केन्द्रसर्वकारेण विद्युदुपकरणनिर्माणस्य प्रमुखघटकानां मूलसीमाशुल्कं निरस्तम्
- लिथियम-आयन-कोषाणां तथा प्रदर्शनपट्टिकानां सीमाशुल्कमुक्तिः ३१ मार्चमासः २०२९ पर्यन्तं प्रवर्तिष्यते नवदिल्ली, ०९ जुलाईमासः (हि.स.)। केन्द्रसर्वकारेण स्मार्टदूरभाषाणां, चलसङ्गणकाणां, धारणीय-विद्युदुपकरणानां तथा स्मार्टदूरदर्शनानां निर्माणे उपयुज्
इलेक्ट्रॉनिक डिवाइसेज के लोगो का प्रतीकात्मक चित्र


- लिथियम-आयन-कोषाणां तथा प्रदर्शनपट्टिकानां सीमाशुल्कमुक्तिः ३१ मार्चमासः २०२९ पर्यन्तं प्रवर्तिष्यते

नवदिल्ली, ०९ जुलाईमासः (हि.स.)। केन्द्रसर्वकारेण स्मार्टदूरभाषाणां, चलसङ्गणकाणां, धारणीय-विद्युदुपकरणानां तथा स्मार्टदूरदर्शनानां निर्माणे उपयुज्यमानानां सामग्रीणां मूलसीमाशुल्कम् निरस्तम्। एषा शुल्कमुक्तिः ३१ मार्चमासः २०२९ पर्यन्तं प्रवर्तिष्यते तथा गुरुवासरात् प्रभृत्येव प्रभावी अभवत्।

वित्तमन्त्रालयेन विद्युदुपकरणेषु प्रयुज्यमानानां त्रयाणां प्रमुखघटकानां निर्माणे उपयुज्यमानसामग्रीणां मूलसीमा-शुल्कमुक्तिं प्रवर्तयितुं पृथक् पृथक् तिस्रः अधिसूचनाः प्रकाशिताः। अधिसूचनानुसारं देशे गृह-विद्युदुपकरणनिर्माणस्य प्रोत्साहनाय आयातनिर्भरता-न्यूनतायै च प्रदर्शन-पट्टिकासंयोजनस्य, लिथियम-आयन-कोषाणां तथा इण्डक्टर-कुण्डली-नमूनायाः निर्माणे प्रयुज्यमानसामग्रीषु मूलसीमाशुल्कं निरस्तम्।

मन्त्रालयस्य अनुसारेण एतत् पदक्षेपः स्मार्टदूरभाषाणां, चलसङ्गणकाणां, धारणीयविद्युदुपकरणानां तथा स्मार्ट-दूरदर्शनानां गृह-निर्माणस्य संवर्धनाय कृतः। एषा शुल्कमुक्तिः उत्पादन-आधारितप्रोत्साहनयोजनायाः अन्तर्गतं गृह-विद्युदुपकरणनिर्माणस्य संवर्धनाय सर्वकारस्य प्रयत्नानुरूपा अस्ति। मूलसीमाशुल्के प्रदत्ता एषा शुल्कमुक्तिः आयातनिर्भरता न्यूनां करिष्यति तथा स्थानीयनिर्माणस्य माध्यमेन देशस्य विद्युदुपकरणपरितन्त्रं सुदृढं करिष्यति।

Hindusthan Samachar / Divya Ranjan