Enter your Email Address to subscribe to our newsletters

शिमलानगरम्, ०९ जुलाईमासः (हि.स.)। प्रदेश-भाजपा-अध्यक्षः डॉ. राजीवबिन्दलः लोकनिर्माणमन्त्री विक्रमादित्यसिंहस्य नवीनवक्तव्येषु तीव्रां प्रतिक्रियां प्रदत्तवान्। सः उक्तवान् यत् विक्रमादित्यसिंहस्य वक्तव्यैः एतत् स्पष्टं भवति यत् सः अद्यापि राजशाही-मानसिकतायाः बहिः निर्गन्तुं न समर्थः। तस्य मते भारतं लोकतान्त्रिकः देशः अस्ति, यत्र नेतृत्वस्य निर्णयः जनतया क्रियते, न तु कस्यचित् कुलस्य अथवा वंशस्य आधारेण।
डॉ.बिन्दलः गुरुवासरे अवदत् यत् सम्भवतः राजपरिवारात् आगमनस्य कारणात् विक्रमादित्यसिंहस्य एषा धारणा अस्ति यत् सामान्यपरिवारात् आगतः कश्चन जनः राजनीतौ समाजसेवायां वा अग्रे गन्तुं न शक्नोति। सः उक्तवान् यत् लोकतन्त्रे प्रत्येकं जनस्य नेतृत्वं कर्तुं समानः अधिकारः अस्ति तथा च अन्तिमः निर्णयः जनतायाः हस्ते एव भवति।
भाजपा-प्रदेशाध्यक्षः अवदत् यत् सः विक्रमादित्यसिंहस्य वर्तमानवयसः अपेक्षया अपि अधिककालात् हिमाचल-प्रदेशे जनसेवायां समाजसेवायां च संलग्नः अस्ति। तेन उक्तं यत् तस्य परिवारः भारतस्य स्वातन्त्र्यप्राप्तेः पूर्वमेव अनेक-दशकेभ्यः समाजसेवायां निरतः अस्ति। सः अवदत् यत् स्वस्य सामाजिकप्रतिबद्धतायाः प्रमाणं कस्यापि समीपे प्रदातुं तस्य आवश्यकता नास्ति।
डॉ.बिन्दलः आरोपितवान् यत् विक्रमादित्यसिंहः निरन्तरं व्यक्तिगत-टिप्पण्यः तथा मिथ्यारोपान् करोति। सः अवदत् यत् पूर्वमपि मन्त्रिणा तस्य विरुद्धम् आपत्तिजनकाः टिप्पण्यः कृताः आसन्, यस्य अनन्तरं तेन हिमाचलप्रदेश-उच्चन्यायालये मानहानि-वादः प्रविष्टः आसीत्। तस्य कथनानुसारं पश्चात् विक्रमादित्यसिंहः व्यक्तिगततया तेन सह सम्पर्कं कृत्वा तं वादं प्रत्याहर्तुं प्रार्थितवान्। बिन्दलः पुनरारोपितवान् यत् अद्यापि मन्त्री तथ्यस्थानं परित्यज्य व्यक्तिगतारोपानाम् आश्रयं गृहीत्वा राजनैतिकवातावरणं प्रभावितुं प्रयतते।
सः अवदत् यत् कांग्रेस-सर्वकारस्य सत्तायाम् आगमनात् सार्धत्रिवर्षाणि व्यतीतानि, तथापि प्रदेशस्य जनाः दुर्दशायुक्ताभिः मार्गैः, स्थगित-विकास-कार्यैः, बेरोजगारी-समस्यया तथा अव्यवस्थया पीडिताः सन्ति। तेन आरोपितं यत् प्रदेशस्य बहवः मार्गाः अत्यन्तं जीर्णावस्थायां सन्ति, येन जनानाम् आवागमने कठिनताः उत्पद्यन्ते। तस्य मते लोकनिर्माणमन्त्री सन् अपि विक्रमादित्यसिंहः एतेषु विषयेषु ध्यानं न दत्त्वा केवलं राजनैतिक-वक्तव्येषु एव व्यग्रः अस्ति।
Hindusthan Samachar / Divya Ranjan