दृढविश्वासः, सततप्रयत्नः, सकारात्मकदृष्टि: एव सफलतायाः वास्तविककुञ्जिका - प्रधानमन्त्री मोदी
नवदेहली, ०९ जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् दृढविश्वासः, सततप्रयत्नः, सकारात्मक-दृष्टि: एव सफलतायाः वास्तविककुञ्जिका अस्ति। तेन विश्वासः व्यक्तः यत् देशस्य युवानः एतैरेव गुणैः सह पूर्णसमर्पणभावेन विकसितभारतस्य निर्माणे नि
प्रधानमंत्री नरेन्द्र मोदी (फाइल फोटो)।


नवदेहली, ०९ जुलाईमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी उक्तवान् यत् दृढविश्वासः, सततप्रयत्नः, सकारात्मक-दृष्टि: एव सफलतायाः वास्तविककुञ्जिका अस्ति। तेन विश्वासः व्यक्तः यत् देशस्य युवानः एतैरेव गुणैः सह पूर्णसमर्पणभावेन विकसितभारतस्य निर्माणे निरताः सन्ति।

तेन अद्य ‘एक्स’ माध्यमे सुभाषितम् लिखितवान्—

अनिर्वेदः श्रियो मूलमनिर्वेदः परं सुखम्।अनिर्वेदो हि सततं सर्वार्थेषु प्रवर्तकः॥

अस्य अर्थः अस्ति— निराशः न भवेत्, धैर्यं धारयेत्, उत्साहेन सह निरन्तरं प्रयत्नं कुर्यात्; एतदेव समृद्धेः मूलाधारः अस्ति। एष एव वास्तविकसुखस्य मार्गः अपि अस्ति। यः कदापि हतोत्साहः न भवति, सकारात्मकदृष्ट्या च निरन्तरं कर्म करोति, सः जीवनस्य सर्वेषु उद्देश्येषु सफलतां प्राप्नोति।

प्रधानमन्त्री अवदत् यत् देशस्य युवानः दृढविश्वासेन, अथकपरिश्रमेण, सकारात्मकदृष्टिकोणेन च विकसित-भारतस्य सङ्कल्पस्य साकारीकरणे महत्त्वपूर्णां भूमिकां निर्वहन्ति। दृढनिश्चयः निरन्तरप्रयत्नश्च एव मनुष्यं सफलतायाः शिखरं प्रति नयतः।

Hindusthan Samachar / Divya Ranjan