केलांगे निर्मास्यते देशस्य प्रथमम् उच्चहिमालयी चिकित्सा एवं जनस्वास्थ्यअनुसंधानकेंद्रम्
नवदिल्ली, 09 जुलाईमासः (हि.स.)। केन्द्रीयस्वास्थ्यपरिवारकल्याणमन्त्री जगतप्रकाशनड्डा ११ जुलाई दिनाङ्के हिमाचलप्रदेशस्य लाहौलस्पीतिजनपदस्य केलाङ्गे आईसीएमआर इत्यस्य अस्य केन्द्रस्य आधारशिलां स्थापयिष्यति। एतत् केन्द्रम् उच्चहिमालयीयक्षेत्रेषु स्व
स्वास्थ्य मंत्रालय का लोगो


नवदिल्ली, 09 जुलाईमासः (हि.स.)।

केन्द्रीयस्वास्थ्यपरिवारकल्याणमन्त्री जगतप्रकाशनड्डा ११ जुलाई दिनाङ्के हिमाचलप्रदेशस्य लाहौलस्पीतिजनपदस्य केलाङ्गे आईसीएमआर इत्यस्य अस्य केन्द्रस्य आधारशिलां स्थापयिष्यति। एतत् केन्द्रम् उच्चहिमालयीयक्षेत्रेषु स्वास्थ्यसम्बद्धानां समस्याणाम् अनुसन्धानस्य प्रमुखसंस्थानं भविष्यति। अत्र उच्चोन्नतप्रदेशेषु मानवशरीरस्य अनुकूलनं पर्वतीयचिकित्सा जलवायुपरिवर्तनेन सम्बद्धाः रोगाः संक्रामकरोगाः असञ्चारिरोगाः मातृशिशुस्वास्थ्यं पोषणं मानसिकस्वास्थ्यम् आपदाचिकित्सा इत्यादिषु विषयेषु अनुसन्धानं करिष्यते।

केन्द्रीयस्वास्थ्यमन्त्रालयेन गुरुवासरे सूचितं यत् अस्मिन् केन्द्रे दूरचिकित्सा अङ्कीयस्वास्थ्यं ड्रोनाधारितस्वास्थ्यसेवाः वास्तविककालिकजनस्वास्थ्यनिरीक्षणम् इत्यादीनाम् आधुनिकप्रौद्योगिकीनाम् उपयोगः करिष्यते। अस्य माध्यमेन हिमालयीयजनजातीयक्षेत्रेषु स्वास्थ्यसेवानां सुदृढीकरणेन सह जलवाय्वनुकूलस्वास्थ्यव्यवस्थायाः विकासे सहायता भविष्यति।

आधारशिलास्थापनसमारोहस्य समये भूमिपूजनं वैज्ञानिकप्रदर्शनी केन्द्रस्य जालपुटस्य परिचयात्मकचलचित्रस्य च लोकार्पणं हरित आईसीएमआर परिसराभियानस्य अन्तर्गतं वृक्षारोपणं तथा स्मारकडाकविशेषावरणस्य विमोचनमपि करिष्यते।

मन्त्रालयेन सूचितं यत् लाहौलस्पीतिस्थितम् एतत् केन्द्रं सामरिकदृष्ट्या महत्त्वपूर्णे सीमावर्तिक्षेत्रे निवसन्त्याः उच्चहिमालयीयायाः जनजातीयायाश्च जनसंख्यायाः समीपं वर्षपर्यन्तं सम्पर्कं सुनिश्चितं करिष्यति येन स्वास्थ्यस्य पर्यावरणीयनिर्धारकेषु दीर्घकालिकसमूहाधारिताध्ययनानि क्षेत्रीयानुसन्धानानि च कर्तुं शक्यन्ते। एतत् केन्द्रं जनजातीयस्वास्थ्येन आपदासज्जतया अङ्कीयस्वास्थ्यनवाचारेण च सम्बद्धाः राष्ट्रियप्राथमिकताः अग्रे नेतुं सह उच्चहिमालयीयचिकित्साविषये वैश्विकानुसन्धाने अपि योगदानं दास्यति।

एतत् केन्द्रं सशस्त्रबलचिकित्सासेवया एएफएमएस रक्षानुसन्धानविकाससङ्गठनेन डीआरडीओ हिमाचलप्रदेशसर्वकारेण तथा देशविदेशयोः शैक्षणिकानुसन्धानसंस्थानैः सह संस्थागतसहयोगं स्थापयिष्यति येन व्यावहारिकोपयोगाय अनुसन्धानस्य नीतिगतसमर्थनस्य च कृते सुदृढपारिस्थितिकतन्त्रं विकसितं भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani