Enter your Email Address to subscribe to our newsletters

नोएडा, 09 जुलाईमासः (हि.स.)।भारतीयसंस्कृतेः अध्यात्मस्य रामायणपरम्परायाश्च संरक्षणे संवर्धने च उल्लेखनीयं योगदानं कृतवद्भ्यः विशिष्टजनेभ्यः सम्मानप्रदानस्य उद्देश्येन रामायण रिसर्च काउंसिल इति संस्थया रामायणी सम्मान २०२६ इत्यस्य आयोजनम् आगामिनि १८ अगस्त दिनाङ्के वाराणस्यां काशी हिन्दू विश्वविद्यालये करिष्यते। एतदायोजनं गोस्वामितुलसीदासस्य जयन्त्याः पावने अवसरे भविष्यति।
एतां सूचनां काउंसिल संस्थायाः न्यासी सेवानिवृत्तः भारतीयप्रशासनिकसेवाधिकारी डा देवदत्तशर्मा अद्य दत्तवान्। डा शर्मा उक्तवान् यत् अस्य राष्ट्रियायोजनस्य माध्यमेन देशस्य विभिन्नराज्येषु विदेशेषु च रामायणपरम्परायाः संरक्षणे संवर्धने अनुसन्धाने साहित्यसर्जने कथावाचने सङ्गीते सांस्कृतिकजागरणे सामाजिकक्षेत्रे च उल्लेखनीयं योगदानं कृतवन्तः विद्वांसः शोधकर्तारः कथावाचकाः साहित्यकाराः अन्ये च विशिष्टव्यक्तयः सम्मानिताः भविष्यन्ति।
काउंसिल संस्थायाः महासचिवः कुमारसुशान्तः उक्तवान् यत् कार्यक्रमस्य उद्देश्यं रामायणस्य व्यापकवाङ्मयस्य तस्य जीवितपरम्पराणां च राष्ट्रियवैश्विकस्तरयोः प्रतिष्ठापनं भारतीयज्ञानपरम्परायाः संवाहकानां सम्माननं नवपीढ्याः रामायणसाहित्येन संस्कृत्या जीवनमूल्यैश्च सह संयोजनं च अस्ति। सः उक्तवान् यत् रामायणं केवलं महाकाव्यं नास्ति अपितु भारतीयसभ्यतायाः नैतिकसांस्कृतिकाध्यात्मिकचेतनायाः आधारः अस्ति।
सः उक्तवान् यत् सम्मानार्थं चयनप्रक्रिया पारदर्शिनी सुव्यवस्थिता च भविष्यति। पात्रावेदकानां नामाङ्कितविशिष्टजनानां च मूल्याङ्कनं तेषां मौलिकयोगदानं प्रभावक्षेत्रं शोधप्रकाशनं सामाजिकप्रभावं रामायणपरम्परायां योगदानं चेत्यादिनिर्धारितमानदण्डानाम् आधारेण शताङ्कपद्धत्या करिष्यते। हितसंघर्षस्य स्थितौ सम्बन्धितः चयनसमितिसदस्यः स्वयमेव तस्मात् मूल्याङ्कनप्रक्रमात् पृथक् भविष्यति।
चयनसमितौ मार्गदर्शकमण्डले च सन्तः शिक्षाविदः न्यायविदः कथावाचकाः साहित्यकाराः पत्रकाराः प्रशासनिकाधिकारिणः सांस्कृतिकक्षेत्रस्य च अनेकाः प्रतिष्ठिताः व्यक्तयः समाविष्टाः सन्ति।
नामाङ्कनप्रक्रिया ९ जुलाई दिनाङ्कात् २३ जुलाई २०२६ दिनाङ्कपर्यन्तं चलिष्यति। आवेदनपत्राणि ईमेल माध्यमेन गूगल फॉर्म माध्यमेन तथा प्रत्यक्षमाध्यमेन स्वीकृतानि भविष्यन्ति। तदनन्तरं २४ जुलाई दिनाङ्कात् २९ जुलाई दिनाङ्कपर्यन्तं प्रारम्भिकपरीक्षणं ३० जुलाई दिनाङ्कात् ३ अगस्त दिनाङ्कपर्यन्तं विस्तृतमूल्याङ्कनं ४ तथा ५ अगस्त दिनाङ्कयोः अन्तिमानुमोदनं तथा ६ अगस्त २०२६ दिनाङ्के चयनितसम्मानार्थिनाम् आधिकारिकघोषणा प्रस्ताविता अस्ति।
---------------
Hindusthan Samachar / Dheeraj Maithani