Enter your Email Address to subscribe to our newsletters

भारतीय-इतिहासे १० जुलाई-दिनाङ्कः राष्ट्रिय-कैडेट्-कोर-इत्यस्य कृते ऐतिहासिकः मीलस्तम्भः अस्ति। अस्मिन्नेव दिने १९६४ तमे वर्षे मध्यप्रदेशस्य ग्वालियर-नगरे देशस्य प्रथमा महिला-एनसीसी-अधिकारी-प्रशिक्षण-अकादमी स्थापिता। एषा संस्था महिलाभ्यः सैन्य-नेतृत्व-क्षेत्रे अग्रे गन्तुं सुवर्णावसरम् अददात्। अद्यावधि सहस्रशः महिला-अधिकारिण्यः अत्र प्रशिक्षणं प्राप्य देशस्य विविधेषु प्रदेशेषु एनसीसी-संस्थायाः नेतृत्वं कुर्वन्ति।
अस्याः अकादम्याः प्रथमः महिला-प्रशिक्षार्थिनीनां वर्गः १९६५ तमे वर्षे प्रशिक्षणं सम्पन्नवान्। अनन्तरं १९८२ तमे वर्षे अस्याः पुनर्गठनं कृत्वा ‘ऑफिसर-ट्रेनिङ्ग्-स्कूल’ इति स्वरूपं दत्तम्। अद्यापि एषा संस्था महिला-एनसीसी-अधिकाऱिणां उच्चस्तरीय-सैन्य-प्रशिक्षणस्य प्रमुख-केन्द्रेषु परिगण्यते। ग्वालियर-स्थिते अस्मिन् प्रशिक्षण-केन्द्रे महिला-कैडेट्-प्रशिक्षार्थिनीभ्यः भारतीय-सशस्त्र-बलानां अनुरूपं कठोरं प्रशिक्षणं प्रदीयते। प्रशिक्षणकाले ताभ्यः शस्त्र-सञ्चालनम्, क्षेत्र-कौशलम्, युद्ध-कौशलम्, नेतृत्व-क्षमता, शारीरिक-दक्षता तथा सामरिक-रणनीतीनां गहनं शिक्षणं प्रदीयते।
महिला-प्रशिक्षार्थिनीभ्यः बहुकालपर्यन्तं वनप्रदेशेषु दुर्गम-मार्गेषु च पदयात्रा कर्तव्या भवति। ताभ्यः आधुनिक-शस्त्राणां तथा गुरु-सैन्य-उपकरणानां सञ्चालनस्य अभ्यासोऽपि कारय्यते। प्रायः त्रिमासात्मकस्य अस्य कठिन-प्रशिक्षणस्य सफल-समापनानन्तरं ताः एनसीसी-अधिकाऱिण्यः इति रूपेण आयोगं प्राप्नुवन्ति।
एनसीसी अद्य देशस्य बृहत्तमं युवा-सङ्घटनम् अस्ति। अनेन माध्यमेन युवसु अनुशासनम्, नेतृत्व-भावना, राष्ट्रभक्तिः तथा सेवा-भावः विकसितः भवति। सम्प्रति देशस्य विविधेषु विद्यालयेषु महाविद्यालयेषु च प्रायः १८–२० लक्षं एनसीसी-कैडेट्-प्रशिक्षार्थिनः प्रशिक्षणं प्राप्नुवन्ति। महिला-अधिकारी-प्रशिक्षण-अकादम्याः स्थापना केवलं एनसीसी-संस्थायां महिलानां सहभागितां दृढवती न, अपितु रक्षा-नेतृत्व-क्षेत्रयोः तासां कृते नूतनान् अवसरानपि उद्घाटितवती। एषा संस्था अद्यापि महिला-सशक्तीकरणस्य राष्ट्रनिर्माणस्य च प्रेरकं प्रतीकं मन्यते।
प्रमुखाः घटनाः
१२४६ — नसीरुद्दीन-मोहम्मद-शाहः दिल्ली-राजसिंहासनम् आरुरोह।१६२४ — हॉलैण्ड-फ्रान्स-देशयोः मध्ये स्पेन-विरोधिनी सन्धिः अभवत्।१६५२ — इङ्ग्लैण्ड-देशेन नीदरलैण्ड-विरुद्धं युद्धस्य घोषणा कृता।१८०० — भारते ब्रिटिश-शासनेन फोर्ट-विलियम-महाविद्यालयस्य स्थापना कृता।१८४८ — न्यूयॉर्क-शिकागो-नगरयोः मध्ये प्रथमः टेलिग्राफ-सम्पर्कः प्रारब्धः।१९०७ — फ्रान्स-जापान-देशयोः मध्ये चीनस्य स्वातन्त्र्यम् अखण्डतां च संरक्षितुं सन्धि: अभवत्।१९१३ — रोमानिया बुल्गारिया-विरुद्धं युद्धम् अघोषयत्।१९१८ — रूस-देशे समाजवादी-सोवियत-संघस्य स्थापना अभवत्।