Enter your Email Address to subscribe to our newsletters

नवदेहली, ०९ जुलाईमासः (हि.स.)। भारतम् ऑस्ट्रेलियादेशश्च व्यापक-रणनैतिक-सहभागितायाः अन्तर्गतं गुरुवासरे रक्षा-क्षेत्रे, सामुद्रिक-सुरक्षायाम्, ऊर्जा-क्षेत्रे विशेषतः नाभिकीय-ऊर्जायाम्, साइबर-सुरक्षायाम्, शिक्षायाम्, कौशल-विकासे, खनन-क्षेत्रे, विज्ञाने, प्रौद्योगिक्यां तथा सांस्कृतिक-धरोहर-संरक्षणे च विविधेषु क्षेत्रेषु अष्टादश महत्त्वपूर्णान् सन्धिन् प्रयत्नाश्च स्वीकृतवन्तौ।
प्रधानमन्त्री नरेन्द्रमोदी अद्य मेलबर्न-नगरे ऑस्ट्रेलियादेशस्य प्रधानमन्त्री एन्थनी-अल्बानीज: इत्यनेन सह सार्थकीं वार्ताम् अकरोत्। वार्तायाः परिणामस्वरूपम् अधुना ऑस्ट्रेलियादेशात् भारताय यूरेनियम् आपूर्तिः भविष्यति। अपि च ऑस्ट्रेलियादेश: भारताय त्रीणि प्राचीन-कलावस्तूनि प्रत्यर्पयिष्यन्ति। रक्षा-क्षेत्रे सहयोगस्य अन्तर्गतं उभाभ्यां देशाभ्यां अनेके नूतनाः विषयाः अपि समावेशिताः।
उभौ नेतारौ वार्ताकाले भारत-ऑस्ट्रेलियादेशयोः व्यापक-रणनैतिक-सहभागितायाः अन्तर्गतं जातां सुदृढप्रगतिं समीक्षितवन्तौ। वार्तानन्तरं संयुक्त-वक्तव्ये प्रधानमन्त्री अवदत्— “वयं व्यापक-आर्थिक-सहयोग-सन्धे: विषये शीघ्रतया कार्यं प्रवर्तयितुं निर्णयं कृतवन्तः।”
प्रधानमन्त्री स्ववक्तव्ये वैश्विक-विषयेषु उभयदेशयोः समानदृष्टिकोणम् अपि प्रस्तुतवान्। तेन उक्तं यत् भारतदेश: ऑस्ट्रेलियादेशश्च मन्येते यत् आतङ्कवादः केवलम् एकस्य देशस्य न, अपितु सम्पूर्णमानवजातेः कृते गम्भीरः संकटः अस्ति। अतः आतङ्कवादविरुद्धं अस्माकं सङ्घर्षः संयुक्तः अस्ति, अस्माकं सङ्कल्पश्च अचलः अस्ति।
तेन पुनरुक्तं यत् विश्वस्य अनेकप्रदेशेषु प्रवर्तमानानां चिन्तानां युद्धानां च समाधानं केवलं संवादेन कूटनीत्याः माध्यमेन च सम्भवम् अस्ति। सम्पूर्णे हिन्द-प्रशान्त-प्रदेशे उभौ देशौ मिलित्वा शान्तिं, स्थैर्यं, नौसञ्चालनस्य स्वतन्त्रतां तथा नियमाधारित-व्यवस्थां अधिकां सुदृढां करिष्यतः। अस्मिन् अवसरे ऑस्ट्रेलिया-कनाडा-भारत-प्रौद्योगिकी-नवाचार-सहभागितायाः अन्तर्गतं सहयोगस्य संवर्धनाय अपि सहमतिः अभवत्।
