मुख्यमन्त्रिणा कृत: शिक्षातन्त्रज्ञानसम्बद्धानां बहूनां योजनानां शुभारम्भः, पञ्च विद्यार्थिभ्यः प्रदत्तानि अमेरिकादेशयात्रायाः विमानयानपत्राणि
नवदेहली, ०९ जुलाईमासः (हि.स.)। देहल्याः मुख्यमन्त्री रेखा गुप्ता गुरुवासरे सक्षम-योजनायाः अन्तर्गतं शिक्षातन्त्रज्ञानसम्बद्धानां बहूनां योजनानां शुभारम्भम् अकरोत्। तया शालीमारबाग-विधानसभाक्षेत्रे स्थिते राजकीयविद्यालये देशस्य प्रथमस्य कृत्रिमबुद्धि
शालीमार बाग में आयोजित कार्यक्रम में मुख्यमंत्री रेखा गुप्ता शुक्रवार को  स्टेम इनोवेशन लैब में उत्कृष्ट प्रदर्शन करने वाले टॉप पांच विद्यार्थियों को यूनाइटेड स्टेट्स स्पेस एंड रॉकेट सेंटर के प्रतिष्ठित अंतरिक्ष विज्ञान कार्यक्रम के लिए अमेरिका यात्रा के एअर टिकट प्रदान करत ेहुए


नवदेहली, ०९ जुलाईमासः (हि.स.)। देहल्याः मुख्यमन्त्री रेखा गुप्ता गुरुवासरे सक्षम-योजनायाः अन्तर्गतं शिक्षातन्त्रज्ञानसम्बद्धानां बहूनां योजनानां शुभारम्भम् अकरोत्। तया शालीमारबाग-विधानसभाक्षेत्रे स्थिते राजकीयविद्यालये देशस्य प्रथमस्य कृत्रिमबुद्धिमत्ता-समन्वित-स्मार्ट-शौचालयस्य लोकार्पणम् अकरोत्। तदनन्तरं देहल्याः सर्वेषु राजकीयविद्यालयेषु स्टेम-नवाचार-प्रयोगशालानाम्, आधुनिक-सङ्गणक-प्रयोगशालानां तथा स्मार्ट-डिजिटल-कक्षाणां शुभारम्भम् अपि कृतवती।

एतदतिरिक्तं मुख्यमन्त्री अद्य छात्राणां कृते चिकित्सकीय-स्वास्थ्यपरीक्षणस्य, नेत्रपरीक्षणस्य, उपनेत्र-वितरणस्य, उदर-कृमिनाशक-औषध-वितरणस्य तथा रजस्वलाकाले स्वच्छतासम्बद्धस्य कार्यक्रमस्य शुभारम्भम् अकरोत्। सा अवदत् यत् प्रधानमन्त्रीण: नरेन्द्रमोदिनः नेतृत्वे नूतनं भारतं प्रतिभां संसाधनानां सीमाभ्यः उद्धृत्य अवसरैः सह संयोजयति। तस्यैव संकल्पस्य पूर्त्यर्थं राजकीय-विद्यालयेषु अध्ययनरतबालकेभ्यः विश्व-स्तरीया शिक्षा, आधुनिकतन्त्रज्ञानम् तथा नवाचारस्य नूतनावसराः उपलब्धाः क्रियन्ते।

सा अवदत् यत् राज्यस्य सर्वकारस्य उद्देश्यं केवलं विद्यार्थिनां परीक्षासु सफलतां प्राप्तुं साहाय्यं कर्तुमेव नास्ति, अपितु तेषां वैज्ञानिकचिन्तनस्य, सृजनात्मकतायाः तथा वैश्विकप्रतिस्पर्धायां समर्थतायाः विकासः अपि अस्ति। आधुनिकसुविधाभिः युक्ता: विद्यालया:, नवाचार-प्रयोगशालाः तथा डिजिटल-कक्षाः विद्यार्थिनः भविष्यस्य आव्हानानां सम्मुखिनं कर्तुं समर्थान् करिष्यन्ति इति तया प्रतिपादितम्।

अस्मिन् अवसरे स्टेम-नवाचार-प्रयोगशालासु उत्कृष्टं प्रदर्शनं कृतवद्भ्यः श्रेष्ठेभ्यः पञ्च विद्यार्थिभ्यः यूएसएसआरसी इत्यस्य प्रतिष्ठितस्य अन्तरिक्षविज्ञान-कार्यक्रमस्य सहभागितार्थम् अमेरिका-देशयात्रायाः विमानयानपत्राणि मुख्य-मन्त्रिणा प्रदत्तानि। सा सर्वेभ्यः विद्यार्थिभ्यः तेषां उज्ज्वलभविष्यस्य कृते हार्दिकाः शुभकामनाः प्रदाय परिश्रमेण, अनुशासनेन, नवाचारेण च राष्ट्रनिर्माणे योगदानं दातुं प्रेरितवती।

Hindusthan Samachar / Divya Ranjan