१९४६ — राजतन्त्रस्य समाप्तेः अनन्तरम् इटली-देशः गणराज्यम् अभवत्।१९६४ — ग्वालियर-नगरे महिला-एनसीसी-अधिकारी-प्रशिक्षण-अकादम्याः स्थापना अभवत्।१९६६ — महाराष्ट्रस्य नासिक-जनपदे मिग्-युद्धविमानानां निर्माणकार्यं प्रारब्धम्।१९७२ — मुम्बईस्थितात् मझगांव-बन्दरगाहात् पूर्ण-वातानुकूलित-पोतस्य ‘हर्षवर्धन’ इत्यस्य जलावतरणम् अभवत्।१९८३ — मार्गरेटथैचर: पुनः ब्रिटेन-देशस्य प्रधानमन्त्री अभवत्।१९८६ — भारतेन इङ्ग्लैण्डं पञ्च-विकेट-इत्येतै: पराजित्य लॉर्ड्स-प्रांगणे प्रथमः टेस्ट-विजयः प्राप्तः।१९९५ — म्यान्मार-देशस्य लोकतन्त्र-समर्थिका नेतृ आङ् सान् सू ची षड्वर्षीय-गृहबन्धनात् मुक्तिं प्राप्तवती।१९९७ — फिजी-देशे नूतन-संविधानस्य अनुमोदनेन भारतीय-समुदायाय राजनैतिक-अधिकाराः प्राप्ताः।१९९९ — जिनीवा-नगरे अन्ताराष्ट्रिय-श्रम-सम्मेलनस्य आरम्भः अभवत्।२००१ — श्रीलङ्का-राष्ट्रपतिः चन्द्रिका-कुमारतुंगया संसद् निलम्बिता।२००२ — पाकिस्तानेन के-२ पर्वतस्य नाम ‘चोगोरी’ अथवा ‘शाहगोरी’ इति परिवर्तितम्।२००३ — नासा-संस्थया मङ्गल-रोवर-यानस्य प्रक्षेपणम् अभवत्।२००५ — अर्जेन्टीना जूनियर-विश्वकप-हॉकी-क्रीडायाः विजेता अभवत्।२००५ — भारत-श्रीलङ्का-देशयोः मध्ये शिक्षा-समुदाय-विकास-सम्बद्धे द्वे सन्ध्यौ अभवताम्।२००६ — रूस-देशस्य विद्रोही-नेता बसायेवः हतः।२००६ — इनसैट्-४सी उपग्रहः श्रीहरिकोटास्थितात् सतीश-धवन-अन्तरिक्ष-केन्द्रात् जीएसएलवी-एफ्०२-प्रमोचकेन प्रक्षिप्तः।२००७ — पाकिस्तानस्य इस्लामाबाद-नगरे लाल-मस्जिदस्य नायब-इमामः मौलाना अब्दुल-रशीद-गाजी सैनिक-कार्यवाह्यां हतः।२००८ — भारतीय-मूलस्य ब्रिटिश-लेखकः सलमान-रुश्दी ‘बेस्ट्-ऑफ्-बुकर्’ पुरस्कारेण सम्मानितः।२००८ — भारत-सरकारेण त्रिषु सेनासु ‘एकीकृत-स्पेस-सेल’ इत्यस्य घोषणा कृता।२०१३ — चीनस्य सिचुआन्-प्रान्ते भूस्खलनेन ४० जनाः मृताः।२०१७ — अमरनाथ-यात्रायां आतङ्कवादी-आक्रमणे सप्त श्रद्धालवः मृताः।
जन्म
१९१० — कर्नल धर्मवीर-सिंहः, भारतीय-सेनायाः वीर-सैनिकः।१९२१ — असद् भोपाली, प्रसिद्धः गीतकारः शायरश्च।१९३४ — रजनीकान्त् अरोलः, भारतीयः समाजसेवी।१९४२ — सैयद् अली, भारतस्य पूर्व-हॉकी-क्रीडकः।१९४९ — सुनील-गावस्करः, भारतीयः क्रिकेट-क्रीडकः।१९५० — परवीन-सुल्ताना, भारतस्य प्रसिद्धा शास्त्रीय-गायिका।१९५१ — राजनाथ-सिंहः, प्रसिद्धः राजनीतिज्ञः उत्तरप्रदेशस्य पूर्व-मुख्यमन्त्री च।१९५६ — आलोक-नाथः, अभिनेता।१९८३ — चित्रा के.सोमन, भारतीयी धाविका।
निधनम्
१९२७ — सर गङ्गारामः, प्रसिद्धः अभियन्ता, समाजसेवी, भारतस्य हरित-क्रान्तेः अग्रदूतः।१९७१ — भिखारी-ठाकुरः, भोजपुरी-लोककलायाः महान् कलाकारः।२००४ — अब्दुल-गफूरः, भारतीय-राष्ट्रीय-काङ्ग्रेस-पक्षस्य राजनीतिज्ञः, बिहारस्य पूर्व-मुख्यमन्त्री।२००६ — अहमद् नदीम: कासमी, प्रसिद्धः शायरः।२०१४ — जोहरा-सहगल:, प्रसिद्धा अभिनेत्री रंगमञ्च-कलाकारिणी च।
Hindusthan Samachar / Divya Ranjan