भारतीय-कलावस्तूनां सांस्कृतिक-धरोहराणां च प्रत्यर्पण-क्रमे अन्यानि अपि नामानि समाविष्टानि। ऑस्ट्रेलियादेशः तमिलनाडु-राज्यस्य तिस्रः प्राचीनाः कलाकृतयः भारताय प्रत्यर्पयिष्यति। तासु शिवस्य वाहनं पवित्रः नन्दी (एकादश-द्वादश-शताब्द्योः ग्रेनाइट-शिलानिर्मितः), शुभा काली (भद्रकाली) त्रिशूलेन सह (एकादश-शताब्द्याः कांस्यनिर्मिता), षण्मुखः स्कन्दः (कार्त्तिकेयः) (द्वादश-शताब्द्याः बेसाल्ट-शिलानिर्मितः) इति कलाकृतयः सन्ति।
उभयदेशयोः मध्ये सम्पन्नेषु महत्त्वपूर्णेषु सन्धिषु संयुक्त-रक्षा-सुरक्षा-सहयोग-घोषणायाः नवीकरणम् अपि समाविष्टम् अस्ति। अस्य अन्तर्गतं सैन्य-अन्तःसञ्चालन-क्षमता, सामुद्रिक-क्षेत्र-जागरूकता, रक्षा-उद्योगः, साइबर-सुरक्षा, आतङ्कवाद-निरोध-सहयोगः, मानवीय-सहायता, आपदा-राहत-कार्यक्रमाः तथा हिन्द-प्रशान्त-प्रदेशे सहयोगस्य संवर्धनं च भविष्यति। एतदतिरिक्तं सामुद्रिक-सुरक्षा-सहयोग-मार्गचित्रं, ऊर्जा-सुरक्षाविषये संयुक्त-वक्तव्यं, भारत-ऑस्ट्रेलिया-असैन्य-नाभिकीय-सन्धे: प्रशासनिक-व्यवस्थानां अन्तिमीकरणम्, तथा साइबर-सुरक्षा, महत्त्वपूर्ण-प्रौद्योगिकी, आपूर्ति-शृङ्खला-सहभागिताया: विषये अपि सहमतिः अभवत्। उभौ देशौ भारतीय-तटरक्षक-दलस्य ऑस्ट्रेलियाई-मैरिटाइम-बॉर्डर-कमाण्ड-इत्यस्य च मध्ये सहयोगवर्धनाय, २०२८–२९ वर्षे ऑस्ट्रेलियन-डिफेन्स-महाविद्यालय: इत्यत्र भारतीय-सैन्य-प्रशिक्षकस्य नियुक्त्यर्थं च सन्धी कृतवन्तौ।
शिक्षा-कौशल-विकास-क्षेत्रे ऑस्ट्रेलिया-देशस्य सहयोगेन भुवनेश्वर-स्थिते राष्ट्रिय-कौशल-प्रशिक्षण-संस्थाने खनन-तथा-खनन-उपकरण-उत्कृष्टता-केन्द्रं स्थाप्यते। फ्लिण्डर्स-विश्वविद्यालयः बेङ्गलूरु-नगरे स्वीयं परिसरं स्थापयिष्यति। विक्टोरिया-विश्वविद्यालयः गुरुग्राम-नगरे अपि स्वशिक्षा-परिसरं निर्मास्यति। व्यावसायिक-शिक्षायाः गुणवत्तावर्धनाय, वैज्ञानिक-अनुसन्धानाय, भूविज्ञानाय, पारम्परिक-ज्ञानस्य संवर्धनाय, चलचित्र-शिक्षायै तथा नवाचार-क्षेत्रे अपि अनेके सन्धय: सम्पन्नाः। गान्धीनगरे रूफटॉप-सौर-प्रशिक्षण-अकादमी अपि ऑस्ट्रेलियादेशस्य सहयोगेन सञ्चालिता भविष्यति, येन हरित-ऊर्जा-क्षेत्रे प्रशिक्षणं प्रदास्यते।
Hindusthan Samachar / Divya Ranjan