स्वास्थ्यभवने केन्द्रीयनियन्त्रणकक्षस्य स्थापना, सर्वेषां राजकीयचिकित्सालयानां निरीक्षणं भविष्यति - मुख्यमंत्री शुभेन्दु अधिकारी
मुख्यमन्त्री अवदत्— दलालप्रणाली समूलं निवारयिष्यते कोलकातानगरम्, ०९ जुलाईमासः (हि.स.)। पश्चिमबङ्गसर्वकारेण राजकीय-चिकित्सालयेषु पारदर्शितां वर्धयितुं तथा कथितमध्यस्थप्रणाल्याः निरोधनार्थं स्वास्थ्यभवने केन्द्रीय-नियन्त्रणकक्षः स्थापितः। गुरुवासरे
स्वास्थ्य भवन में शुभेंदु अधिकारी


मुख्यमन्त्री अवदत्— दलालप्रणाली समूलं निवारयिष्यते

कोलकातानगरम्, ०९ जुलाईमासः (हि.स.)। पश्चिमबङ्गसर्वकारेण राजकीय-चिकित्सालयेषु पारदर्शितां वर्धयितुं तथा कथितमध्यस्थप्रणाल्याः निरोधनार्थं स्वास्थ्यभवने केन्द्रीय-नियन्त्रणकक्षः स्थापितः। गुरुवासरे मुख्यमन्त्री शुभेन्दुः अधिकारी नियन्त्रण-कक्षस्य निरीक्षणं कृत्वा उक्तवान् यत् अधुना राज्यस्य सर्वेषां राजकीय-चिकित्सालयानाम् निरीक्षणम् अस्मात् केन्द्रात् एव भविष्यति, येन रोगिणः कस्यापि मध्यस्थस्य हस्तक्षेपं विना उत्तमाः स्वास्थ्यसेवाः प्राप्नुयुः।

मुख्यमन्त्री अवदत् यत् चिकित्सालयेषु उत्तमपरिवेशस्य संरक्षणार्थं निरन्तरम् निरीक्षणम् अत्यावश्यकम्। तस्य मतानुसारं चिकित्सालयेषु कार्यरताः वैद्याः, परिचारिकाः तथा अन्ये स्वास्थ्यकर्मिणः अनुभवीनः सन्ति। तेषां कृते केवलं श्रेष्ठं कार्यपरिवेशं पर्याप्तसुरक्षां च प्रदातुं आवश्यकता वर्तते। सर्वकारः स्वास्थ्य-कर्मिणां सुरक्षां सुनिश्चितां करिष्यति तथा चिकित्सालयेषु कस्यापि अवैधक्रिया-कलापस्य विषये कठोरदृष्टिं स्थापयिष्यति।

सः अवदत् यत् नियन्त्रणकक्षस्य निरीक्षणव्यवस्थया सन्दिग्धक्रिया-कलापानां परिचयः भविष्यति। यदि कश्चन जनः स्पष्टकारणं विना निरन्तरं द्विदिनपर्यन्तं चिकित्सा-लयपरिसरे विचरन् दृश्यते तर्हि तस्य परीक्षणं क्रियते। मुख्यमन्त्री अवदत् यत् सामान्यरोगिणः निरन्तरं द्विदिने अल्ट्रासोनोग्राफी-परीक्षणादिकं कर्तुं न आगच्छन्ति, अतः एतादृशैः क्रियाकलापैः मध्यस्थानां परिचयः सुलभः भविष्यति।

मुख्यमन्त्री अवदत् यत् सः अद्यतनकाले अनेकान् राजकीयचिकित्सालयान् परिदृष्टवान्। चिकित्सालयेषु स्वच्छतां स्वास्थ्यकर्मिणां कार्यं च प्रशंसन् सः उक्तवान् यत् प्रशासनिकाधिकारिणः अपि समर्थाः सन्ति। समुचितनिर्देशप्रदानेन व्यवस्था अधिकं प्रभावशालिनी करिष्यते।स्वास्थ्यसुविधानां विस्तारस्य उल्लेखं कुर्वन् मुख्यमन्त्री अवदत् यत् न्यू-टाउन-प्रदेशे अडानी-समूहेन द्विसहस्रशय्यायुक्तम् अत्याधुनिकचिकित्सालयं निर्मीयते, यस्य उद्घाटनं शीघ्रमेव भविष्यति। तेन उक्तं यत् अस्मिन् चिकित्सालये एकसहस्रशय्याः आर्थिकदृष्ट्या निर्धनरोगिभ्यः आरक्षिताः भविष्यन्ति।

तेन एतदपि उद्घोषितं यत् राज्यस्य सर्वेषु प्रमुखचिकित्सालयेषु चरणबद्धरीत्या शय्यानां संख्या वर्धिष्यते। एस.एस.के.एम.-चिकित्सालये दुर्गापूजातः पूर्वं २००–२५० अतिरिक्तशय्याः योजिताः भविष्यन्ति, तथा च सघनचिकित्साकक्षस्य शय्यानां संख्या ११२ इत्यस्मात् न्यूनाति-न्यूनं २०० पर्यन्तं वर्धिष्यते।

मुख्यमन्त्री अवदत् यत् समीपवर्तिन्या तारातल-दुर्घटनया राज्ये आघात-चिकित्सासुविधानां अधिकसुदृढीकरणस्य आवश्यकता स्पष्टा अभवत्। तेन स्वास्थ्यमन्त्रिणं स्वास्थ्यसचिवं च निर्देशः दत्तः यत् तादृशस्थानानि परिचीयन्ताम्, यत्र अत्याधुनिकानि आघातचिकित्सा-केन्द्राणि विकसितुं शक्यन्ते, येन आपत्काले एकस्मिन् समये २५० जनानां शीघ्रचिकित्सां प्रदातुं शक्येत।

Hindusthan Samachar / Divya Ranjan