एबीवीपीस्थापनादिवसे मुख्यमंत्री मोहन चरण माझी अददात् शुभकामनाः
भुवनेश्वरम्, 09 जुलाईमासः (हि.स.)।ओडिशायाः मुख्यमन्त्री मोहनचरणमाझी अखिलभारतीयविद्यार्थिपरिषदः एबीवीपी स्थापनादिवसावसरे सङ्गठनस्य समस्तेभ्यः कार्यकर्तृभ्यः देशव्यापिने विद्यार्थिसमुदायाय च हार्दिकाः शुभकामनाः वर्धापनानि च प्रेषितवान्। मुख्यमन्त्री
मुख्यमंत्री मोहन चरण माझी  (फाइल फोटो)


भुवनेश्वरम्, 09 जुलाईमासः (हि.स.)।ओडिशायाः मुख्यमन्त्री मोहनचरणमाझी अखिलभारतीयविद्यार्थिपरिषदः एबीवीपी स्थापनादिवसावसरे सङ्गठनस्य समस्तेभ्यः कार्यकर्तृभ्यः देशव्यापिने विद्यार्थिसमुदायाय च हार्दिकाः शुभकामनाः वर्धापनानि च प्रेषितवान्।

मुख्यमन्त्री सामाजिकमाध्यमे प्रसारिते स्वसन्देशे उक्तवान् यत् राष्ट्रियचेतनया सामाजिकोत्तरदायित्वेन ज्ञानचरित्रैकता इति मूलमन्त्रेण च प्रेरिता अखिलभारतीयविद्यार्थिपरिषद् विद्यार्थिनां सशक्तीकरणस्य दिशि निरन्तरं कार्यं कुर्वती अस्ति। सः उक्तवान् यत् सङ्गठनं भारतीयजीवनमूल्याधारितराष्ट्रचेतनायाः निर्माणे विद्यार्थिषु देशभक्तेः राष्ट्रसेवायाश्च संस्काराणां विकासे च महत्त्वपूर्णां भूमिकां निर्वहति।

मुख्यमन्त्री उक्तवान् यत् अखिलभारतीयविद्यार्थिपरिषद् युवपीढ्यां राष्ट्रियमूल्यानां सामाजिकदायित्वबोधस्य सकारात्मकनेतृत्वक्षमतायाश्च विकासार्थं निरन्तरं प्रयत्नशीला अस्ति। सः राष्ट्रसेवायै समर्पितानां सङ्गठनस्य समस्तनिष्ठावन्तकार्यकर्तॄणां योगदानस्य प्रशंसां कुर्वन् तेषां कार्याणि समाजराष्ट्रनिर्माणाय प्रेरणादायकानि निरूपितवान्।

स्वसन्देशे मुख्यमन्त्री मोहनचरणमाझी अखिलभारतीयविद्यार्थिपरिषदः समस्तानां समर्पितकार्यकर्तॄणां समग्रविद्यार्थिसमाजस्य च उज्ज्वलभविष्यस्य कामनां कुर्वन् स्थापनादिवसावसरे हार्दिकाः शुभकामनाः वर्धापनानि च प्रेषितवान्।

---------------

Hindusthan Samachar / Dheeraj Maithani