षण्मासपर्यन्तं दक्षिणायनं गमिष्यति भगवान् भास्करः, संक्रामकरोगाणां प्रभावः वर्धितुं शक्नोति - ज्योतिर्विद् सतीशमणित्रिपाठी
– १६ जुलाईमासस्य अर्धरात्रौ सूर्यः कर्कराशौ प्रवेशं करिष्यति, ज्योतिषशास्त्रे एतत् महत्त्वपूर्णं खगोलीयं परिवर्तनं मन्यते लखनऊनगरम्, ०९ जुलाईमासः (हि.स.)। सौरमण्डलस्य ग्रहाणां राजा भगवान् भास्करः १६ जुलाईमासस्य अर्धरात्रेः आरभ्य षण्मासपर्यन्तं दक्
ज्योतिर्विद सतीश मणि त्रिपाठी


– १६ जुलाईमासस्य अर्धरात्रौ सूर्यः कर्कराशौ प्रवेशं करिष्यति, ज्योतिषशास्त्रे एतत् महत्त्वपूर्णं खगोलीयं परिवर्तनं मन्यते

लखनऊनगरम्, ०९ जुलाईमासः (हि.स.)। सौरमण्डलस्य ग्रहाणां राजा भगवान् भास्करः १६ जुलाईमासस्य अर्धरात्रेः आरभ्य षण्मासपर्यन्तं दक्षिणायनं गमिष्यति। ज्योतिर्विद् सतीशमणित्रिपाठी हिन्दुस्थानसमाचारसंस्थायै अवदत् यत् सूर्यदेवस्य कर्कराशौ प्रवेशेन सह दक्षिणायनकालस्य शुभारम्भः भविष्यति। ज्योतिषशास्त्रे एषा महत्त्वपूर्णा खगोलीय-घटना मन्यते।

मान्यतानुसारम् अस्मिन् काले सूर्यस्य बलं तुलनात्मकतया न्यूनं भवति। अतः माङ्गलिककार्येषु सावधानताया: पालनस्य परामर्शः दीयते। ज्योतिष-शास्त्रानुसारं सूर्यस्य जल-तत्त्वात्मकायां कर्कराशौ प्रवेशेन सह संक्रामकरोगाणाम् प्रभावोऽपि वर्धितुं शक्नोति।

ज्योतिषशास्त्रानुसारं सूर्यदेवः १६ जुलाईमासस्य अर्धरात्रौ चन्द्रस्य राशौ कर्कराशौ प्रवेशं करिष्यति तथा प्रायः एकमासपर्यन्तं तस्यामेव राशौ स्थितः भविष्यति। अनेन सह तस्य दक्षिणायनम् आरभ्यते। प्रायः षण्मासानन्तरं मकरराशौ प्रवेशेन सूर्यः पुनरुत्तरायणं गमिष्यति।

ज्योतिर्विद् सतीशमणित्रिपाठी अवदत् यत् नवग्रहेषु सूर्यदेवः ग्रहाणां राजा मन्यते। सः राजसत्तायाः, मान-सम्मानस्य, तेजसः तथा आरोग्यस्य कारकः अस्ति। ज्योतिषीय-मान्यतानुसारं सूर्यस्य शुभस्थितिः मनुष्याय प्रतिष्ठां, ऊर्जां तथा आरोग्यं प्रददाति, किन्तु दक्षिणायनकाले सूर्यस्य प्रभावः तुलनात्मकतया मन्दः मन्यते। अत एव बहवः ज्योतिषविद्वांसः अस्मिन् काले बृहन्माङ्गलिककार्याणां परिहारस्य परामर्शं ददति।

ज्योतिर्विदः मते अग्नितत्त्वात्मकस्य ग्रहस्य सूर्यस्य जलतत्त्वात्मकायां कर्कराशौ प्रवेशः प्राकृतिकपरिवेशे परिवर्तनस्य सूचकः अस्ति। वातावरणे आर्द्रतायाः वृद्ध्या सह जीवाणवः, विषाणवश्च इव सूक्ष्मजीवाः अधिकं सक्रियाः भवितुं शक्नुवन्ति। अतः संक्रामकरोगाणां प्रसारस्य सम्भावना वर्धते। तस्मात् अस्मिन् अवधौ स्वास्थ्ये, स्वच्छतायां तथा आहारविहारे विशेषसावधानता पालनीया इति तेन उक्तम्।

Hindusthan Samachar / Divya Ranjan