Enter your Email Address to subscribe to our newsletters

मीरजापुरम्, ०९ जुलाईमासः (हि.स.)। भारतीयजनतापक्षस्य प्रदेशाध्यक्षः पङ्कजचौधरी गुरुवासरे विंध्याचलं प्राप्य मातु: विंध्यवासिन्याः दरबारे विधिविधान-पूर्वकं दर्शन-पूजनं कृतवान् तथा च प्रदेशवासिनां सुख-समृद्ध्यर्थं प्रार्थनाम् अकरोत्। दर्शनानन्तरं सः पक्षस्य पदाधिकरिभिः जनप्रतिनिधिभिः च सह सभां कृत्वा संगठनात्मक-गतिविधिषु चर्चां कृतवान्।
प्रदेशाध्यक्षः प्रातः प्रायः दशवादने त्रिशक्ति-पथेन मन्दिरम् अगच्छत्। ततः पूर्वं सः अल्पकालं रत्नाकर-नाम्नि निवासगृहे स्थितवान्। अनन्तरं पूजासामग्रीं गृहीत्वा गर्भगृहं प्रविश्य मातु: विंध्यवासिन्याः पूजार्चनां च अकरोत्। तेन सह बहुसंख्यकाः भाजपा-पदाधिकारीणः कार्यकर्तारश्च उपस्थिताः आसन्।
पत्रकारैः सह वार्तालापे पङ्कजचौधरी अवदत् यत् मातु: विंध्यवासिन्याः दरबारे प्रणामः तस्य महत्सौभाग्यम् अस्ति। तेन मातुः समीपे देशस्य प्रदेशस्य च जनानां सुख-समृद्धि-कल्याणार्थं प्रार्थना कृता। सः अवदत् यत् प्रदेशाध्यक्षपदं प्राप्तवानन्तरं सः सर्वेषु जनपदेषु भ्रमणं कृत्वा कार्यकर्तृभिः सह मिलति, तेषां मतानि शृणोति तथा च संगठनं अधिकं सुदृढं कर्तुं प्रयतते।
वर्षे २०२७ विधानसभानिर्वाचनस्य विषये सः अवदत् यत् भारतीयजनतापक्षः वर्षपर्यन्तं जनानां कार्यकर्तॄणां च मध्ये सक्रियः भवति। कोविड्-कालेऽपि पक्षस्य कार्यकर्तारः सेवाकार्याणि अकुर्वन्। निर्वाचनसमये रणनीतिः निर्मीयते, तथा च भारतीयजनतापक्षः २०२७ तमे वर्षेऽपि प्रचण्डबहुमतेन सर्वकारं स्थापयिष्यति।
अस्मिन् अवसरे भाजपा-क्षेत्रीयाध्यक्षः दिलीपसिंहः, जनपदाध्यक्षः लालबहादुर-सरोजः, नगरविधायकः रत्नाकरमिश्रः, मझवाँ-विधायिका शुचिस्मितामौर्या, चुनार-विधायकः अनुरागसिंहः, मड़िहान-विधायकः रमाशङ्करसिंहपटेलः, नगर-पालिकाध्यक्षः श्यामसुन्दरकेसरी, पूर्व-नगरपालिकाध्यक्षः मनोजजायसवालः, अलङ्कारजायसवालः तथा बहुसंख्यकाः भाजपा-पदाधिकारीणः कार्यकर्तारश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan