Enter your Email Address to subscribe to our newsletters

मेलबर्ननगरम्, ०९ जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी तथा ऑस्ट्रेलिया-देशस्य प्रधानमन्त्री एन्थनी-अल्बनीज: गुरुवासरे अत्र आयोजितस्य तृतीय-वार्षिक-शिखर-सम्मेलनस्य अनन्तरं सम्पन्नायां संयुक्त-पत्रकार-वार्तायां व्यापारे, निवेशे, परमाणु-ऊर्जा-क्षेत्रे, रक्षा-सहयोगे, सामुद्रिक-सुरक्षायां, शिक्षाक्षेत्रे च अन्येषु बहुषु क्षेत्रेषु सहयोगाय नूतनगतिं दातुं संकल्पम् अभिव्यक्तवन्तौ। प्रधानमन्त्री मोदी उक्तवान् यत् उभयदेशयोः व्यापक-रणनैतिक-सहभागिता विगतेषु कतिपयवर्षेषु अभूतपूर्वां प्रगतिम् अवाप्तवती अस्ति, अधुना च एषः सहयोगः नूतनान् आयामान् प्राप्नोति।
प्रधानमन्त्री मोदी अवदत् यत् प्रधानमन्त्रिण: एन्थनी-अल्बनीज़-महोदयस्य वैयक्तिक-प्रयत्नैः दृढ-प्रतिबद्धतया च भारत-ऑस्ट्रेलिया-सम्बन्धाः नूतनाम् उन्नतिं व्यापकतां च प्राप्तवन्तः। तेन उक्तं यत् भारतम् ऑस्ट्रेलियादेशश्च सजीव-लोकतन्त्रे, बहुसांस्कृतिक-समाजे, हिन्द-प्रशान्त-प्रदेशस्य महत्त्वपूर्णे सामुद्रिक-शक्तिरूपे च प्रतिष्ठिते स्तः। उभयदेशयोः समान-चिन्तनं सहभाग-वैश्विक-दृष्टिकोणश्च परस्परविश्वासं निरन्तरं सुदृढीकुरुतः।
तेन उक्तं यत् वर्षे २०२२ तमे सम्पन्नस्य आर्थिक-सहयोग-व्यापार-सन्धे: अनन्तरं उभयदेशयोः मध्ये व्यापारे निवेशे च निरन्तरवृद्धिः अभवत्। अधुना उभयदेशौ व्यापक-आर्थिक-सहयोग-सन्धिं शीघ्रमेव अन्तिमरूपेण स्वीकर्तुं निर्णयं कृतवन्तौ। एषः सन्धि: सन्तुलितः, महत्त्वाकाङ्क्षी तथा उभयपक्षयोः हितकरः भविष्यति।
प्रधानमन्त्री अवदत् यत् परमाणु-ऊर्जा-क्षेत्रे अद्य महत्त्वपूर्णः सन्धि: सम्पन्नः, येन ऑस्ट्रेलियादेशात् भारताय यूरेनियम-आपूर्तेः मार्गः उद्घाटितः भविष्यति। तेन उक्तं यत् अनेन भारतस्य स्वच्छ-ऊर्जा-लक्ष्याणि अधिकं सुदृढानि भविष्यन्ति, ऊर्जा-सुरक्षा अपि बलीयसी भविष्यति।
रक्षा-सहयोगस्य विषये मोदी अवदत् यत् भारत-ऑस्ट्रेलिया-रक्षा-नवाचार-परिसरस्य माध्यमेन उभयदेशयोः रक्षा-स्टार्टअप-संस्था: उद्योगाश्च परस्परं सम्बद्धाः भविष्यन्ति। तदनन्तरं सामुद्रिक-सुरक्षा-सहयोग-मार्गचित्रस्य माध्यमेन हिन्द-प्रशान्त-प्रदेशे संयुक्त-सुरक्षा-प्रयत्नाः अधिकं सुदृढाः भविष्यन्ति।
आतङ्कवादस्य विषये प्रधानमन्त्री अवदत् यत् भारतम् ऑस्ट्रेलियादेशश्च मन्येते—आतङ्कवादः केवलम् एकस्य देशस्य न, अपितु समग्रमानवतायाः गम्भीरः संकटः अस्ति। अतः आतङ्कवादस्य विरुद्धं उभयदेशयोः संघर्षः समानः अस्ति, संकल्पः अटलः अस्ति, सहयोगश्च निरन्तरं सुदृढः भवति। तेन उक्तं यत् विश्वस्य विभिन्नभागेषु प्रवर्तमानानां संघर्षाणां युद्धानां च समाधानं केवलं संवादेन कूटनीत्याः माध्यमेन च सम्भवम् अस्ति। उभयदेशौ हिन्द-प्रशान्त-प्रदेशे शान्तिं, स्थैर्यं, नौसञ्चालन-स्वातन्त्र्यं, नियमाधारित-व्यवस्थां च सुदृढीकर्तुं संयुक्तरूपेण कार्यं करिष्यतः।
मोदी अवदत् यत् भारतीय-मूलोत्पन्नाः जनाः ऑस्ट्रेलियादेशस्य आर्थिक-सामाजिक-जीवने महत्त्वपूर्णं योगदानं ददति। तेन उक्तं यत् ऑस्ट्रेलियादेशः भारतीय-विद्यार्थिनां कृते प्रियं शिक्षागन्तव्यं वर्तते, भारते च ऑस्ट्रेलियाई-विश्वविद्यालयानां परिसराणां उद्घाटनेन उभयदेशयोः ज्ञान-सहभागिताया: नूतनः अध्यायः प्रारब्धः। तेन पुनरुक्तं यत् उभयदेशौ विद्यार्थिनां, व्यावसायिकानां, पर्यटकानां च आवागमनं परस्परसम्पर्कं च वर्धयितुं निरन्तरं प्रयत्नशीलौ भविष्यतः।
Hindusthan Samachar / Divya Ranjan