मध्यप्रदेशः - मुख्यमन्त्री अद्य शाजापुर-जनपदस्य प्रवासे, कालापीपल-क्षेत्रे कृषक-सम्मेलने सहभागी भविष्यति
शाजापुरम्, ०९ जुलाईमास: (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य गुरुवासरे शाजापुर-जनपदस्य कालापीपल-तहसीलस्य प्रवासे भविष्यति। सः अत्र आयोजिते कृषक-सम्मेलने सहभागी भविष्यति। तथा च एकः वृक्षः मातुः नाम्ना इत्यभियानस्य अन्तर्गतं चतुर्
सीएम मोहन यादव


शाजापुरम्, ०९ जुलाईमास: (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहनयादवः अद्य गुरुवासरे शाजापुर-जनपदस्य कालापीपल-तहसीलस्य प्रवासे भविष्यति। सः अत्र आयोजिते कृषक-सम्मेलने सहभागी भविष्यति। तथा च एकः वृक्षः मातुः नाम्ना इत्यभियानस्य अन्तर्गतं चतुर्लक्षं पादपान् रोपयितुं संकल्पं स्वीकृत्य वृक्षारोपण-अभियानस्य शुभारम्भं करिष्यति।

निर्धारित-कार्यक्रमानुसारं मुख्यमन्त्री डॉ.मोहनयादवः प्रातः ११:०० वादने भोपाल-स्थितात् स्टेट-हैङ्गरत: हेलिकॉप्टर-यानद्वारा प्रस्थास्यति। ततः प्रातः ११:२० वादने शाजापुर-जनपदस्य कालापीपल-तहसीलम् उपगम्य स्थानीय-कार्यक्रमे सहभागी भविष्यति। अनन्तरं सः अपराह्णे १२:४५ वादने कालापीपलत: प्रस्थाय अपराह्णे १:०५ वादने भोपाल-स्थितं स्टेट-हैङ्गरपर्यन्तम् उपगमिष्यति।

Hindusthan Samachar / Divya Ranjan