Enter your Email Address to subscribe to our newsletters

नवदेहली, ०९ जुलाईमासः (हि.स.)। केन्द्रीयसर्वकारेण गङ्गायाः तस्याः सहायकनदीनां च पुनर्जीवनार्थं प्रकृत्याधारित-समाधानानां प्रोत्साहनं कुर्वता दिल्लीनगरे यमुनानद्यां पतितयोः शास्त्रीपार्क-नालिकाया: कैलाशनगर-नालिकाया: च उपरि द्वे प्रायोगिक-परियोजने प्रारब्धे। एताभ्यां परियोजनाभ्यां नगरनालिकानां प्रदूषितजलस्य शोधनार्थं निर्मित-आर्द्रभूमि-आधारितः आदर्शः विकसितः भविष्यति। सहैव प्रकृत्याधारित-नदीपुनर्जीवनोपायानां व्यापकप्रयोगाय प्रशिक्षणं क्षमता-विकास-कार्यक्रमाश्च सञ्चाल्यन्ते।
केन्द्रीय-जलशक्ति-मन्त्रालयेन गुरुवासरे उक्तं यत् नदीपुनर्जीवनार्थं केवलं मलजल-शोधन-संयन्त्राणि तथा मलनिस्सारण-जालं पर्याप्तं न भवति। अतः राष्ट्रिय-स्वच्छ-गङ्गा-अभियानम् अधुना पर्यावरणीय-प्रवाहस्य संरक्षणाय नदी-पारिस्थितिकी-तन्त्रस्य सुदृढी-करणाय च प्रकृत्याधारित-समाधानानि स्वरणनीतेः अविभाज्याङ्गत्वेन स्वीकृतवान्। अस्य उद्देश्यं दीर्घकालिकं स्थायी च नदीपुनर्जीवनं सुनिश्चितं कर्तुमस्ति।
मन्त्रालयस्य अनुसारेण एनएमसीजी “सतत-नदी-पुनर्जीवन” इति कार्यक्रमस्य अन्तर्गतं प्रकृत्याधारित-समाधानानां मुख्यधारायां समावेशं करोति। अस्याः योजनायाः अन्तर्गतं नगरनालिकानाम् इन-सीटू शोधनार्थं निर्मित-आर्द्रभूमि-आधारिताः प्रायोगिक-परियोजनाः विकसिताः भवन्ति। तदतिरिक्तं अनुसंधानं, नवाचारः, क्षमता-विकासश्च अपि प्रोत्साह्यन्ते, येन एतेषामुपायानां व्यापक-स्तरे स्वीकरणं सम्भवेत्।
दिल्लीनगरे यमुनायां पतितयोः शास्त्रीपार्क-नालिकाया: कैलाशनगर-नालिकाया च उपरि विकसितयोः एतयोः परियोजनयोः संयुक्त-शोधन-क्षमता प्रतिदिनं प्रायः १० एमएलडी भविष्यति। एता: परियोजनाः नगरनालिका-प्रबन्धने न्यून-ऊर्जा-व्यययुक्तानां, जल-वाय्वनुकूलानां, स्थायि-प्रौद्योगिकीनां स्वीकरणस्य दिशि महत्त्वपूर्णानि पदानि सन्ति।
परम्परागत-अपशिष्ट-जल-शोधन-प्रणालीनां विपरीतम्, एतासु परियोजनासु विशाल-यान्त्रिक-संरचनासु ऊर्जा-आधारित-प्रक्रियासु च निर्भरता न्यूना भविष्यति। जलप्रवाहस्य नियमनार्थं जलधारण-अवधिवृद्ध्यर्थं च शिला-निर्मित-संरचनाः निर्मास्यन्ते। तदतिरिक्तं स्थूल-अपशिष्ट-निर्मूलनार्थं रॉक-फिल्टर, पोषकतत्त्वानाम् अवशोषणाय, ऑक्सीजन-स्थानान्तरणाय च जलीय-वनस्पतयः तथा फाइटो-रिमेडिएशन-प्रौद्योगिक्य: च उपयुज्यन्ते। एताभिः प्राकृतिक-प्रक्रियाभिः प्रदूषकाणां, अतिरिक्त-पोषकतत्त्वानां, केषाञ्चन गुरुधातूनां च मात्रा न्यूनीक्रियते। अनेन जले विलीन-प्राणवायोः मात्रा वर्धिष्यते, जैविक-प्रदूषणं न्यूनं भविष्यति, नदीनां जैव-विविधता च संवर्धिष्यते।
उभयोः परियोजनयोः कार्यम् अपि तीव्रगत्या प्रचलति। कैलाशनगर-नालिकायां डी-स्लजिंग तथा डी-सिल्टिंग इति कार्यं सम्पन्नम् अस्ति। सम्प्रति इष्टिका-आस्तरणस्य कार्यं प्रचलति, अनन्तरं रॉक-फिल्टरा इति स्थापयिष्यन्ते। अपरतः शास्त्रीपार्क-नालिकायां डी-स्लजिंग तथा डी-सिल्टिंग इत्यस्य प्रारम्भिकं कार्यं क्रियते, ततः शिलासंरचनाः, रॉक-फिल्ट्रेशन-प्रणाली, जलीय-वनस्पतीनां स्थापना च भविष्यति।
मन्त्रालयस्य अनुसारेण एताभिः परियोजनाभिः प्रतिदिनं प्रायः १० एमएलडी अपशिष्ट-जलस्य शोधनं कर्तुं शक्यं भविष्यति। एताश्च गङ्गा-जलप्रवाह-क्षेत्रे नगरनाल-प्रबन्धनस्य कृते न्यूनता, विस्तारयोग्याः, अनुकरणीय-आदर्शाः च भविष्यन्ति।
एतस्य अतिरिक्तं नदीपुनर्जीवनार्थं प्राविधिक-क्षमता-विकासस्य उद्देश्येन २०२५ तमस्य वर्षस्य अगस्त-मासात् २०२६ तमस्य वर्षस्य मार्च-मासपर्यन्तं षट् प्रशिक्षण-क्षमता-विकास-कार्यक्रमाः आयोजिताः, यैः शताधिकाः अधिकारिणः विशेषज्ञाश्च लाभान्विताः।
मन्त्रालयेन एतदपि सूचितं यत् एतासां प्रायोगिक-परियोजनानां अनन्तरं गङ्गायाः सहायकनद्याः कालीनद्याः पुनर्जीवनार्थम् उत्तरप्रदेशस्य खतौली-नगरस्य समीपे निर्मित-आर्द्रभूमि-परियोजना अपि प्रारभ्यते। अस्याः उद्देश्यं गृहस्थ-औद्योगिक-अपशिष्टजन्य-प्रदूषणस्य स्रोतस्तरे एव न्यूनीकरणं कृत्वा नदीजलस्य गुणवत्तायाः तथा पारिस्थितिकी-तन्त्रस्य च उन्नयनम् अस्ति।
Hindusthan Samachar / Divya Ranjan