पिनाका लॉन्ग रेंज गाइडेड रॉकेट इत्यस्य सफलपरीक्षणे ओडिशायाः मुख्यमंत्री अददात् डीआरडीओनिमित्तानि वर्धापनानि
भुवनेश्वरम्, 09 जुलाईमासः (हि.स.)। ओडिशायाः मुख्यमन्त्री मोहनचरणमाझी रक्षानुसन्धानविकाससङ्गठनं डीआरडीओ तथा अस्य अभियानस्य सम्बद्धान् समस्तान् वैज्ञानिकान् हितधारकांश्च पिनाकादीर्घदूरनिर्देशितप्रक्षेपास्त्रस्य सफलपरीक्षणावसरे हार्दिकं वर्धापनं प्रद
मुख्यमंत्री मोहन चरण माझी  (फाइल फोटो)


भुवनेश्वरम्, 09 जुलाईमासः (हि.स.)।

ओडिशायाः मुख्यमन्त्री मोहनचरणमाझी रक्षानुसन्धानविकाससङ्गठनं डीआरडीओ तथा अस्य अभियानस्य सम्बद्धान् समस्तान् वैज्ञानिकान् हितधारकांश्च पिनाकादीर्घदूरनिर्देशितप्रक्षेपास्त्रस्य सफलपरीक्षणावसरे हार्दिकं वर्धापनं प्रदत्तवान्।

मुख्यमन्त्री सामाजिकमाध्यमे प्रसारिते स्वसन्देशे उक्तवान् यत् ओडिशायाः चान्दीपुरे स्थिते एकीकृतपरीक्षणक्षेत्रे पिनाकादीर्घदूरनिर्देशितप्रक्षेपास्त्रस्य सफलपरीक्षणं भारतस्य स्वदेशीरक्षाप्रौद्योगिक्याः सटीकप्रहारक्षमतायाश्च वर्धमानस्य सामर्थ्यस्य प्रमाणम् अस्ति।

सः उक्तवान् यत् एषा उपलब्धिः देशस्य रक्षाक्षेत्रे आत्मनिर्भरतां अधिकं सुदृढां करिष्यति तथा आत्मनिर्भरभारतस्य सङ्कल्पाय नूतनां गतिं प्रदास्यति। मुख्यमन्त्री एतां सफलतां भारतस्य रक्षानुसन्धानस्य स्वदेशीसैन्यप्रौद्योगिक्याः विकासस्य च दिशि महत्त्वपूर्णं मीलस्तम्भं निरूपितवान्।

---------------

Hindusthan Samachar / Dheeraj Maithani