बुंदेलखंडस्य युवानः अधुना भुसुंडीं नैव, ब्रह्मोसप्रक्षेपास्रं निर्मास्यन्ति, वयं बुंदेलखंडं धरण्यां स्वर्गं निर्मास्यामः : मुख्यमंत्री याेगी आदित्यनाथः
बान्दाजनपदाय ७१० कोटिरूप्यकाणां २२९ परियोजनानाम् उपहारः विकासः विरासतश्च उभयमपि भाजपायाः प्राथमिकता मुख्यमन्त्री राममन्दिरस्य काशीविश्वनाथधाम्नः मातृविन्ध्यवासिनीधाम्नः चित्रकूटस्य च विकासकार्याणि केभ्यश्चित् जनेभ्यः न रोचन्ते मुख्यमन्त्री भाजपा
जनसभा को संबोधित करते हुए मुख्यमंत्री


बान्दाजनपदाय ७१० कोटिरूप्यकाणां २२९ परियोजनानाम् उपहारः

विकासः विरासतश्च उभयमपि भाजपायाः प्राथमिकता मुख्यमन्त्री

राममन्दिरस्य काशीविश्वनाथधाम्नः मातृविन्ध्यवासिनीधाम्नः चित्रकूटस्य च विकासकार्याणि केभ्यश्चित् जनेभ्यः न रोचन्ते मुख्यमन्त्री

भाजपासर्वकारस्य नीतीनां कारणेन बुन्देलखण्डे निवेशस्य नवीनाः सम्भावनाः उत्पन्नाः योगी आदित्यनाथः।

बान्दा ०९ जुलाईमासः, हि.स.। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे बान्दायाम् आयोजितायां जनसभायां समाजवादीपार्टीं तीव्ररूपेण आक्रामत्। सः अवदत् यत् २०१७ वर्षात् पूर्वं प्रदेशे समाजवादीपार्टीसर्वकारस्य शासनकाले बुन्देलखण्डः पिछडापनस्य पीडां सहमानः आसीत्। तस्मिन् समये क्षेत्रे गुण्डानां माफियाजनानां दस्यूनां च प्राबल्यम् आसीत्। युवभ्यः रोजगारं प्रदातुं स्थाने तेषां हस्तेषु तमञ्चाः प्रदत्ताः आसन्। अद्य भाजपासर्वकारस्य शासनकाले बुन्देलखण्डः डिफेन्सकारिडोरमाध्यमेन देशस्य सुरक्षायाः बृहत्केन्द्रं भवति तथा च अत्रत्याः युवानः ब्रह्मोसमिसाइलनिर्माणकार्यं करिष्यन्ति। सः अवदत् यत् यदा भारतं ब्रह्मोसमिसाइलं प्रक्षिपति तदा पाकिस्तानमपि चीत्करोति। सः अवदत् यत् बुन्देलखण्डः तीव्रगत्या विकसितः भवति शीघ्रमेव च एतं धरायाः स्वर्गं करिष्यामः।

मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे बान्दाजनपदस्य पण्डितजवाहरलालनेहरुमहाविद्यालयस्य प्राङ्गणे ७१० कोटिरूप्यकाणां २२९ परियोजनानां लोकार्पणं शिलान्यासं च कृत्वा जनतां सम्बोधयन् आसीत्।

मुख्यमन्त्री योगी अवदत् यत् भाजपासर्वकारस्य नीतीनां कारणेन बुन्देलखण्डे निवेशस्य नवीनाः सम्भावनाः उत्पन्नाः सन्ति तथा च पलायने नियन्त्रणं जातम् अस्ति। एकजनपद एकोत्पाद योजनायाः अन्तर्गतं बान्दायाः शजरपाषाणः अद्य देशे विदेशे च स्वकीयं विशिष्टं परिचयं निर्माति तथा च अस्य गणना बहुमूल्यरत्नेषु भवितुम् आरब्धा अस्ति। सः अवदत् यत् बुन्देलखण्डः बीडारूपेण महतीं सौगातं प्राप्तुं गच्छति येन आगामिकाले अत्र रोजगारस्य व्यापकाः अवसराः उत्पत्स्यन्ते तथा च युवानः कार्यं याचितुं न अपितु कार्यं प्राप्तुम् अत्र आगमिष्यन्ति।

मुख्यमन्त्री अवदत् यत् विकासः विरासतश्च उभयमपि भाजपायाः प्राथमिकता स्तः। सः अवदत् यत् विकासस्य एषा यात्रा उत्तमानां जनप्रतिनिधीनां कारणेन एव सम्भवा अभवत्। भविष्ये ये केचन जनप्रतिनिधयः विकासपरियोजनानां प्रस्तावान् आनयिष्यन्ति सर्वकारः तान् अग्रे वर्धयित्वा बुन्देलखण्डं देशस्य सर्वाधिकविकसितक्षेत्रेषु समावेशयिष्यति।

