Enter your Email Address to subscribe to our newsletters

-जलप्रलयस्य संघर्षात्मक कार्याणाम् उपमुख्यमंत्री कृतवान्समीक्षाम्
पटना, 09 जुलाईमासः (हि.स.)।
सम्भावितजलप्रलयस्य २०२६ वर्षस्य सन्दर्भे राज्यशासनं पूर्णतया सतर्कम् अस्ति। अस्यैव क्रमस्य अन्तर्गतं गुरुवासरे सिञ्चनभवने स्थिते विभागीयसभागारे उपमुख्यमन्त्रिणः जलसंसाधनमन्त्रिणश्च विजयकुमारचौधरीवर्यस्य अध्यक्षतायां जलप्रलयप्रतिरोधात्मककार्याणाम् उच्चस्तरीयसमीक्षागोष्ठी सम्पन्ना।
समीक्षाकाले उपमुख्यमन्त्री स्पष्टतया अवदत् यत् राज्यं जलप्रलयकालं प्रविष्टम् अस्ति। अतः कस्यामपि परिस्थितौ समुत्पन्नायां तस्याः निवारणाय सर्वाः सज्जताः समये एव पूर्णाः भवेयुः।
उपमुख्यमन्त्री विजयकुमारचौधरी अवदत् यत् तटक्षरणनिरोधककार्याणां स्वीकृतिः वर्षारम्भे एव एतदर्थं प्रदत्ता आसीत् यत् जलप्रलयकालस्य आरम्भात् पूर्वं सर्वाणि कार्याणि पूर्णानि भवेयुः। अधिकांशस्थलेषु कार्याणि पूर्णानि जातानि सन्ति। येषु स्थलेषु कार्याणि अद्यापि अवशिष्टानि सन्ति, तानि सर्वथा एकसप्ताहाभ्यन्तरे पूर्णानि कर्तुं निर्देशः प्रदत्तः।
सः अधिकारिभ्यः निर्देशं दत्तवान् यत् तटबन्धानां नियमितं प्रभावकारि च निरीक्षणं सुनिश्चितं क्रियताम्। विजयकुमारचौधरी अवदत् यत् मुख्यालयस्तरे विभागीयसचिवेन वरिष्ठाभियन्तृभिश्च निरन्तरं स्थलनिरीक्षणं क्रियते तथा अद्यतनस्थितेः सततमनुवीक्षणमपि विधीयते। क्षेत्रीयाधिकारिणोऽपि तटबन्धानां सम्पूर्णदीर्घतायाः अन्तिमसीमापर्यन्तं निरीक्षणं कुर्वन्ति तथा नदीनां जलस्तरस्य निरन्तरम् अवलोकनं कुर्वन्ति।
सर्वे मुख्याभियन्तारः सप्ताहे न्यूनातिन्यूनं द्विवारं रात्रौ आकस्मिकनिरीक्षणं कृत्वा एतत् सुनिश्चितं कुर्युः यत् सम्बन्धिताः अभियन्तारः श्रमिकाश्च कार्यस्थले शिविरं कृत्वा तिष्ठन्ति, संवेदनशीलातिसंवेदनशीलस्थलेषु अस्थायिनिवासव्यवस्था विद्यते तथा जलप्रलयप्रतिरोधात्मककार्येभ्यः आवश्यकसामग्रीणां पर्याप्तं भण्डारणं कृतम् अस्ति।
सः निर्देशं दत्तवान् यत् जलप्रलयप्रतिरोधात्मककार्येभ्यः आवश्यकसामग्रीणां पर्याप्तं भण्डारणं सर्वथा एकसप्ताहाभ्यन्तरे सुनिश्चितं क्रियताम्। नदीषु अत्यधिकजलप्रवाहस्य प्रतीक्षां विना अधुनैव सर्वेषु संवेदनशीलस्थलेषु आवश्यकसामग्री उपलब्धा क्रियताम्।
सः अवदत् यत् एकसप्ताहानन्तरं मुख्यालयस्य जिलाप्रशासनस्य च दलानि स्थलेषु गत्वा सज्जतानां सामग्रीभण्डारणस्य च सत्यापनं करिष्यन्ति। अतः सम्बन्धिताधिकारिणः जिलाप्रशासनेन सह सर्वान् आवश्यकविवरणाङ्कान् विनिमयं कुर्युः।
उपमुख्यमन्त्रिणा संवेदनशीलातिसंवेदनशीलतटबन्धेषु विशेषसतर्कतां पालितुं, रात्रौ प्रभावकारिणः निरीक्षणस्य कृते विशेषतया तटबन्धपार्श्वेषु पर्याप्तप्रकाशव्यवस्थां सुनिश्चितं कर्तुं तथा आपत्कालीनस्थितौ सामग्रीणां शीघ्रापूर्तये सम्पर्कमार्गान् पूर्वमेव सम्यक् कर्तुं निर्देशः प्रदत्तः।
सः स्पष्टं कृतवान् यत् उत्कृष्टकार्यं कुर्वन्तः अधिकारिणः प्रोत्साहयिष्यन्ते, किन्तु जानबूझकरं प्रमादं कुर्वतां विरुद्धं कठोरकार्यवाही विधास्यते।
---------------
Hindusthan Samachar / Dheeraj Maithani