Enter your Email Address to subscribe to our newsletters

बांदा, 09 जुलाईमासः (हि.स.)।
उत्तरप्रदेशस्य मुख्यमन्त्री योगिआदित्यनाथः गुरुवासरे बान्दायाम् आयोजितायां जनसभायां विविधजनकल्याणकारीयोजनानां लाभार्थिभ्यः नियुक्तिपत्राणि, धनादेशान्, कुञ्चिकाः, प्रमाणपत्राणि अन्याश्च सहायतासामग्रीः वितीर्य शासनस्य योजनानां लाभं सामान्यजनेभ्यः प्रापयितुं सन्देशं दत्तवान्।
कार्यक्रमे मुख्यमन्त्री योगिआदित्यनाथः द्वाभ्याम् आङ्गनवाडीसहायिकाभ्यां नियुक्तिपत्रे प्रदत्तवान्। अनेन सह विविधविभागीययोजनानां लाभार्थिभ्यः आर्थिकसहायतां, आवासकुञ्चिकाः, आयुष्मानपत्राणि, ट्रैक्टरयानस्य ईरिक्शायानस्य च कुञ्चिकाः, सीवनयन्त्राणि सहितं विविधलाभान् वितरितवान्।
अस्मिन् अवसरे बान्दाजनपदस्य विकासयात्राम् आधृत्य निर्मिता लघुचलच्चित्रिका अपि प्रदर्शिता। मुख्यमन्त्री बालकानाम् अन्नप्राशनसंस्कारं कारितवान् तथा महिलाभ्यः पोषणसामग्रीपूर्णाः पोटलिकाः वितरितवान्। सः विभागीयप्रदर्शनीम् अवलोकयन् युवभिः सह संवादं कृतवान्। मूलशिक्षापरिषदः प्रदर्शनीकक्षं प्राप्य ‘विद्यालयं चलामः अभियानम्’ इत्यस्य बालकैः निर्मितानां प्रतिरूपाणां च विषये सूचनां प्राप्तवान् तथा बालकेभ्यः चाकलेहानि प्रदाय तेषाम् उत्साहवर्धनं कृतवान्।
कार्यक्रमस्य समये बान्दाजनपदस्य जिलाधिकारी अमितआसेरी जिलाप्रशासनस्य पक्षतः मुख्यमन्त्रिणं योगिआदित्यनाथं शजरप्रस्तरेण निर्मितम् आकर्षकं शिवालयं समर्प्य सम्मानितवान्।
मुख्यमन्त्री योगिआदित्यनाथः कार्यक्रमे विविधयोजनानां लाभार्थिनः सम्मानितवान् लाभान्वितांश्च कृतवान्। सः पुष्पादेव्यै पूजायै च आङ्गनवाडीसहायिकापदस्य नियुक्तिपत्रे प्रदत्तवान्। रश्मिअग्रवालाय अजीतसिंहाय च मुख्यमन्त्रीशिक्षकनिःशुल्कचिकित्सायोजनायाः लाभं प्रदत्तवान्। मञ्जुदेव्यै भारतीसिंहाय च राष्ट्रियग्रामीणाजीविकाभियानस्य अन्तर्गतं ८.९५ कोटिरूप्यकाधिकराशेः धनादेशं प्रदत्तवान्।
सरोजदेव्यै ईरिक्शायानस्य कुञ्चिकां, सुमतदेव्यै सीवनयन्त्रं तथा अनिलकुमाराय मुख्यमन्त्रीयुवोद्यमिविकासाभियानस्य अन्तर्गतं पञ्चलक्षरूप्यकाणां धनादेशं समर्पितवान्। मोरध्वजाय ट्रैक्टरयानस्य कुञ्चिकां, मुलायमाय अरविन्दकुमाराय च आयुष्मानपत्राणि प्रदत्तवान्।
गेनियायै मुख्यमन्त्रीकृषकदुर्घटनाकल्याणयोजनायाः अन्तर्गतं पञ्चलक्षरूप्यकाणां धनादेशं तथा अभिषेकसोनी इत्यस्मै मुख्यमन्त्रीबालसेवायोजनायाः अन्तर्गतं ७,५०० रूप्यकाणां धनादेशं प्रदत्तवान्। अंशवे मुख्यमन्त्रीआवासयोजनायाः ग्रामीणस्य स्वीकृतिपत्रं तथा रमेशप्रजापतये आवासस्य कुञ्चिकां समर्पितवान्।
रामरतनाय मुख्यमन्त्रीमृत्तिकाकलोपकरणयोजनायाः अन्तर्गतं विद्युत्सञ्चालितकुलालचक्रस्य प्रमाणपत्रं, वन्दनागुप्तायै नन्दिनीकृषकसमृद्धियोजनायाः प्रमाणपत्रं तथा शोभारामकश्यपाय पक्षिसंरक्षणक्षेत्रे उत्कृष्टकार्याय आपदाविभागस्य पक्षतः प्रशस्तिप्रमाणपत्रं प्रदाय सम्मानितवान्।
मुख्यमन्त्री अवदत् यत् समाजस्य अन्तिमपङ्क्तौ स्थितस्य व्यक्तेः पर्यन्तं शासकीययोजनानां लाभं प्रापयितुं प्रदेशशासनस्य प्राथमिकता अस्ति। अस्यैव उद्देश्यस्य पूर्तये पारदर्शितया प्रभावकारितया च जनकल्याणकारीयोजनानां क्रियान्वयनं क्रियते।
---------------