ऋण-प्रदानानुपातस्य उन्नयनाय मुख्यमन्त्रिणा वित्तकोषाध्यक्षेभ्यः कठोरनिर्देशाः प्रदत्ताः
देहरादूननगरम्, ०९ जुलाईमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंहधामी राज्ये ऋण-निक्षेपानुपातं वर्धयितुं न्यूनप्रदर्शनयुक्तेषु जनपदेषु नियमितशिविराणाम् आयोजनं तथा पात्रजनानां कृते समयबद्धरीत्या ऋणप्रदानस्य निर्देशान् दत्तवान्। मुख्यमन्त्री धामी गुरुवा
गुरुवार को सचिवालय में राज्य स्तरीय बैंकर्स समिति (एसएलबीसी) की 97वीं बैठक में मुख्यमंत्री पुष्कर सिंह धामी।


देहरादूननगरम्, ०९ जुलाईमासः (हि.स.)। मुख्यमन्त्री पुष्करसिंहधामी राज्ये ऋण-निक्षेपानुपातं वर्धयितुं न्यूनप्रदर्शनयुक्तेषु जनपदेषु नियमितशिविराणाम् आयोजनं तथा पात्रजनानां कृते समयबद्धरीत्या ऋणप्रदानस्य निर्देशान् दत्तवान्।

मुख्यमन्त्री धामी गुरुवासरे सचिवालये आयोजितायां राज्यस्तरीयवित्त-कोषाध्यक्षसमितेः सप्तनवतितमे अधिवेशने वित्तसेवानां, ऋणवितरणस्य, वित्तीयसमावेशनस्य तथा विविध-स्वरोजगार-योजनानां समीक्षां कुर्वन् अवदत् यत् राज्यस्य आर्थिक-विकासे वित्तकोषक्षेत्रस्य महत्त्वपूर्णा भूमिका वर्तते। तेन वित्तसंस्थाभ्यः कृषकेभ्यः, युवभ्यः, महिलाभ्यः, उद्यमिभ्यः तथा सामान्य-जनेभ्यः ऋणप्राप्तिं सुकरां कर्तुम् आह्वानं कृतम्।

मुख्यमन्त्री बागेश्वर-पौडी-अल्मोडा-रुद्रप्रयाग-पिथौरागढ-टिहरी-जनपदेषु न्यूनऋण-निक्षेपानुपातं प्रति चिन्तां प्रकटयन् जनपदप्रशासनस्य, प्रमुखवित्त-कोषस्य तथा सम्बद्धविभागानां समन्वयेन नियमितशिविराणि आयोजयितुं, पात्र-लाभार्थिनां परिचयं कृत्वा तेभ्यः ऋणं प्रदातुं च निर्देशान् दत्तवान्। सः उक्तवान् यत् राज्यस्य ऋण-निक्षेपानुपातः राष्ट्रियमाध्यमपरिमाणं प्राप्तुं लक्ष्यीकृत्य कार्यं क्रियताम्।

सः अवदत् यत् कस्यापि पात्रस्य जनस्य सर्वकारीययोजनानां लाभग्रहणे काचिदपि कठिनता न भवेत्। यदि आवेदनपत्रे काचित् न्यूनता भवति, तर्हि तां केवलं तान्त्रिककारणेन निराकर्तुं न युक्तम्, अपितु सम्बद्धस्य जनस्य मार्गदर्शनं कृत्वा तस्य न्यूनताः परिपूरयितव्याः।

मुख्यमन्त्री अवदत् यत् वित्तीयवर्षे २०२५–२६ वार्षिक-ऋणयोजनायाः अन्तर्गतं प्रायः ९६ प्रतिशतस्य तथा सूक्ष्म-लघु-मध्यमोद्यमक्षेत्रे १११ प्रतिशतस्य उपलब्धिः राज्यस्य आर्थिकप्रगतिम् सूचयति। तेन मुख्यमन्त्री-स्वरोजगार-योजना-२.०, वीरचन्द्रसिंहगढवाली-स्वरोजगार-योजना, गृहावास-योजना, प्रधानमन्त्री-विश्वकर्मा-योजना, प्रधानमन्त्री-मुद्रा-योजना तथा कृषक-ऋणपत्र-योजना इत्यादीनां योजनानां पात्रलाभार्थिभ्यः प्राथमिकतया ऋणप्रदाने बलं दत्तवान्।

तेन कृषिक्षेत्रे, उद्यानिकीक्षेत्रे, पशुपालने, मत्स्यपालने, पर्यटनक्षेत्रे तथा स्थानीयोत्पादाधारितोद्यमेषु वित्तसंस्थानां सहयोगः वर्धनीयः इति निर्देशः प्रदत्तः। अपि च डिजिटल-वित्तसेवाः तथा डिजिटल-प्रदानव्यवस्था ग्रामे ग्रामे प्रसारयितव्या इति निर्दिष्टम्।

अस्मिन् अवसरे मुख्यसचिवः आनन्दवर्द्धनः साइबर-वंचन-निवारणार्थं १९३० सहायता-दूरवाणीसंख्यया भारतीय-स्टेट-बैंक, पंजाब-नेशनल-बैंक, आईसीआईसीआई-बैंक तथा एचडीएफसी-बैंक इत्येतयोः प्रतिनिधीन् संयोजयितुं विचारं दत्तवान्, येन एतादृशेषु प्रकरणेषु शीघ्रकार्यवाहीं कर्तुं शक्येत। तेन एसएलबीसी-समितेः अधिवेशनात् पूर्वं उपसमितेः नियमिताधिवेशनस्य आयोजनं तथा स्वरोजगार-लघूद्योग-एमएसएमई-क्षेत्रेषु ऋणप्रवाहस्य वर्धनम् अपि बलपूर्वकं प्रतिपादितम्।

अस्मिन् अवसरे डॉ.आर.मीनाक्षी-सुन्दरम्, सचिवः दिलीपजावलकरः, नितेशझा, डॉ.बी.वी.आर.सी. पुरुषोत्तमः, विनय-शङ्करपाण्डेयः, एस.एन.पाण्डेयः, श्रीधरबाबू-अदाङ्की, धीराजगर्ब्यालः, भारतीयरिजर्वबैंक इत्यस्य क्षेत्रीयनिदेशकः अरविन्दकुमारः, मुख्यमहाप्रबन्धकः हर्षकुमारगौतमः, नाबार्डस्य महाप्रबन्धकः पङ्कजयादवः, उत्तराखण्ड-उद्योगसङ्घस्य अध्यक्षः पङ्कजगुप्तः, भारतीय-स्टेट-बैंक इत्यस्य नवदिल्लीस्थितः मुख्य-महाप्रबन्धकः प्रभासबोसः, महाप्रबन्धकः शैलेशकुमारः, एसबीआई-देहरादूनस्य उप-महाप्रबन्धकः राजीव-रञ्जनः, एसबीआई-हल्द्वानी इत्यस्य उप-महाप्रबन्धकः राजीवरञ्जनरतनः, एसएलबीसी-उत्तराखण्डस्य सहायक-महाप्रबन्धकः शैलेन्द्रकुमारः उनियालः तथा अन्ये गणमान्याः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan