Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 09 जुलाईमासः (हि.स.)।
आस्ट्रेलियादेशः भारताय त्रीणि महत्त्वपूर्णानि प्राचीनधार्मिककलावस्तूनि प्रत्यर्पयितुं गच्छति। एतेषु देवीभद्रकाल्याः आकृतियुक्तः धातुनिर्मितः त्रिशूलः भगवान् शङ्करस्य वाहनस्य नन्दिनः पाषाणप्रतिमा तथा षण्मुखस्य भगवान् कार्तिकेयस्य एका दुर्लभा प्रतिमा च समाविष्टानि सन्ति। तमिलनाडुराज्यस्य मन्दिरैः सम्बद्धानि एतानि कलावस्तूनि चोलकालविजयनगरनायककालाभ्यां सम्बद्धानि सन्ति तथा भारतस्य सांस्कृतिकविरासतायाः महत्त्वपूर्णः अंशः मन्यन्ते।
प्रधानमन्त्रिकार्यालयस्य अनुसारं भारतस्य आस्ट्रेलियादेशस्य च मध्ये सम्पन्नानां द्विपक्षीयसहमतीनाम् अन्तर्गतं एतानि प्राचीनविरासतवस्तूनि शीघ्रमेव पूर्णसम्मानेन भारतं प्रत्यानेष्यन्ते। प्रमुखेषु कलावस्तुषु देवीभद्रकाल्याः प्रतिमायुक्तः धातुनिर्मितः त्रिशूलः अस्ति। अयं धार्मिकानुष्ठानिकः त्रिशूलः अस्ति यस्य शीर्षभागे शक्तेः उग्ररूपायाः देवीभद्रकाल्याः आकृतिः अङ्किता अस्ति। शैवशाक्तपरम्परायाम् अयं सुरक्षायाः दुष्टतायाः विनाशस्य दैवीशक्तेश्च प्रतीकः मन्यते। धार्मिकपूजार्थं दक्षिणभारतीयमन्दिरानुष्ठानस्य पारम्परिकधातुकलाशैल्याम् अयं निर्मितः आसीत्। एतत् कलावस्तु तमिलनाडुराज्यस्य कोल्लुमाङ्गुडिस्थितस्य श्रीकाशीविश्वनाथस्वामिमन्दिरस्य अस्ति। अस्य मन्दिरस्य निर्माणं त्रयोदशशताब्दीतः षोडशशताब्दीपर्यन्तं चोलकालस्य अन्तिमचरणात् विजयनगरनायककालपर्यन्तं जातम् आसीत्।
पाषाणनिर्मिता नन्दिप्रतिमा
अस्यां प्रतिमायां भगवान् शिवस्य पवित्रवाहनः परमभक्तश्च नन्दी प्रदर्शितः अस्ति। तमिलशैवमन्दिरपरम्परायाः अनुसारं नन्दी भक्तेः शक्तेः धर्मस्य च प्रतीकरूपेण सर्वदा मुख्यमन्दिरगर्भगृहं प्रति अभिमुखः संस्थाप्यते। तमिलशैवमन्दिरकलाशैल्यां निर्मितायाम् अस्यां प्रतिमायां सुस्पष्टं शारीरिकानुपातं सूक्ष्मालङ्कारिकविवरणानि च दृश्यन्ते। प्रतिमायां नन्दी पारम्परिकरूपेण कण्ठे अलङ्कारिकघण्टिकाभिः मालाभिश्च सह शयानमुद्रायां प्रदर्शितः अस्ति। एषा प्रतिमा अपि तमिलनाडुराज्यस्य तिरुवारूरजनपदस्य कोल्लुमाङ्गुडिग्रामस्थितेन ऐतिहासिकेन श्रीकाशीविश्वनाथस्वामिमन्दिरेण सम्बद्धा अस्ति। एतत् मन्दिरं त्रयोदशशताब्दीतः षोडशशताब्दीपर्यन्तस्य कालखण्डेन सम्बद्धम् अस्ति।
कार्तिकेयस्य पाषाणप्रतिमा
एषा दुर्लभा पाषाणप्रतिमा भगवान् शिवस्य पुत्रं षण्मुखं कार्तिकेयं मुरुगनं षण्मुखं वा प्रदर्शयति यः ज्ञानस्य वीरतायाः दैवीसुरक्षायाश्च प्रतीकः मन्यते। प्रतिमायां सः द्वादशभुजैः सह प्रदर्शितः अस्ति येषु तस्य प्रमुखम् अस्त्रं वेल नामकः शक्तिभेदः तथा अन्यानि आयुधानि च समाविष्टानि सन्ति। तेन सह तस्य वाहनं मयूरमपि उत्कीर्णम् अस्ति। एषा प्रतिमा चोलकालीनमूर्तिकलापरम्परायाः उत्कृष्टम् उदाहरणम् अस्ति या स्वस्य श्रेष्ठशारीरिकानुपातस्य सजीवोत्कीर्णनकलायाश्च कारणेन सम्पूर्णविश्वे प्रसिद्धा अस्ति। एषा बहुमूल्या प्रतिमा तमिलनाडुराज्यस्य तञ्जावूरजनपदस्य मनमबाडीग्रामस्थितस्य नागनाथस्वामिमन्दिरस्य अस्ति। अस्य ऐतिहासिकमन्दिरस्य निर्माणम् एकादशशताब्द्याः प्रारम्भे सम्राट् राजेन्द्रचोलप्रथमस्य शासनकाले कृतम् आसीत्।
आस्ट्रेलियादेशात् प्राचीनानां बहुमूल्यानां च कलावस्तूनां भारतं प्रति प्रत्यागमनं उभयोः देशयोः मध्ये सुदृढतरान् भवतः द्विपक्षीयसम्बन्धान् ऐतिहासिकविरासतायाः संरक्षणार्थं सहप्रतिबद्धतां च रेखाङ्कयति।
------------
Hindusthan Samachar / Dheeraj Maithani