दिल्ली-मुम्बई-वेगमार्गस्य निरीक्षणं कुर्वन् केन्द्रीयमन्त्री नितिनगडकरी रात्रौ मध्यप्रदेशस्य मन्दसौरम् अगच्छत्
मन्दसौरः, ०९ जुलाईमासः (हि.स.)। केन्द्रीय-मार्ग-परिवहन-राजमार्गमन्त्री नितिनगडकरी दिल्ली-मुम्बई-वेगमार्गस्य निरीक्षणं कुर्वन् बुधवासरे रात्रौ मध्यप्रदेशस्य मन्दसौर-जनपदस्य गरोठ-नगरम् अगच्छत्। अस्मिन् अवसरे स्थानीयजनाः तस्मै क्षेत्रे निरन्तरं वर्धमा
मंदसौर जिले रुपला स्थित रेस्ट हाउस में जनप्रतिनिधियों से मुलाकात करते हुए नितिन गडकरी


मंदसौर जिले रुपला स्थित रेस्ट हाउस में जनप्रतिनिधियों से मुलाकात करते हुए नितिन गडकरी


मन्दसौरः, ०९ जुलाईमासः (हि.स.)। केन्द्रीय-मार्ग-परिवहन-राजमार्गमन्त्री नितिनगडकरी दिल्ली-मुम्बई-वेगमार्गस्य निरीक्षणं कुर्वन् बुधवासरे रात्रौ मध्यप्रदेशस्य मन्दसौर-जनपदस्य गरोठ-नगरम् अगच्छत्। अस्मिन् अवसरे स्थानीयजनाः तस्मै क्षेत्रे निरन्तरं वर्धमानानां मार्गदुर्घटनानां तथा वेगमार्ग-निर्माणकारणेन कृषिक्षेत्रेषु जलसञ्चयम् इव गम्भीरसमस्यासु ध्यानं दातुम् अनुरोधम् अकुर्वन्।

वस्तुतः केन्द्रीयमन्त्री गडकरी देशस्य दीर्घतमस्य दिल्ली-मुम्बई अष्टपङ्क्तीय-वेगमार्गस्य प्रगतिनिरीक्षणार्थं द्विदिवसीयं भ्रमणं बुधवासरे प्रातःकाले देहल्याः आरब्धवान्। ततः सः राजस्थानस्य कोटानगरं मार्गेण गत्वा रात्रौ मध्यप्रदेशस्य मन्दसौर-जनपदस्य गरोठम् अगच्छत् तथा तत्र रूपरा-परिपथ-विश्रामगृहे रात्रिविश्रामम् अकरोत्।

केन्द्रीयमन्त्रिणः आगमनस्य दृष्ट्या सम्पूर्णे जनपदे सुदृढाः सुरक्षाव्यवस्थाः कृताः आसन्। वरिष्ठाधिकारिणां निरीक्षणे सम्पूर्णमार्गे बहुसंख्यकः आरक्षकबलं नियुक्तम् आसीत्। गरोठनगरात् प्रायः त्रिकिलोमीटरपूर्वं रूपराग्रामस्थिते एनएचएआई-विश्रामक्षेत्रे तस्य वाहनसमूहः किञ्चित्कालं स्थितवान्। तत्र प्रशासनिकाधिकारिणः स्थानीयजन-प्रतिनिधयश्च तस्य स्वागतं कृतवन्तः।

स्वागतकर्तृषु जनपदपञ्चायताध्यक्षा दुर्गापाटीदार:, सुवासरा-विधानसभाक्षेत्रस्य विधायकः हरदीपसिंहडङ्ग:, गरोठ-विधायकः चन्द्रसिंहसिसौदिया, नगर-पालिकाध्यक्षः राजेशसेठिया, जनपदाधीशा अदितिगर्ग:, आरक्षक-विभागस्य तथा एनएचएआई-संस्थायाः वरिष्ठाधिकारिणश्च उपस्थिताः आसन्। अस्मिन्नवसरे जनप्रतिनिधिभिः प्रसिद्धायाः दूधाखेड़ी-मातु: चित्रं केन्द्रीयमन्त्रिणे उपायनरूपेण समर्पितम्।

दीर्घयात्रायाः श्रमकारणात् केन्द्रीयमन्त्री केनापि सह विस्तृतवार्तालापं न कृतवान्, सः तु भोजनार्थं प्रत्यक्षमेव गतवान्। विश्रामकाले सुवासरा-विधायकः हरदीपसिंहडङ्गः केन्द्रीयमन्त्रिणा सह मिलित्वा क्षेत्रस्य सम्पर्कसुविधासम्बद्धं निवेदनपत्रं तस्मै समर्पितवान्। तेन सुवासरा-विधानसभाक्षेत्रस्य हरिपुर तथा खेताखेड़ा ग्रामयोः वेगमार्ग-संयोजनस्य व्यवस्था करणीयेति प्रमुखतया निवेदितम्। अस्मिन् विषये केन्द्रीयमन्त्री सकारात्मककार्यवाह्याः आश्वासनम् अददात्।

उल्लेखनीयम् अस्ति यत् देहलीतः मुम्बईपर्यन्तं निर्मीयमाणः अयं १३५० किलोमीटर-दीर्घः अष्टपङ्क्तीय-वेगमार्गः प्रायः १ लक्षं १० सहस्रकोटि-रूप्यकाणां व्ययेन निर्मीयते। तस्य प्रायः २४४ किलोमीटर-दीर्घः भागः मध्यप्रदेशात् गच्छति। अयं भागः मुख्यतया रतलाम, मन्दसौर तथा झाबुआ-जनपदैः गच्छन् एतेषां क्षेत्राणां विकासे महत्त्वपूर्णं योगदानं दास्यति।

केन्द्रीयमन्त्री नितिनगडकरी रूपरा-विश्रामगृहे रात्रिविश्रामानन्तरम् अद्य गुरुवासरे रतलाममार्गेण गुजरातस्य बडोदानगरं गमिष्यति। अस्मिन् भ्रमणे सः थान्दला तथा दाहोद-नगरयोः मध्ये अपूर्णं निर्माणकार्यं अपि निरीक्षिष्यति।

Hindusthan Samachar / Divya Ranjan