योगी आदित्यनाथः कामदगिरि पर्वतस्य परिक्रमा, याचितो जनकल्याणस्य आशीर्वादः
-कामतानाथस्य दर्शनं कृत्वा कृता आरती, वानरेभयः खादिताः चणकाः सतना/चित्रकूटम्, 09 जुलाईमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे मध्यप्रदेशस्य सतनाजनपदस्थितायां धर्मनगर्यां चित्रकूटे भगवान् कामतानाथस्य आराधनां कृत्वा क
मुख्यमंत्री योगी आदित्यनाथ ने कामतानाथ की आराधना कर कामदगिरि पर्वत की पवित्र परिक्रमा की


कामतानाथ के दर्शन कर उतारी आरती


बंदरों को खिलाया चना


-कामतानाथस्य दर्शनं कृत्वा कृता आरती, वानरेभयः खादिताः चणकाः

सतना/चित्रकूटम्, 09 जुलाईमासः (हि.स.)।

उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे मध्यप्रदेशस्य सतनाजनपदस्थितायां धर्मनगर्यां चित्रकूटे भगवान् कामतानाथस्य आराधनां कृत्वा कामदगिरिपर्वतस्य पवित्रां परिक्रमाम् अकरोत्। मुख्यमन्त्री योगी प्रायः पञ्चकिलोमीटरदीर्घां परिक्रमां कठोरसुरक्षाव्यवस्थायाः मध्ये पद्भ्यां सम्पूर्णवान्।

मुख्यमन्त्री योगी आदित्यनाथः प्रातः सर्किटहाउसतः प्रस्थाय सर्वप्रथमं बरहाहनुमानमन्दिरं प्राप्तवान्, यत्र सः विधिविधानपूर्वकं पूजार्चनाम् अकरोत्। ततः प्रातः सप्तवादने दशवादनांशे कामदगिरेः परिक्रमाम् आरब्धवान्। प्रायः एककिलोमीटरं पद्भ्यां गमनानन्तरं सः भगवान् कामतानाथमन्दिरे विशेषपूजार्चनाम् अकरोत्, ततश्च अग्रे प्रस्थितवान्।

परिक्रमायाः समये आरतीस्थले आचार्यविपिनविराटमहाराजेन सह भगवान् कामतानाथस्य आरार्तिक्यम् अकरोत्। अस्मिन्नवसरे विपिनविराटमहाराजः तस्मै कामतानाथारतीस्थलस्य चित्राणां स्मृत्याल्बममपि समर्पितवान्।

परिक्रमायाः समये मुख्यमन्त्रिणः सहजम् आत्मीयं च स्वरूपमपि द्रष्टुं प्राप्तम्। सः मार्गे वानरेभ्यः स्वहस्ताभ्यां चणकान् अददात्। अनेकस्थलेषु श्रद्धालवः तस्मिन् पुष्पवृष्टिम् अकुर्वन्, अपरतः बहुसंख्यकाः जनाः दूरात् तेन सह स्वचित्रग्रहणस्य प्रयासं कुर्वन्तः दृष्टाः। सम्पूर्णे मार्गे ‘जय श्रीराम’ ‘हर हर महादेव’ इत्यादयः जयघोषाः निरन्तरं गुञ्जन्ति स्म।

प्रायः द्विघण्टादशाधिकनिमेषेषु प्रातः नववादने विंशतिवादनांशे मुख्यमन्त्री स्वपरिक्रमां सम्पूर्णवान्। अन्तिमे स्थाने सः पुनः भगवान् कामतानाथस्य हनुमतः च दर्शनं कृत्वा पूजार्चनाम् अकरोत्।

परिक्रमायाः समये दिगम्बराखाडायाः महन्तः दिव्यजीवनदासः, आचार्यविपिनविराटमहाराजः सहिताः बहुसंख्यकाः सन्तमहात्मानः तेन सह उपस्थिताः आसन्। महन्तः दिव्यजीवनदासः अवदत् यत् मुख्यमन्त्रिणः चित्रकूटेन सह विशेषः आध्यात्मिकः अनुरागः अस्ति, तस्य पुनः पुनः अत्र आगमनं तस्य गहनायाः आस्थायाः प्रतीकम् अस्ति।

मुख्यमन्त्रिणा सह प्रयागराजक्षेत्रस्य अतिरिक्तपुलिसमहानिदेशकः ज्योतिनारायणः, पुलिसोपमहानिरीक्षकः राजेशकुमारयशः, मण्डलायुक्तः अजितकुमारः, जिलाधिकारी पुलकितगर्गः, पुलिसाधीक्षकः अरुणकुमारसिंहः तथा जगद्गुरुरामभद्राचार्यस्य उत्तराधिकारी रामचन्द्रदासः सहिताः अनेके प्रशासनिकाधिकारिणः सन्तश्च परिक्रमायां सम्मिलिताः आसन्।

मुख्यमन्त्रिणः भ्रमणं दृष्ट्वा सम्पूर्णे परिक्रमामार्गे कठोराः सुरक्षाप्रबन्धाः कृताः आसन्। पुलिसबलस्य, प्रादेशिकसशस्त्रारक्षिबलस्य तथा गुप्तचरसंस्थानां कर्मिणः पदे पदे नियुक्ताः आसन्। स्थाने स्थाने अवरोधकाः स्थापिताः आसन्, सुरक्षापरीक्षणानन्तरमेव श्रद्धालुभ्यः प्रवेशः प्रदत्तः। परिक्रमामार्गे पुलिसबलं निरन्तरं जनसम्मर्दं नियन्त्रयति स्म।

परिक्रमां सम्पूर्णां कृत्वा मुख्यमन्त्री योगी आदित्यनाथः सर्किटहाउसं प्राप्तवान्, ततः सः बान्दानगरं प्रति प्रस्थितवान्। मुख्यमन्त्री बान्दायां प्रायः सप्तशतदशकोटिरूप्यकाणां व्ययेन निर्मितानां द्विशतनवविंशतिविकासपरियोजनानां लोकार्पणशिलान्यासकार्यक्रमे सम्मिलितः भविष्यति।

---------------

Hindusthan Samachar / Dheeraj Maithani