सः अवदत् यत् यदि विकासस्य एषा निरन्तरता भग्ना भविष्यति तर्हि आगामिन्यः पीढयः कदापि क्षमां न करिष्यन्ति। मुख्यमन्त्री बबेरोः समाजवादीपार्टीविधायकं लक्ष्यीकृत्य अवदत् यत् तस्य विकासे कापि रुचिः नास्ति। निर्धनानाम् अधिकारेषु दस्युतां कर्तुम् एव तस्य विकासप्रतिरूपम् अस्ति यत् सर्वथा निरोद्धव्यम्।

योगी आदित्यनाथः अवदत् यत् पूर्वं महाराणाप्रतापस्य वीराङ्गनायाः अवन्तीबाई इत्यस्याश्च सदृशानां महानां विभूतीनां प्रतिमाः किमर्थं न स्थापिताः तथा च बुन्देलखण्ड एक्सप्रेसवे किमर्थं न निर्मितः। सः अवदत् यत् २०१७ वर्षे मुख्यमन्त्रीपदं प्राप्त्वा माफियाजनानाम् आधिपत्यात् ६४ सहस्र एकडपरिमिता सर्वकारीया भूमिः विमोचिता यस्यां अद्य विकासस्य निवेशस्य च नवीनानि कार्याणि प्रचलन्ति।

मुख्यमन्त्री अवदत् यत् भाजपासर्वकारः विरासतं विकासं च सहैव नयति। अद्य मन्दिराणां संरक्षणाय धार्मिकस्थलानां विकासाय च कार्यं भवति यदा तु पूर्ववर्तिनः सर्वकाराः कब्रिस्तानानां विकासाय प्राथमिकतां ददति स्म। एतदेव कारणम् अस्ति यत् केचन जनाः अद्य मन्दिराणां धार्मिकविरासतस्य च विकासस्य विरोधं कुर्वन्ति।

सः अवदत् यत् बान्दा स्वकीयानां वीराणां वीराङ्गनानां च सम्मानं करोति। सः अकथयत् यत् सः चित्रकूटे भगवान् कामतानाथस्य परिक्रमां कृत्वा बान्दाम् आगतः अस्ति। सः अवदत् यत् केचन जनाः देशस्य सांस्कृतिकविरासतस्य सम्मानं कर्तुं स्थाने तस्य अपमानं कर्तुम् एव स्वकीयम् उद्देश्यम् अकुर्वन्। तेभ्यः राममन्दिरस्य काशीविश्वनाथधाम्नः मातृविन्ध्यवासिनीधाम्नः चित्रकूटस्य च विकासकार्याणि न रोचन्ते।

मुख्यमन्त्री अवदत् यत् भाजपासर्वकारः तुष्टीकरणस्य राजनीतिं न करोति अपितु भेदभावं विना सर्वेभ्यः पात्रजनेभ्यः सर्वकारीययोजनानां लाभं प्रापयति। व्यापारिणां पुत्रीणां च सुरक्षा सर्वकारस्य सर्वोच्चा प्राथमिकता अस्ति। ये जनाः तेषां सुरक्षायां बाधाम् उत्पादयितुं प्रयतिष्यन्ते तेषां कृते विधिना कठोरः मार्गः निर्धारितः अस्ति।

सभायाः अन्ते मुख्यमन्त्री अवदत् यत् उत्तमाः जनप्रतिनिधयः एव विकासस्य प्रत्याभूतिः भवन्ति। अद्य बुन्देलखण्डे चिकित्सामहाविद्यालयः कृषिविश्वविद्यालयः अभियान्त्रिकीमहाविद्यालयः इत्यादयः अनेकाः विकासपरियोजनाः प्रचलन्ति। सः अवदत् यत् यदि जनप्रतिनिधयः ईमानदाराः विकासोन्मुखाश्च भविष्यन्ति तर्हि क्षेत्रम् अग्रे गमिष्यति किन्तु यदि दस्यवः अपराधिप्रवृत्तयश्च जनाः विजयं प्राप्स्यन्ति तर्हि ते योजनास्वपि दस्युतां करिष्यन्ति निर्धनानां भूमिषु च आधिपत्यं करिष्यन्ति। अतः प्रदेशस्य बुन्देलखण्डस्य च उज्ज्वलभविष्याय समुचितानां जनप्रतिनिधीनां चयनम् अत्यन्तम् आवश्यकम् अस्ति।

अस्मिन् अवसरे जनपदस्य प्रभारीमन्त्री दिनेशप्रतापसिंहः जलशक्तिराज्यमन्त्री रामकेशनिषादः लोकनिर्माणविभागस्य राज्यमन्त्री कुँवरबृजेशसिंहः बान्दासदरविधायकः प्रकाशद्विवेदी नरैनीविधायिका श्रीमती ओममणिवर्मा जिलापञ्चायताध्यक्षः सुनीलसिंहपटेलः विधानपरिषद्सदस्यः बाबूलालतिवारी जितेन्द्रसिंहसेंगरश्च दलस्य क्षेत्रीयाध्यक्षः रामकिशोरसाहू दलस्य जिलाध्यक्षः कल्लूसिंहराजपूतः बान्दानगरपालिकाध्यक्षा श्रीमती मालतीबासुः पूर्वसांसदः आरकेसिंहपटेलः दलस्य वरिष्ठनेता अजयसिंहपटेलश्च उपस्थिताः आसन्।

---

Hindusthan Samachar / Dheeraj Maithani