गङ्गा-यमुनयोः शुद्ध्यर्थं केन्द्रस्य नूतन: प्रयत्न:, दिल्लीनगरे यमुनायां पतितयोः द्वयोः नालिकयोः एनबीएस-आधारिताः प्रायोगिक-परियोजनाः प्रारब्धाः
नवदेहली, ०९ जुलाईमासः (हि.स.)। केन्द्रीयसर्वकारेण गङ्गायाः तस्याः सहायकनदीनां च पुनर्जीवनार्थं प्रकृत्याधारित-समाधानानां प्रोत्साहनं कुर्वता दिल्लीनगरे यमुनानद्यां पतितयोः शास्त्रीपार्क-नालिकाया: कैलाशनगर-नालिकाया: च उपरि द्वे प्रायोगिक-परियोजने प्
प्रकृति आधारित नदी पुनर्जीवन मॉडल के तहत दिल्ली के शास्त्री पार्क और कैलाश नगर नालों पर चल रही निर्माणाधीन परियोजनाओं का दृश्य।


नवदेहली, ०९ जुलाईमासः (हि.स.)। केन्द्रीयसर्वकारेण गङ्गायाः तस्याः सहायकनदीनां च पुनर्जीवनार्थं प्रकृत्याधारित-समाधानानां प्रोत्साहनं कुर्वता दिल्लीनगरे यमुनानद्यां पतितयोः शास्त्रीपार्क-नालिकाया: कैलाशनगर-नालिकाया: च उपरि द्वे प्रायोगिक-परियोजने प्रारब्धे। एताभ्यां परियोजनाभ्यां नगरनालिकानां प्रदूषितजलस्य शोधनार्थं निर्मित-आर्द्रभूमि-आधारितः आदर्शः विकसितः भविष्यति। सहैव प्रकृत्याधारित-नदीपुनर्जीवनोपायानां व्यापकप्रयोगाय प्रशिक्षणं क्षमता-विकास-कार्यक्रमाश्च सञ्चाल्यन्ते।

केन्द्रीय-जलशक्ति-मन्त्रालयेन गुरुवासरे उक्तं यत् नदीपुनर्जीवनार्थं केवलं मलजल-शोधन-संयन्त्राणि तथा मलनिस्सारण-जालं पर्याप्तं न भवति। अतः राष्ट्रिय-स्वच्छ-गङ्गा-अभियानम् अधुना पर्यावरणीय-प्रवाहस्य संरक्षणाय नदी-पारिस्थितिकी-तन्त्रस्य सुदृढी-करणाय च प्रकृत्याधारित-समाधानानि स्वरणनीतेः अविभाज्याङ्गत्वेन स्वीकृतवान्। अस्य उद्देश्यं दीर्घकालिकं स्थायी च नदीपुनर्जीवनं सुनिश्चितं कर्तुमस्ति।

मन्त्रालयस्य अनुसारेण एनएमसीजी “सतत-नदी-पुनर्जीवन” इति कार्यक्रमस्य अन्तर्गतं प्रकृत्याधारित-समाधानानां मुख्यधारायां समावेशं करोति। अस्याः योजनायाः अन्तर्गतं नगरनालिकानाम् इन-सीटू शोधनार्थं निर्मित-आर्द्रभूमि-आधारिताः प्रायोगिक-परियोजनाः विकसिताः भवन्ति। तदतिरिक्तं अनुसंधानं, नवाचारः, क्षमता-विकासश्च अपि प्रोत्साह्यन्ते, येन एतेषामुपायानां व्यापक-स्तरे स्वीकरणं सम्भवेत्।

दिल्लीनगरे यमुनायां पतितयोः शास्त्रीपार्क-नालिकाया: कैलाशनगर-नालिकाया च उपरि विकसितयोः एतयोः परियोजनयोः संयुक्त-शोधन-क्षमता प्रतिदिनं प्रायः १० एमएलडी भविष्यति। एता: परियोजनाः नगरनालिका-प्रबन्धने न्यून-ऊर्जा-व्यययुक्तानां, जल-वाय्वनुकूलानां, स्थायि-प्रौद्योगिकीनां स्वीकरणस्य दिशि महत्त्वपूर्णानि पदानि सन्ति।

