भारते ५०० मिलियन-ऑस्ट्रेलियाई-डॉलर-परिमितं निवेशं करिष्यति ऑस्ट्रेलियनसुपर, प्रधानमन्त्रिणा मोदिना कृतं स्वागतम्
नवदेहली, ०९ जुलाईमास: (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे भारतस्य नेशनल-इन्वेस्टमेंट-एण्ड्-इन्फ्रास्ट्रक्चर-फण्ड् इत्यस्मिन् ऑस्ट्रेलियन इति सुपर-संस्थायाः अतिरिक्तं ५०० मिलियन-ऑस्ट्रेलियाई-डॉलर-परिमितस्य निवेशस्य स्वागतम् अकरोत्। सः अवद
प्रधानमंत्री नरेन्द्र मोदी और ऑस्ट्रेलिया के पीएम एंथनी अल्बानीज


ऑस्ट्रेलिया में प्रधानमंत्री नरेन्द्र मोदी और अन्य


नवदेहली, ०९ जुलाईमास: (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी गुरुवासरे भारतस्य नेशनल-इन्वेस्टमेंट-एण्ड्-इन्फ्रास्ट्रक्चर-फण्ड् इत्यस्मिन् ऑस्ट्रेलियन इति सुपर-संस्थायाः अतिरिक्तं ५०० मिलियन-ऑस्ट्रेलियाई-डॉलर-परिमितस्य निवेशस्य स्वागतम् अकरोत्। सः अवदत् यत् अयं निवेशः भारतस्य आर्थिकप्रगतौ सुधारेषु च वैश्विक-निवेशकानां वर्धमानविश्वासस्य प्रतीकः अस्ति।

प्रधानमन्त्री नरेन्द्रमोदी ‘एक्स’ इति सामाजिकमाध्यमे प्रकाशिते स्वस्य सन्देशे उक्तवान् यत् ऑस्ट्रेलियनसुपर-संस्थायाः अयं नवीनः निवेशः भारतस्य विकासयात्रायां विश्वस्य दृढविश्वासं प्रकाशयति। तेनोक्तं यत् अयं निवेशः भारतस्य तीव्रगत्या परिवर्तमानायाः अर्थव्यवस्थायाः अन्तर्निहितानां विशालनिवेशस्य अववसराणामपि प्रमाणम् अस्ति। अस्य निवेशस्य घोषणा मेलबर्न-नगरे आयोजितायाम् ऑस्ट्रेलिया-भारत-वार्षिक-नेतृ-शिखर-सम्मेलने अभवत्।

अद्य प्रातःकाले मेलबर्न-नगरे संस्थायाः मुख्यकार्यकारी-अधिकारी पॉल-श्रोडर-महोदयेन अस्य निवेशस्य घोषणा कृता। ऑस्ट्रेलियादेशस्य बृहत्तम-पेन्शन-निधेः ऑस्ट्रेलियनसुपर-संस्थायाः मुख्य-कार्यकारी-अधिकारी पॉल-श्रोडरः अतिरिक्तं ५०० मिलियन-ऑस्ट्रेलियाई-डॉलर-परिमितस्य निवेशस्य विवरणम् अयच्छत्। अनेन निवेशेन सह अधुना भारते सर्वेषु परिसम्पत्ति-वर्गेषु ऑस्ट्रेलियन इति सुपर-संस्थायाः निवेशः ३.३ बिलियन-ऑस्ट्रेलियाई-डॉलर-परिमितः अभवत्।

वर्षे २०१५ तमे नेशनल-इन्वेस्टमेंट-एण्ड्-इन्फ्रास्ट्रक्चर-फण्ड् इति संस्थायाः स्थापना भारतस्य आधारभूत-संरचना-क्षेत्रे दीर्घकालिक-संस्थागत-निवेशम् आकर्षयितुं कृता। वर्तमानकाले ऑस्ट्रेलियनसुपर इति संस्था भारतस्य आधारभूत-संरचना-क्षेत्रे, समभाग-विपणे तथा प्राइवेट-मार्केट-क्षेत्रे च प्रायः २.८ बिलियन-ऑस्ट्रेलियाई-डॉलर-परिमितं निवेशं कृतवती अस्ति।

Hindusthan Samachar / Divya Ranjan