Enter your Email Address to subscribe to our newsletters

जबलपुरम्, ०९ जुलाईमासः (हि.स.)। मध्यप्रदेशस्य षष्ठः राज्य-वित्त-आयोगः अद्य गुरुवासरे जबलपुर-प्रवासे भविष्यति। अस्मिन् प्रवासे आयोगः जनपदस्य जनप्रतिनिधिभिः तथा सम्भागस्य प्रशासनिक-अधिकारिभिः सह स्थानीय-विभागानां वित्तीय-स्थितेः विकासकार्याणां च समीक्षार्थं सभां करिष्यति। एतासु सभासु आयोगस्य अध्यक्षः जयभानसिंह-पवैया, सदस्यः के. के. सिंहः तथा सदस्य-सचिवः वीरेन्द्रकुमारः सहभागिन: भविष्यन्ति।
जनपद-प्रशासनेन प्रकाशित-कार्यक्रमानुसारं प्रातः ११:३० वादनात् सर्किट-हाउस-भवने जबलपुर-जनपदस्य मन्त्रिभिः, सांसदैः, सर्वैः विधायकैः, महापौरेण तथा जनपद-पञ्चायत-अध्यक्षेन सह आयोगस्य सभा भविष्यति। अस्यां सभायां नगरीय-निकायानां पञ्चायतीराज-संस्थानां च वित्तीय-स्थितेः विषये विचाराः भविष्यन्ति।
अपराह्णे २:०० वादनात् उपायुक्त-कार्यालयस्य सभाकक्षे षष्ठ-राज्य-वित्त-आयोगस्य सम्भागायुक्तेन, जबलपुर-सम्भागस्य सर्वैः उपायुक्तै:, सम्भागस्य सर्वेषां जनपद-मुख्यालयानां नगर-निगम-आयुक्तैः अथवा नगरपालिका-परिषदां मुख्य-नगरपालिका-अधिकारिभिः तथा जनपद-पञ्चायतानां मुख्य-कार्यपालन-अधिकारिभिः सह सभा भविष्यति।
Hindusthan Samachar / Divya Ranjan