Enter your Email Address to subscribe to our newsletters


शोणितपुरम् (असमः), 09 जुलाईमासः (हि.स.)।रङ्गापारासोशलवालण्टियरटीम् इति नामिका एका असर्वकारीया संस्था प्रशंसनीयम् उपक्रमं कृतवती। संस्थया रङ्गापारायाः खेरनीबस्त्याः प्रथमसङ्ख्यकविभागे स्थिते एलपीविद्यालये आर्थिकरूपेण दुर्बलानां छात्रछात्राणां कृते विशेषं ठोसपदं गृहीतम्।
संस्थया भाग्योदयशिक्षा इति नामकस्य कार्यक्रमस्य माध्यमेन विद्यार्थिनां कृते आङ्ग्लभाषणस्य चित्रकलायाः नृत्यस्य सङ्गीतस्य च प्रशिक्षणशिविरम् आरब्धम्। खेरनीबस्ती एलपीविद्यालयपरिसरे आयोजितस्य अस्य प्रशिक्षणशिविरस्य औपचारिकः शुभारम्भः रङ्गापारारक्षिस्थानकस्य प्रभारी धनजीतहालोई तथा प्रथमसङ्ख्यकविभागस्य वार्डकमिश्नरः कृतवन्तौ।
अस्य कार्यक्रमस्य अवसरकाले समाजसेविका सेवालीकलिता कुमारप्रधानः अन्ये च सम्मानिताः अतिथयः उपस्थिताः आसन्। सहैव प्रायः ग्राम्यक्षेत्रस्य पञ्चाशत् बालकाः अपि उपस्थिताः आसन्। भाग्योदयशिक्षया सम्बद्धाः अनेके पदाधिकारिणः ग्रामस्य अभिभावकाश्च उपस्थिताः आसन्।
अस्य उपक्रमस्य सर्वैः जनैः प्रशंसा कृता। उपस्थितबालकेषु खाद्यपेयसामग्रीणामपि वितरणं कृतम्। प्राप्तसूचनानुसारं संस्थया वर्तमानसमये प्रतिदिनं द्विघण्टापर्यन्तं शिक्षा प्रदास्यते इति कथितम्।
---------------
Hindusthan Samachar / Dheeraj Maithani