य सह देशकालपरिस्थित्यानुसारं विद्यार्थिशक्तेः दिशानिर्देशनार्थं वैविध्यपूर्णाः गतिविधयः स्वकार्यपद्धत्याः अभिन्नभागत्वेन स्वीकृतवती। छात्रसमस्यानां समाधानात् आरभ्य शिक्षासुधारः, सामाजिकसमरसता, पर्यावरणसंरक्षणम्, ग्रामविकासः, आपदाराहतकार्याणि, रक्तदानम्, सेवाबस्तिषु कार्यम्, महिलास्वावलम्बनम्, पूर्वोत्तरभारतस्य भावात्मकैकात्म्यम्, सांस्कृतिकपुनर्जागरणम्, राष्ट्रियसुरक्षा च परिषदः कार्ययोजनायाः प्रमुखाः विषयाः अभवन्। परिषदः दृढविश्वासः आसीत् यत् परिवर्तनं विरोधेन विवादेन वा न, अपितु सकारात्मकसृजनेन सम्भवति।
परिषदः यात्रा केवलं शिक्षणसंस्थापरिसरेषु न सीमिता अभवत्। यदा यदा राष्ट्रस्य समक्षं सङ्कटम् उपस्थितम् अभवत्, तदा तदा परिषदः कार्यकर्तारः अग्रपङ्क्तौ दृश्यन्ते स्म। “कैम्पस् टू कम्युनिटी” इति अभियानस्य माध्यमेन विद्यार्थिनः समाजे स्वकर्तव्यस्य बोधं प्राप्तवन्तः। प्राकृतिक-आपदासु सहयोगकार्येषु, सामाजिक-जागरूकतायाः अभियानेषु, स्वच्छतायाः, पर्यावरणसंरक्षणस्य, शिक्षा-गुणवत्तायाः च क्षेत्रेषु परिषदः समाजस्य विश्वासम् अर्जितवती।
परिषदः विविधैः आयामैः अपि विशिष्टा अस्ति। स्टूडेण्ट्स फॉर डेवलपमेण्ट् इत्यनेन पर्यावरणस्य सततविकासस्य च चिन्तनम्, स्टूडेण्ट्स फॉर सेवा इत्यनेन सेवाकार्याणि, राष्ट्रीयकलामञ्चेन भारतीय-कलासंस्कृतेः संरक्षणम्, खेलो भारत इत्यनेन स्वस्थजीवन-शैलीप्रोत्साहनम्, एसईआईएल इत्यनेन पूर्वोत्तरभारतस्य अन्यप्रदेशैः सह आत्मीयसम्बन्धवर्धनम्, थिङ्क् इण्डिया इत्यनेन नेतृत्वनिर्माणम्, अनुसन्धान-प्रोत्साहनम् तथा सविष्कार इत्यनेन नवोन्मेषस्य उद्यमितायाश्च संवर्धनम्— एते सर्वे परिषदः व्यापक-दृष्टिकोणस्य परिचायकाः सन्ति।
अष्टसप्ततिवर्षेषु परिषद् केवलं सङ्घटनस्य विस्तारं न कृतवती, अपितु नेतृत्वस्य तादृशीं परम्पराम् अपि विकसितवती, या समाजे, शिक्षायाम्, प्रशासने, विज्ञाने, न्यायक्षेत्रे, उद्योगे, माध्यमेषु, राजकारणे च राष्ट्रनिष्ठं नेतृत्वं प्रदत्तवती। परिषदः कार्यपद्धतिः “व्यक्ति-निर्माणेन राष्ट्रनिर्माणम्” इति सिद्धान्ते आधृता अस्ति।
परिषदः महत्बलं तस्याः वैचारिकी स्पष्टता तथा सङ्गठनात्मकानुशासनम् अस्ति। कालः परिवर्तितः, परिस्थितयः परिवर्तिताः, किन्तु परिषदः मूलध्येयं न परिवर्तितम्। राष्ट्रसर्वोपरित्वस्य भावना, विद्यार्थी-केन्द्रितक्रियाकलापाः, समाजपरिवर्तनद्वारा राष्ट्रपुनर्निर्माणस्य लक्ष्यं च अद्यापि तस्याः प्रमुखप्राथमिकताः सन्ति। अत एव प्रतिवर्षं लक्षशः विद्यार्थिनः परिषदः सह सम्बध्य स्वं महत्तरस्य राष्ट्रियलक्ष्यस्य भागिनं मन्यन्ते।
अद्य नवीनशिक्षानीतिः, कृत्रिमबुद्धिमत्ता, डिजिटलशिक्षा, स्टार्टअप-संस्कृतिः, अनुसन्धानम्, नवोन्मेषः तथा वैश्विक-स्पर्धायाः युगम् अस्ति। एतादृशे काले परिषद् विद्यार्थिनः केवलं रोजगारार्थं न, अपितु उत्तरदायिनः नागरिकान् समर्थनेतॄन् च निर्मातुं प्रयतते। शिक्षां भारतीयता, नैतिकता, आधुनिकता च संयोजयितुं परिषद् यः प्रयासः दशकानुदशकं कुर्वती आगता, सः अद्य अधिकः प्रासङ्गिकः प्रतिभाति।
अखिलभारतीयविद्यार्थिपरिषदः अष्टसप्ततिवर्षीययात्रा अखण्डपुरुषार्थस्य, राष्ट्रभक्तेः तथा छात्रशक्तेः राष्ट्रशक्तौ परिणतेः जीवन्तगाथा अस्ति। अद्य आवश्यकता अस्ति यत् देशस्य प्रत्येकं विद्यार्थी केवलं सफलतायाः स्वप्नं न पश्येत्, अपितु समाजं राष्ट्रं च प्रति स्वकर्तव्यस्य बोधं कृत्वा राष्ट्रस्य पुनर्निर्माणस्य अस्मिन् महायज्ञे स्वकीयाम् आहुतिं समर्पयेत्।
(लेखकः अखिलभारतीयविद्यार्थिपरिषदा सम्बद्धः अस्ति।)
Hindusthan Samachar / Divya Ranjan