नूतनया औद्योगिकनीत्या हिमाचले वर्धिष्यते निवेशो, युवभ्यो मेलिष्यति जीविका- मुख्यमंत्री सुक्खूः
शिमला, 09 जुलाईमासः (हि.स.)। मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् हिमाचलप्रदेशसर्वकारः नवीनौद्योगिकनीतेः अन्तिमरूपप्रदानप्रक्रियायाम् अस्ति तथा एषा शीघ्रम् अधिसूचयिष्यते। सः अवदत् यत् नवीननीत्या राज्ये निवेशम् आकर्षयितुं युवभ्यः जीविकावसरा
मुख्यमंत्री बैठक की अध्यक्षता करते हुए


शिमला, 09 जुलाईमासः (हि.स.)।

मुख्यमन्त्री सुखविन्दरसिंहसुक्खुः अवदत् यत् हिमाचलप्रदेशसर्वकारः नवीनौद्योगिकनीतेः अन्तिमरूपप्रदानप्रक्रियायाम् अस्ति तथा एषा शीघ्रम् अधिसूचयिष्यते। सः अवदत् यत् नवीननीत्या राज्ये निवेशम् आकर्षयितुं युवभ्यः जीविकावसरान् वर्धयितुं उद्योगस्थापनप्रक्रियां च अधिकं सरलीकर्तुं सहायता भविष्यति।

शिमलानगरे उद्योगविभागस्य समीक्षासभायाः अध्यक्षतां कुर्वन् मुख्यमन्त्री अवदत् यत् नवीनौद्योगिकनीतेः निर्माणात् पूर्वं सर्वैः हितधारकैः सह चर्चा क्रियते। तस्य कथनम् आसीत् यत् सर्वकारः उद्योगानुकूलां नीतिं निर्माति। सः अवदत् यत् निवेशकेभ्यः सुविधां प्रदातुं एकलवातायनस्वीकृतिप्रणाली अपि अधिकं सुदृढा क्रियते।

मुख्यमन्त्री अवदत् यत् उद्योगानां स्थापनया सञ्चालनेन च सम्बद्धाः नियमाः प्रक्रियाश्च सरलीक्रियन्ते। सः अवदत् यत् विगतसार्धत्रिवर्षाणां काले अस्यां दिशि अनेकाः नीतिगतनिर्णयाः वैधानिकपरिष्काराश्च कृताः सन्ति।

सभायाम् ऊनायां निर्मीयमाणस्य बल्क ड्रग पार्क इत्यस्य धर्मशालायां निर्माणाधीनस्य यूनिटी माल इत्यस्य च प्रगतेः अपि समीक्षा कृता। मुख्यमन्त्री अधिकारिभ्यः उभयोः परियोजनयोः कार्यं तीव्रं कर्तुं निर्देशान् दत्तवान्। सः अवदत् यत् बल्क ड्रग पार्क इत्यत्र देशस्य प्रतिष्ठिताः कम्पन्यः निवेशाय आमन्त्रितव्याः। सः अवदत् यत् २०७१ कोटिरूप्यकाणाम् अस्याः परियोजनायाः माध्यमेन प्रदेशस्य युवभ्यः बहुसंख्यकाः रोजगारावसराः उत्पत्स्यन्ते। सः सूचितवान् यत् परियोजनायै प्रायः ८०० बीघापरिमिता भूमिः समतलीकृता अस्ति तथा स्थलविकासकार्यं तीव्रगत्या प्रचलति।

मुख्यमन्त्री अधिकारिभ्यः निर्देशान् दत्तवान् यत् बल्क ड्रग पार्क इत्यत्र कामन एफ्लुएन्ट ट्रीटमेन्ट प्लान्ट तथा स्टीम जनरेशन सुविधायाः कार्यं १५ जुलाई दिनाङ्कपर्यन्तं सम्पूर्णं क्रियताम्।

धर्मशालायां निर्मीयमाणस्य यूनिटी माल इत्यस्य समीक्षाकाले मुख्यमन्त्री अवदत् यत् परियोजनायाः प्रथमांशरूपेण ६६ कोटिरूप्यकाणि निर्गतानि सन्ति तथा स्थलविकासकार्यं प्रचलति।

मुख्यमन्त्री अधिकारिभ्यः वन डिस्ट्रिक्ट थ्री प्रोडक्ट्स कार्यक्रमस्य अन्तर्गतं प्रत्येकस्य जनपदस्य उत्पादानां परिचयं कर्तुमपि निर्देशान् दत्तवान्। सः अवदत् यत् राज्यसर्वकारः ग्रामीणार्थव्यवस्थां सुदृढां कर्तुं प्रतिबद्धः अस्ति। तस्य कथनम् आसीत् यत् अनेन उपक्रमेण जनानां कृते आजीविकायाः नवीनाः अवसराः उत्पत्स्यन्ते तथा तेषाम् आर्थिकस्थितिः श्रेष्ठा भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani