अमेरिकायाः स्वातंत्र्यस्य 250तमे पर्वणि सम्मिलिता 'सुदर्शिनी', दर्शिता समृद्धा सामुद्रीसंपद्
- भारत-अमेरिकयोः मध्ये सामरिकसांस्कृतिकसहकारिता इतोऽपि दृढा नवदिल्ली, 09 जुलाईमासः (हि.स.)। अमेरिकायाः स्वातन्त्र्यस्य उत्सवं समाचरितुं २५० तमवर्षपूर्त्यवसरे आयोजितायाम् अन्ताराष्ट्रियनौसैनिकसमीक्षायां भारतीयनौसेनायाः पालप्रशिक्षणपोतः एसटीएस आईए
आईएनएस सुदर्शिनी ने भारत का प्रतिनिधित्व


- भारत-अमेरिकयोः मध्ये सामरिकसांस्कृतिकसहकारिता इतोऽपि दृढा

नवदिल्ली, 09 जुलाईमासः (हि.स.)। अमेरिकायाः स्वातन्त्र्यस्य उत्सवं समाचरितुं २५० तमवर्षपूर्त्यवसरे आयोजितायाम् अन्ताराष्ट्रियनौसैनिकसमीक्षायां भारतीयनौसेनायाः पालप्रशिक्षणपोतः एसटीएस आईएनएस सुदर्शिनी भारतस्य प्रतिनिधित्वम् अकरोत्। अयं पालप्रशिक्षणपोतः महासागरीयपाराभियानस्य अन्तर्गतं न्यूयार्कपत्तनस्य यात्रां सम्पूर्णां कृत्वा भारतस्य समृद्धां सामुद्रिकविरासतां प्रदर्शितवान्। सहैव भारतस्य अमेरिकायाश्च मध्ये सामरिकसांस्कृतिकसहभागितां सुदृढतराम् अकरोत्।

भारतं महासागरपारनियोजनस्य अङ्गरूपेण स्वदेशे निर्मितं त्रिमस्तूलयुक्तं भारतीयनौसेनायाः पालप्रशिक्षणपोतं एसटीएस आईएनएस सुदर्शिनी दशमासानां कृते नियोजितवान्। ५४ मीटरदीर्घस्य अस्य त्रिमस्तूलयुक्तस्य पोतस्य मुख्योद्देश्यं नौसेनायाः युवप्रशिक्षुकेभ्यः समुद्रस्य वास्तविकपरिस्थितिषु पारम्परिकनाविककौशलस्य नौसञ्चालनस्य च प्रशिक्षणं प्रदातुम् अस्ति। अयमेव पोतः ०८ जुलाई दिनाङ्के अमेरिकायाः स्वातन्त्र्यस्य २५० तमवर्षपूर्त्युत्सवे भागम् अगृह्णात्। वर्षपूर्त्यवसरे आयोजितायाम् अन्ताराष्ट्रियनौसैनिकसमीक्षायां सः भारतस्य प्रतिनिधित्वम् अकरोत्।

अस्याः यात्रायाः मुख्याकर्षणम् आईएनएस सुदर्शिनी इत्यस्य भव्यायां पालपोतशोभायात्रायां सहभागिता आसीत्। अस्याः यात्रायाः समये पोतः स्टैच्यू आफ लिबर्टी इत्यस्य समीपतः हडसननद्याः तटेन च अगच्छत् तथा अन्तरराष्ट्रीयदीर्घपालपोतानां नौसैनिकपोतानां च भव्यपोतसमूहेन सह गौरवेण त्रिवर्णध्वजम् अध्वजत्। ब्रुकलिननगरे स्थितिकाले आईएनएस सुदर्शिनी भारतस्य चलदूतरूपेण कार्यम् अकरोत् तथा सहस्राधिकान् आगन्तुकान् स्वागतम् अकरोत् येषु भारतीयसमुदायस्य सदस्याः सामुद्रिकविषयेषु रुचिमन्तः जनाश्च समाविष्टाः आसन्। आगन्तुकेभ्यः भारतीयनौसेनायाः पालप्रशिक्षणपरम्पराणां भारतीयसामुद्रिकविरासतायाश्च विषये सूचना प्रदत्ता।

पोतेन अनेके प्रतिष्ठिताः आगन्तुकाः स्वागतं प्राप्तवन्तः येषु न्यूयार्कनगरे भारतस्य महावाणिज्यदूतः बिनयश्रीकान्तप्रधानः संयुक्तराष्ट्रे भारतस्य राजदूतः स्थायिप्रतिनिधिश्च पर्वतनेनीहरीशः समाविष्टौ आस्ताम्। तौ पोतकर्मिदलेन सह संवादम् अकुरुताम् तथा भारतस्य सामुद्रिकविरासतायाः संवर्धनाय उभयोः देशयोः मध्ये सामुद्रिकसम्बन्धानां सुदृढीकरणाय च कृतस्य कार्यस्य प्रशंसाम् अकुरुताम्। पोते आयोजिते रात्रिभोजे वरिष्ठाः राजनयिकाः सैन्याधिकारिणः प्रतिष्ठितातिथयश्च एकत्र समागताः येन भारत अमेरिका व्यापकवैश्विकरणनीतिकसहभागितां सुदृढतरां कर्तुम् अवसरः प्राप्तः।

तदनन्तरं सुदर्शिनी न्यूयार्कपत्तनात् बोस्टननगरं प्रति प्रस्थिता यत्र सा सेल बोस्टन सेलिब्रेशन इत्यस्मिन् उत्सवे भागं ग्रहीष्यति। अयं पोतः लोकायन २०२६ अभियानस्य अङ्गरूपेण समुद्रपारं भारतीयनौसेनायाः मैत्र्याः सामुद्रिकसहयोगस्य सद्भावनायाश्च सन्देशं वहति।------------------

Hindusthan Samachar / Dheeraj Maithani