भारत विकास परिषद् समाचरिष्यति 64तमं स्थापनादिवसं, वीरसावरकरे भविष्यति विशेषप्रस्तुतिः
जयपुरम्, 09 जुलाईमासः (हि.स.)।भारतविकासपरिषदः चतुःषष्टितमस्थापनादिवसस्य उपलक्ष्ये परिषदः राजस्थानस्य उत्तरपूर्वप्रान्तेन शुक्रवासरे ‘जयास्तुते अहम् अपि वीरसावरकरः अंशमात्रम्’ इति कार्यक्रमस्य आयोजनं करिष्यते। कार्यक्रमः सायं ५:४५ वादने राजापार्कस्थ
भारत विकास परिषद के स्थापना दिवस पर होगा 'जयास्तुते' कार्यक्रम


जयपुरम्, 09 जुलाईमासः (हि.स.)।भारतविकासपरिषदः चतुःषष्टितमस्थापनादिवसस्य उपलक्ष्ये परिषदः राजस्थानस्य उत्तरपूर्वप्रान्तेन शुक्रवासरे ‘जयास्तुते अहम् अपि वीरसावरकरः अंशमात्रम्’ इति कार्यक्रमस्य आयोजनं करिष्यते। कार्यक्रमः सायं ५:४५ वादने राजापार्कस्थितस्य आदर्शविद्यामन्दिरस्य सीबीएसई परिसरे दीपप्रज्वालनेन आरप्स्यते।

कार्यक्रमे स्वतन्त्रतासेनानिनः वीरविनायकदामोदरसावरकरस्य त्यागं बलिदानं राष्ट्रभक्तिं प्रेरणाप्रदं जीवनं च आधृत्य विशेषा मञ्चीयप्रस्तुतिः प्रदास्यते। इन्दौरनगरस्य प्रस्तोता नीलमाधववसन्तभुसारी स्वप्रस्तुतिं प्रदास्यति।

कार्यक्रमस्य मुख्यातिथिः राजस्थानविधानसभायाः अध्यक्षः प्रो. वासुदेवदेवनानी भविष्यति। अध्यक्षतां भारतविकासपरिषदः क्षेत्रीयाध्यक्षः राधेश्यामरङ्गा करिष्यति, क्षेत्रीयसङ्गठनमन्त्री विक्रान्तखण्डेलवालश्च मुख्यवक्तृरूपेण सम्बोधयिष्यति।

आयोजनस्य सज्जताः अन्तिमचरणे सन्ति। कार्यक्रमस्य निवेदकाः आर् एस् सक्सेना अध्यक्षः न्यासी च, डॉ. श्यामसुन्दरअग्रवालः प्रान्तीयाध्यक्षः तथा विजयपारीकः जिलासमन्वयकः सन्ति। कार्यक्रमस्य आयोजनं भारतविकासपरिषदः उत्तरपूर्वप्रान्तीयधर्मार्थन्यासस्य जयपुरस्य तत्त्वावधाने क्रियते।

कार्यक्रमे परिषदः महेशनगर, मानसरोवर, प्रतापनगर, साङ्गाबाबा, तेजाजीनगर, भगतसिंह, चित्रकूटनगर, जयपुरहेरिटेज, महानगर, वैशाली, विवेकानन्द, आदर्शनगर, अम्बाबाडी, हवामहल, महाराणाप्रताप, मालवीयनगर तथा विजयनगर इत्यादीनां विविधशाखानां पदाधिकारिणः सदस्याश्च भागं ग्रहीष्यन्ति। एतदतिरिक्तं सामाजिककार्यकर्तारः, शिक्षाविदः विविधक्षेत्राणां गणमान्यनागरिकाश्च उपस्थिताः भविष्यन्ति।

Hindusthan Samachar / Dheeraj Maithani