मुख्यमंत्री इंद्रलोक-इंद्रप्रस्थ मेट्रोयानवीथ्याः निर्माण कार्यस्य कृतवान् शुभारंभम्
नव दिल्ली, 09 जुलाईमासः (हि.स.)।मुख्यमन्त्री रेखागुप्ता गुरुवासरे सरायरोहिल्ला-मेट्रोस्थानकस्य निर्माणस्थले दिल्लीमेट्रोरेलनिगमस्य इन्द्रलोक-इन्द्रप्रस्थ-मेट्रोवीथिकापरियोजनायाः निर्माणकार्यस्य शुभारम्भं कृतवती। अस्मिन् अवसरे सरायरोहिल्ला-मेट्रोस्थ
मुख्यमंत्री रेखा गुप्ता गुरुवार को सराय रोहिल्ला मेट्रो स्टेशन निर्माण स्थल पर इंद्रलोक-इंद्रप्रस्थ मेट्रो कॉरिडोर परियोजना के निर्माण कार्य का शुभारंभ करते हुए


नव दिल्ली, 09 जुलाईमासः (हि.स.)।मुख्यमन्त्री रेखागुप्ता गुरुवासरे सरायरोहिल्ला-मेट्रोस्थानकस्य निर्माणस्थले दिल्लीमेट्रोरेलनिगमस्य इन्द्रलोक-इन्द्रप्रस्थ-मेट्रोवीथिकापरियोजनायाः निर्माणकार्यस्य शुभारम्भं कृतवती। अस्मिन् अवसरे सरायरोहिल्ला-मेट्रोस्थानके डायफ्राम-भित्तिनिर्माणकार्यस्य आरम्भः कृतः, यत् अस्याः महत्त्वपूर्णपरियोजनायाः प्रथमं निर्माणचरणम् अस्ति। सा अवदत् यत् दिल्लीमेट्रो केवलं परिवहनव्यवस्था नास्ति, अपितु विकसितदिल्याः आधारशिला अस्ति।

मुख्यमन्त्री अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः नेतृत्वे देशे सर्वत्र आधुनिकायाः विश्वस्तरीयायाश्च आधारभूतसंरचनायाः तीव्रगत्या विकासः भवति। दिल्लीशासनमपि अस्याः एव दृष्टेः अनुरूपं राजधान्यां सार्वजनिकपरिवहनव्यवस्थां अधिकं सुदृढां कर्तुं केन्द्रशासनेन दिल्लीमेट्रोरेलनिगमेन च सह समन्वितरूपेण कार्यं करोति।

सा अवदत् यत् १२.३७७ किलोमीटरदीर्घा इन्द्रलोक-इन्द्रप्रस्थ-मेट्रोवीथिका दिल्लीमेट्रोव्यवस्थायाः मैजेण्टा-रेखायाः अष्टमरेखायाः पूर्णतया भूमिगतविस्तारः भविष्यति। अस्यां वीथिकायाम् इन्द्रलोकः, दयाबस्ती, सरायरोहिल्ला, अजमलखानोद्यानम्, झण्डेवालानमन्दिरम्, नबीकरीमः, नवदिल्ली, दिल्लीद्वारम्, दिल्लीसचिवालयः आईजीक्रीडाङ्गणं च तथा इन्द्रप्रस्थः इत्येतानि आहत्य दश आधुनिकानि भूमिगत-मेट्रोस्थानकानि निर्मास्यन्ते।

सा अवदत् यत् परियोजनायाः पूर्णतायाः अनन्तरं मैजेण्टा-रेखायाः सम्पूर्णदीर्घता प्रायः ८९ किलोमीटरमिता भविष्यति, येन एषा दिल्लीमेट्रोव्यवस्थायाः सर्वाधिकदीर्घा रेखा भविष्यति। अनेन सह अस्यां रेखायां सर्वाधिकानि अन्तरपरिवर्तनस्थानकानि भूमिगतस्थानकानि च भविष्यन्ति, येन राजधान्याः विभिन्नभागानां मध्ये यात्रा पूर्वापेक्षया अधिकशीघ्रा सरला सुविधाजनिका च भविष्यति।

एषा वीथिका दिल्लीमेट्रोजालस्य सप्तभिः प्रमुखरेखाभिः सह संयुज्य राजधान्याः सम्पर्कव्यवस्थां नूतनम् उत्कर्षं प्रापयिष्यति। इन्द्रलोकस्थानके रक्तरेखया हरितरेखया च, नबीकरीमस्थानके मैजेण्टा-रेखया, नवदिल्लीस्थानके पीतरेखया विमानपत्तनद्रुतरेखया नारङ्गरेखया च, दिल्लीद्वारस्थानके वायलेट्-रेखया तथा इन्द्रप्रस्थस्थानके नीलरेखया सह अन्तरपरिवर्तनसुविधा उपलब्धा भविष्यति।

एषा नूतना मेट्रोवीथिका सरायरोहिल्ला-रेलस्थानकम्, नवदिल्ली-रेलस्थानकम्, दिल्लीसचिवालयम्, झण्डेवालानमन्दिरम्, अरुणजेटलीक्रीडाङ्गणम्, इन्दिरागान्धी-अन्तःक्रीडाङ्गणम्, दिल्लीद्वारम्, कर्तव्यपथम्, इण्डियागेट्, राष्ट्रिययुद्धस्मारकम्, सेण्ट्रलविस्टा इत्यादीनि अनेकानि महत्त्वपूर्णस्थानानि उत्तमया निर्बाधया च मेट्रोसम्पर्कव्यवस्थया संयोजयिष्यति।

सरायरोहिल्ला-स्थानकम् अस्याः वीथिकायाः महत्त्वपूर्णतमेषु स्थानकेषु अन्यतमं भविष्यति। एतत् स्थानकं मध्यदिल्याः सघनजनसङ्ख्यायुक्तक्षेत्राणि, शिक्षणसंस्थानानि, व्यापारिकप्रतिष्ठानानि, करोलबागविपणिम्, लिबर्टीसिनेमागृहम्, देशबन्धुगुप्तमार्गं तथा समीपवर्तीनि प्रमुखक्षेत्राणि आधुनिकमेट्रोजालेन सह संयोजयिष्यति। अनेन क्षेत्रे सार्वजनिकपरिवहनव्यवस्था अधिका सुलभा प्रभावकारिणी च भविष्यति।

मुख्यमन्त्री अवदत् यत् दिल्यां मेट्रोजालस्य विस्तारः स्वच्छपर्यावरणस्य सततविकासस्य च दिशि अपि महत्त्वपूर्णः उपक्रमः अस्ति। अधिकाधिकनागरिकाणां सार्वजनिकपरिवहनव्यवस्थया सह संयोजनेन निजवाहनेषु निर्भरता न्यूना भविष्यति, येन यातायातसम्मर्दः, इन्धनोपभोगः, कार्बनोत्सर्जनं च न्यूनीभविष्यन्ति। अनेन राजधान्याः वायुगुणवत्तायां सुधारः भविष्यति तथा पर्यावरणसंरक्षणमपि अधिकं सुदृढं भविष्यति।

दिल्लीशासनस्य लक्ष्यं राजधान्यै विश्वस्तरीयाम् आधुनिकां पर्यावरणानुकूलां च सार्वजनिकपरिवहनव्यवस्थाम् उपलब्धां कारयितुम् अस्ति, येन प्रत्येकस्मै नागरिकाय सुरक्षितस्य सुगमस्य चिरस्थायिनश्च आवागमनस्य सुविधा उपलब्धा भवेत्।

---------------

Hindusthan Samachar / Dheeraj Maithani