Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 09 जुलाईमासः (हि.स.)।भारतदेशः आस्ट्रेलियादेशश्च साइबरसुरक्षायाः महत्त्वपूर्णप्रौद्योगिकीनाम् आपूर्तिशृङ्खलासहयोगस्य च नूतनोन्नयनाय आस्ट्रेलिया इण्डिया पार्टनरशिप आन साइबर क्रिटिकल टेक्नोलाजीज एण्ड सप्लाई चेन्स इति पीएसीटीएस अथवा पैक्ट्स इति साझेदारीम् आरब्धुं घोषणां कृतवन्तौ। एषा नूतना व्यवस्था विंशत्युत्तरद्विसहस्रतमवर्षस्य साइबर तथा साइबरसमर्थितमहत्त्वपूर्णप्रौद्योगिकी सहयोगसंरचनायाः स्थानं ग्रहीष्यति।
प्रधानमन्त्रिकार्यालयस्य पीएमओ इत्यस्य अनुसारं देशद्वयेन स्वीकृतं यत् आपूर्तिशृङ्खलाः महत्त्वपूर्णप्रौद्योगिक्यः साइबरसुरक्षा च आर्थिकविकासस्य राष्ट्रियसुरक्षायाश्च प्रमुखाधाराः सन्ति। एतानि वैश्विकमूल्यानां मानकानां च प्रभावनस्य साधनरूपेण अपि दृश्यन्ते। एतदेव मनसि निधाय देशद्वयेन वर्तमानसहयोगं अधिकं व्यापकं कुर्वता पीएसीटीएस साझेदारीम् आरब्धुं निर्णयः कृतः।
आस्ट्रेलियायात्रायाः समये मेलबर्ननगरे प्रधानमन्त्री नरेन्द्रमोदी आस्ट्रेलियादेशस्य समकक्षेण एन्थनी अल्बनीजेन सह वार्तायाः अनन्तरं प्रकाशिते संयुक्तवक्तव्ये उक्तवान् यत् एषा साझेदारी राष्ट्रियक्षेत्रीयसुरक्षयोः सुदृढीकरणे सहयोगिदेशेभ्यः अधिकडिजिटलविकल्पानाम् उपलब्धीकरणे महत्त्वपूर्णापूर्तिशृङ्खलानाम् अधिकलचीलकरणे वैश्विकसाइबरसुरक्षाक्षमतायाः सुदृढीकरणे च साहाय्यं करिष्यति। अस्य अन्तर्गतं सुरक्षा विश्वसनीयता समावेशिता लोकतान्त्रिकमूल्यानि च सर्वासां गतिविधीनां केन्द्रे स्थापयिष्यन्ते।
देशद्वयेन सहयोगाय पञ्च प्रमुखस्तम्भाः निर्धारिताः सन्ति। एतेषु आपूर्तिशृङ्खलालचीलता विविधीकरणं च महत्त्वपूर्णप्रौद्योगिकी साइबरसुरक्षा डिजिटललचीलता रक्षानुसन्धानसहयोगश्च समाविष्टाः सन्ति।
आपूर्तिशृङ्खलालचीलतायाः विविधीकरणस्य च अन्तर्गतं देशद्वयं सुरक्षितानां विश्वसनीयानां च आपूर्तिशृङ्खलानां प्रोत्साहनं करिष्यति। अस्य कृते विश्वसनीयविक्रेतृसंरचनानां ट्रस्टेड वेण्डर फ्रेमवर्क इति विकासः हिन्दप्रशान्तक्षेत्रे समुद्रीयकेबलजालस्य सुरक्षावर्धनं अर्धचालकापूर्तिशृङ्खलायाः सुरक्षाविषये अनुसन्धानसहयोगः महत्त्वपूर्णखनिजानां सुरक्षितापूर्तिशृङ्खलायाः विकासश्च क्रियिष्यते।
महत्त्वपूर्णप्रौद्योगिक्यक्षेत्रे भारतम् आस्ट्रेलिया च कृत्रिमबुद्धिमत्ता एआई अन्तरिक्षप्रौद्योगिकी दूरसञ्चारः जैवप्रौद्योगिकी उन्नतसामग्री इत्यादिषु क्षेत्रेषु सहयोगं वर्धयिष्यतः। देशद्वयेन सुरक्षिताय विश्वसनीयाय च कृत्रिमबुद्धिमत्ताप्रयोगाय लोकतान्त्रिकमूल्याधारितानाम् अन्तरराष्ट्रीयमानकानां विकासे अनुसन्धाननवाचारसाझेदार्याः सुदृढीकरणे अन्तरिक्षक्षेत्रे संयुक्तपरियोजनानां सम्भावनान्वेषणे च सहमतिः प्रकटिता।
साइबरसुरक्षास्तम्भस्य अन्तर्गतं साइबरापराधप्रतिरोधः दुर्भावनापूर्णसाइबरगतिविधीनां निरोधः महत्त्वपूर्णराष्ट्रियावसंरचनायाः सुरक्षा संयुक्तराष्ट्रसम्बद्धसाइबरविषयेषु सहयोगवर्धनं च क्रियिष्यते। देशद्वयेन साइबर तथा सूचनासञ्चारप्रौद्योगिकीक्षेत्रेषु एकीकृतद्विपक्षीयतन्त्रस्य स्थापनायाः साइबरकौशलविकासाय विशेषइनक्यूबेटरहबस्य निर्माणस्य च निर्णयः अपि कृतः।
डिजिटललचीलताक्षेत्रे भारतम् आस्ट्रेलिया च हिन्दप्रशान्तक्षेत्रे डिजिटलसार्वजनिकावसंरचना डीपीआई आधारितसमाधानानां विकासाय प्रसाराय च संयुक्तरूपेण कार्यं करिष्यतः। स्वच्छोर्जा स्वास्थ्यं सामाजिकसुरक्षा शिक्षा कौशलविकासः डिजिटलपरिवर्तनम् इत्यादिषु क्षेत्रेषु संयुक्तपरियोजनानां प्रोत्साहनं क्रियिष्यते।
रक्षानुसन्धानसहयोगस्य अन्तर्गतं देशद्वयं बहुआयामिरक्षाचुनौतीनां क्षमतानां च सामूहिकबोधं विकसितं करिष्यति। आस्ट्रेलियादेशस्य डिफेन्स साइन्स एण्ड टेक्नोलाजी ग्रुप तथा भारतस्य रक्षानुसन्धानविकाससङ्गठनस्य डीआरडीओ इत्यस्य मध्ये संस्थागतसहयोगः सुदृढः करिष्यते। सहैव रक्षानवाचारस्य स्टार्टअप पारिस्थितिकीतन्त्रस्य च मध्ये सम्पर्कवर्धने अपि बलं प्रदास्यते।
अस्याः सहभागितायाः निरीक्षणम् आस्ट्रेलियादेशस्य प्रधानमन्त्रिमन्त्रिमण्डलविभागस्य अन्तरराष्ट्रीयसुरक्षासमूहस्य उपसचिवः भारतस्य उपराष्ट्रियसुरक्षासलाहकारश्च संयुक्तरूपेण करिष्यतः। देशद्वयस्य वरिष्ठाधिकारिणः प्रतिवर्षं सभां कृत्वा सहयोगस्य विविधक्षेत्रेषु प्रगतेः समीक्षां करिष्यन्ति नूतनपरियोजनानां च अभिज्ञानं करिष्यन्ति।
देशद्वयेन उक्तं यत् पीएसीटीएस साझेदारी साइबरसुरक्षायाः महत्त्वपूर्णप्रौद्योगिकीनाम् आपूर्तिशृङ्खलानां च क्षेत्रे द्विपक्षीयसहयोगाय नूतनां दिशं प्रदास्यति तथा हिन्दप्रशान्तक्षेत्रे स्थिरतायाः सुरक्षायाः आर्थिकसमृद्धेश्च संवर्धने महत्त्वपूर्णां भूमिकां निर्वक्ष्यति।
---------------
Hindusthan Samachar / Dheeraj Maithani