परम्परागत-अपशिष्ट-जल-शोधन-प्रणालीनां विपरीतम्, एतासु परियोजनासु विशाल-यान्त्रिक-संरचनासु ऊर्जा-आधारित-प्रक्रियासु च निर्भरता न्यूना भविष्यति। जलप्रवाहस्य नियमनार्थं जलधारण-अवधिवृद्ध्यर्थं च शिला-निर्मित-संरचनाः निर्मास्यन्ते। तदतिरिक्तं स्थूल-अपशिष्ट-निर्मूलनार्थं रॉक-फिल्टर, पोषकतत्त्वानाम् अवशोषणाय, ऑक्सीजन-स्थानान्तरणाय च जलीय-वनस्पतयः तथा फाइटो-रिमेडिएशन-प्रौद्योगिक्य: च उपयुज्यन्ते। एताभिः प्राकृतिक-प्रक्रियाभिः प्रदूषकाणां, अतिरिक्त-पोषकतत्त्वानां, केषाञ्चन गुरुधातूनां च मात्रा न्यूनीक्रियते। अनेन जले विलीन-प्राणवायोः मात्रा वर्धिष्यते, जैविक-प्रदूषणं न्यूनं भविष्यति, नदीनां जैव-विविधता च संवर्धिष्यते।

उभयोः परियोजनयोः कार्यम् अपि तीव्रगत्या प्रचलति। कैलाशनगर-नालिकायां डी-स्लजिंग तथा डी-सिल्टिंग इति कार्यं सम्पन्नम् अस्ति। सम्प्रति इष्टिका-आस्तरणस्य कार्यं प्रचलति, अनन्तरं रॉक-फिल्टरा इति स्थापयिष्यन्ते। अपरतः शास्त्रीपार्क-नालिकायां डी-स्लजिंग तथा डी-सिल्टिंग इत्यस्य प्रारम्भिकं कार्यं क्रियते, ततः शिलासंरचनाः, रॉक-फिल्ट्रेशन-प्रणाली, जलीय-वनस्पतीनां स्थापना च भविष्यति।

मन्त्रालयस्य अनुसारेण एताभिः परियोजनाभिः प्रतिदिनं प्रायः १० एमएलडी अपशिष्ट-जलस्य शोधनं कर्तुं शक्यं भविष्यति। एताश्च गङ्गा-जलप्रवाह-क्षेत्रे नगरनाल-प्रबन्धनस्य कृते न्यूनता, विस्तारयोग्याः, अनुकरणीय-आदर्शाः च भविष्यन्ति।

एतस्य अतिरिक्तं नदीपुनर्जीवनार्थं प्राविधिक-क्षमता-विकासस्य उद्देश्येन २०२५ तमस्य वर्षस्य अगस्त-मासात् २०२६ तमस्य वर्षस्य मार्च-मासपर्यन्तं षट् प्रशिक्षण-क्षमता-विकास-कार्यक्रमाः आयोजिताः, यैः शताधिकाः अधिकारिणः विशेषज्ञाश्च लाभान्विताः।

मन्त्रालयेन एतदपि सूचितं यत् एतासां प्रायोगिक-परियोजनानां अनन्तरं गङ्गायाः सहायकनद्याः कालीनद्याः पुनर्जीवनार्थम् उत्तरप्रदेशस्य खतौली-नगरस्य समीपे निर्मित-आर्द्रभूमि-परियोजना अपि प्रारभ्यते। अस्याः उद्देश्यं गृहस्थ-औद्योगिक-अपशिष्टजन्य-प्रदूषणस्य स्रोतस्तरे एव न्यूनीकरणं कृत्वा नदीजलस्य गुणवत्तायाः तथा पारिस्थितिकी-तन्त्रस्य च उन्नयनम् अस्ति।

Hindusthan Samachar / Divya Ranjan