मुख्यमंत्री योगी चित्रकूटस्य प्रमुखसन्यासिभिः विहिता कामदगिरि पर्वतस्य पंचकोसी परिक्रमा
-परिक्रमायां स्थाने स्थाने योगिनः स्वागतम् चित्रकूटम्, 09 जुलाईमासः (हि.स.)।उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः चित्रकूटजनपदप्रवासस्य द्वितीये दिने गुरुवासरे प्रभुश्रीरामस्य तपोभूमौ धर्मनगर्यां चित्रकूटे विधिविधानपूर्वकं पूजनार्चनं कृत्
*मुख्यमंत्री योगी आदित्यनाथ ने भगवान श्री कामतानाथ का दर्शन कर की प्रदेश की सुख-समृद्धि एवं जनकल्याण की कामना*


*मुख्यमंत्री योगी आदित्यनाथ ने भगवान श्री कामतानाथ का दर्शन कर की प्रदेश की सुख-समृद्धि एवं जनकल्याण की कामना*


*मुख्यमंत्री योगी आदित्यनाथ ने भगवान श्री कामतानाथ का दर्शन कर की प्रदेश की सुख-समृद्धि एवं जनकल्याण की कामना*


-परिक्रमायां स्थाने स्थाने योगिनः स्वागतम्

चित्रकूटम्, 09 जुलाईमासः (हि.स.)।उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः चित्रकूटजनपदप्रवासस्य द्वितीये दिने गुरुवासरे प्रभुश्रीरामस्य तपोभूमौ धर्मनगर्यां चित्रकूटे विधिविधानपूर्वकं पूजनार्चनं कृत्वा भगवान् श्रीकामतानाथस्य दर्शनं कृतवान्। सः पवित्रां कामदगिरिपरिक्रमां कृत्वा प्रदेशस्य सुखसमृद्धेः शान्तेः जनकल्याणस्य च मङ्गलकामनां कृतवान्।

मुख्यमन्त्री योगी आदित्यनाथः बरहाहनुमानमन्दिरात् स्वपरिक्रमाम् आरभ्य रघुवरकिशोरमन्दिरस्य दर्शनं कृतवान् तथा श्रद्धाभक्तिभावेन भगवान् श्रीकामतानाथस्य पवित्रां परिक्रमां कृतवान्। परिक्रमाकाले राममोहल्लाक्षेत्रे सन्तः मदनगोपालदासः पूजनार्चनं कारितवान्। प्रथममुखारविन्दस्थले पुजारी भरतशरणदासमहाराजः वैदिकमन्त्रोच्चारणस्य मध्ये विधिवत् पूजां सम्पन्नां कारितवान्। भरतमिलापमन्दिरे महन्तः राममनोहरदासः भगवान् भरतस्य चरणचिह्नानां पूजनम् आरार्तिक्यं च कारितवान्। बरहाहनुमानमन्दिरे मन्दिरस्य पुजारी विजयतिवारीमहाराजः श्रीहनुमतः विधिवत् पूजनार्चनम् आरार्तिक्यं च कारितवान्।

कामदगिरिमहाआरार्तिकस्थले आचार्यः विपिनविराटः मुख्यमन्त्रिणः करकमलैः भगवान् श्रीकामतानाथस्य महारार्तिक्यं पूजनं च सम्पन्नं कारितवान्। अस्मिन्नवसरे आचार्यः विपिनविराटः मुख्यमन्त्रिणे कामदगिरेः चित्रं रामनामाङ्कितम् अङ्गवस्त्रं च समर्प्य तं सम्मानितवान्। तत्रैव कामदगिरिक्षेत्रस्य सभासदः अरुणकुमारत्रिपाठी जुगलः भगवान् श्रीकामतानाथस्य चित्रम् अङ्गवस्त्रं च समर्प्य तस्य स्वागतं कृतवान्। महारार्तिक्यावसरे तुलसीपीठस्य रामचन्द्रदासः भारतमन्दिरस्य महन्तः दिव्यजीवनदासः च सहिताः अनेके सन्तमहात्मानः महन्तश्च उपस्थिताः आसन्।

परिक्रमाकाले सम्पूर्णपरिक्रमाक्षेत्रे श्रद्धालुभिः क्रियमाणैः जय श्रीराम इति घोषैः मुख्यमन्त्रिणः जयघोषैश्च समग्रं भक्तिमयं वातावरणं गुञ्जायमानम् अभवत्। योगी मार्गे उपस्थितैः बालकैः सह आत्मीयं संवादं कृत्वा तेषाम् अध्ययनविषये सूचनां प्राप्तवान् तथा तेभ्यः मधुरिकाः चाकलेहांश्च वितीर्य तान् प्रोत्साहितवान्। सः बालकान् स्नेहपूर्वकम् अङ्के गृहीत्वा तेषाम् उत्साहवर्धनमपि कृतवान्। एतदतिरिक्तं सः परिक्रमामार्गे वानरेभ्यः गोवंशेभ्यश्च चणकान् गुडं च भोजयित्वा जीवान् प्रति स्वसंवेदनशीलतां करुणां च प्रदर्शितवान्।

परिक्रमां पूर्णां कृत्वा मुख्यमन्त्री योगी सर्किटहाउसं प्राप्तवान् यत्र सः एकं वृक्षं मातुः नाम्ना इत्यभियानस्य अन्तर्गतं हरिशङ्करीपादपस्य रोपणं कृतवान्। तदनन्तरं सः दलस्य पदाधिकारिभिः कार्यकर्तृभिश्च सह मिलित्वा संवादं कृतवान्। चित्रकूटजनपदात् बान्दाजनपदं प्रति प्रस्थानावसरे तस्मै सम्मानरक्षकदलेन सम्मानं प्रदाय ससम्मानं विदायः प्रदत्तः।

अस्मिन्नवसरे लोकनिर्माणविभागस्य राज्यमन्त्री बृजेशसिंहः चित्रकूटधाममण्डलस्य बान्दास्थः आयुक्तः अजीतकुमारः बान्दापरिक्षेत्रस्य पुलिसोपमहानिरीक्षकः राजेश एस जिलाधिकारी पुलकितगर्गः पुलिसाधीक्षकः अरुणकुमारसिंहः मुख्यविकासाधिकारी डी पी पालः अपरजिलाधिकारी वित्तराजस्वः चन्द्रशेखरः अपरजिलाधिकारी न्यायिकः अरुणकुमारः भारतीयजनतापक्षस्य जिलाध्यक्षः महेन्द्रकोटार्यः कर्वीनगरपालिकापरिषदः अध्यक्षः नरेन्द्रगुप्तः जिलासहकारिवित्तकोषस्य अध्यक्षः पङ्कजाग्रवालः पूर्वसांसदौ आर के सिंहपटेलः भैरवप्रसादमिश्रश्च पूर्वराज्यमन्त्री चन्द्रिकाप्रसादोपाध्यायः पूर्वविधायकः आनन्दशुक्लः दिनेशमिश्रः मानिकपुरखण्डप्रमुखः अरविन्दमिश्रः मऊनगरपञ्चायतः अध्यक्षः अमितद्विवेदी पूर्वजिलाध्यक्षः लवकुशचतुर्वेदी चन्द्रप्रकाशखरे जिलामहामन्त्री अश्वनीअवस्थी आलोकपाण्डेयः अञ्जुवर्मा नगराध्यक्षः रविगुप्तः च सहिताः अन्ये जनप्रतिनिधयः सन्तमहात्मानः उत्तरप्रदेशस्य मध्यप्रदेशस्य च प्रशासनिकाः पुलिसाधिकारिणश्च उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani