Enter your Email Address to subscribe to our newsletters

भोपालम्, 09 जुलाईमासः (हि.स.) ।
मध्यप्रदेशस्य मुख्यमन्त्री डा मोहनयादवः अखिलभारतीयविद्यार्थिपरिषदः स्थापनादिवसस्य शुभकामनाः प्रेषितवान्।
मुख्यमन्त्री डा यादवः गुरुवासरे सामाजिकमाध्यमस्य एक्स इत्यस्य माध्यमेन उक्तवान् यत् अखिलभारतीयविद्यार्थिपरिषदः स्थापनादिवसस्य हार्दिकाः शुभकामनाः वर्धापनानि च। अखिलभारतीयविद्यार्थिपरिषद् ज्ञानं शीलम् एकता इति ध्येयवाक्येन सह विद्यार्थिशक्तिं युवशक्तिं च राष्ट्रसेवायाः संस्कारान् प्रददत् सङ्गठनम् अस्ति। अखिलभारतीयविद्यार्थिपरिषदः कार्यकर्तारः देशस्य नवनिर्माणे सततं सक्रियां भूमिकां निर्वहन्तु इत्येव कामना अस्ति।
उल्लेखनीयम् अस्ति यत् अखिलभारतीयविद्यार्थिपरिषद् एकं छात्रसङ्गठनम् अस्ति। अस्य स्थापना नव जुलाई एकोनपञ्चाशदधिकैकोनविंशतिशततमे वर्षे अभवत्। अस्य सङ्गठनस्य उद्देश्यं छात्रेषु राष्ट्रभक्तेः सामाजिकदायित्वस्य शिक्षां प्रति जागरूकतायाश्च विकासः अस्ति। एतत् राष्ट्रियस्वयंसेवकसङ्घस्य आनुषङ्गिकं सङ्गठनम् अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani