Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 09 जुलाईमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्रमोदी कर्नाटकस्य उत्तरकन्नडजनपदस्य कारवारे जातायां दुर्घटनायां शोकं प्रकटितवान्। सः शोकसन्तप्तपरिवारान् प्रति संवेदनां प्रकटयन् घायलेभ्यः शीघ्रस्वास्थ्यलाभस्य कामनां कृतवान्।
प्रधानमन्त्री मोदी गुरुवासरे सामाजिकमाध्यममञ्चे एक्स इत्यत्र उक्तवान् यत् कर्नाटकस्य उत्तरकन्नडजनपदस्य कारवारे जाता एषा दुर्घटना अत्यन्तं दुःखदा अस्ति। अस्यां कठिनवेलायां तस्य संवेदनाः मृतकानां परिजनैः सह सन्ति। सः दुर्घटनायां घायलीभूतानां जनानां शीघ्रस्वास्थ्यलाभाय अपि प्रार्थनां कृतवान्।
उल्लेखनीयम् अस्ति यत् कर्नाटकस्य उत्तरकन्नडजनपदस्य यल्लापुरतालुकस्य अरबैलघाटस्थे बलगारसमीपे गुरुवासरे प्रत्यूषे क्रूजरवाहनस्य ट्रकवाहनस्य च मध्ये जातायां सम्मुखसंघट्टनायां षट् जनाः मृताः जबकि अन्ये चत्वारः जनाः गम्भीररूपेण आहतीभूताः।
---------------
Hindusthan Samachar / Dheeraj Maithani