नेपालदेशे भारतस्य राजदूतेन प्रतिनिधिसभाध्यक्षेन सह कृत: शिष्टाचारसाक्षात्कार:
काठमाण्डूनगरम्, ०९ जुलाईमासः (हि.स.)। नेपाले भारतस्य राजदूतः नवीनश्रीवास्तवः गुरुवासरे सङ्घीयसंसदः अधःसदनस्य प्रतिनिधिसभायाः अध्यक्षेन डोलप्रसाद-अर्यालेन सह शिष्टाचारसाक्षात्कारं कृतवान्। सिंहदरबारे सम्पन्ने अस्मिन् साक्षात्कारे अर्यालः अवदत् यत्
नेपाल में भारत के राजदूत से मुलाकात करते नेपाल के स्पीकर


काठमाण्डूनगरम्, ०९ जुलाईमासः (हि.स.)। नेपाले भारतस्य राजदूतः नवीनश्रीवास्तवः गुरुवासरे सङ्घीयसंसदः अधःसदनस्य प्रतिनिधिसभायाः अध्यक्षेन डोलप्रसाद-अर्यालेन सह शिष्टाचारसाक्षात्कारं कृतवान्।

सिंहदरबारे सम्पन्ने अस्मिन् साक्षात्कारे अर्यालः अवदत् यत् वर्तमानसर्वकारेण स्वकार्यकालस्य प्रथमं शतं दिनानि सफलतया सम्पन्नानि। सः अद्यतन-समाप्तेषु सार्वत्रिकनिर्वाचनेषु भारत-सर्वकारेण प्रदत्तस्य सहयोगस्य कृते आभारमपि प्रकटितवान्।

अर्यालः अवदत् यत् नेपाल-भारतयोः सम्बन्धाः समानसभ्यतायाः, भौगोलिक-सामीप्यस्य तथा सांस्कृतिक-सामाजिकसम्बन्धानां दृढाधारे प्रतिष्ठिताः सन्ति। व्यापारः, सुरक्षा, नागरिक-विमानयानम्, जलसम्पदः तथा सम्पर्कसुविधा इत्यादिक्षेत्रेषु विविधैः द्विपक्षीयतन्त्रैः उभयदेशयोः सम्बन्धाः निरन्तरं सुदृढा: भवन्ति इति तेन उक्तम्।

तेन अपि उक्तं यत् उच्चस्तरीयानां प्रतिनिधिमण्डलानां परस्परभ्रमणैः उभयदेशयोः सम्बन्धाः अधिकं सुदृढाः अभवन्। सः आशां प्रकटितवान् यत् नागरिकविमानयानस्य, रेलसेवानां तथा बससेवानां विस्तारेण उभयदेशयोः पारस्परिकसम्पर्कः अधिकं सुदृढः भविष्यति तथा भविष्ये नवीनानां विमान-सेवानां, रेलसेवानां बसमार्गाणां च विस्तारं करिष्यते।

सभाध्यक्षः अर्यालः अवदत् यत् तेन भारतस्य लोकसभाध्यक्षः ओमबिरला नेपालम् आगमनाय निमन्त्रितः। अस्मात् पूर्वं राजदूतः नवीनश्रीवास्तवः सूचितवान् यत् ओमबिरला नेपालभ्रमणाय इच्छुकः अस्ति। तेन नेपालस्य सभाध्यक्षाय सांसदेभ्यश्च भारतस्य संसदीय-कार्यप्रणाल्याः अध्ययनाय अवलोकनाय च भारतम् आगमनाय निमन्त्रणमपि प्रदत्तम्।

राजदूतः नवीनश्रीवास्तवः विश्वासं प्रकटितवान् यत् संसदीयकूटनीतिः उच्चस्तरीयराजनैतिकसंवादश्च नेपाल-भारतसम्बन्धान् नूतनशिखरं प्रति नेतुं महत्त्वपूर्णां भूमिकां निर्वहिष्यतः। भारतसर्वकारः व्यापारे, सम्पर्कसुविधायाम्, ऊर्जाक्षेत्रे, शिक्षाक्षेत्रे तथा उभयदेशीय-जनानां पारस्परिकसम्बन्धानां अधिक-सुदृढीकरणाय निरन्तरं सहयोगं प्रदातुं प्रतिबद्धः अस्ति।

Hindusthan Samachar / Divya Ranjan