श्री काशी विश्वनाथ मंदिरे 'काशी द्वारेण काशीवासी पूर्णे दिने भगवतो दर्शनं कृत्वा शक्नुवन्ति
—प्रदेशस्य मुख्यस्य योगिनः आदित्यनाथस्य निर्देशे मंदिरे में विशेषेण सुविधा प्रारंभः वाराणसी,09 जुलाईमासः(हि.स.)।उत्तरप्रदेशस्य धार्मिकनगर्यां वाराणस्यां स्थिते श्रीकाशीविश्वनाथमन्दिरे प्रतिदिनम् आगच्छतां लक्षशः श्रद्धालूनां सम्मर्दस्य मध्ये अधुना
प्रतीक


—प्रदेशस्य मुख्यस्य योगिनः आदित्यनाथस्य निर्देशे मंदिरे में विशेषेण सुविधा प्रारंभः

वाराणसी,09 जुलाईमासः(हि.स.)।उत्तरप्रदेशस्य धार्मिकनगर्यां वाराणस्यां स्थिते श्रीकाशीविश्वनाथमन्दिरे प्रतिदिनम् आगच्छतां लक्षशः श्रद्धालूनां सम्मर्दस्य मध्ये अधुना काशीवासिनः पृथक् व्यवस्थया बाबाश्रीकाशीविश्वनाथस्य सुगमतया दर्शनं कर्तुं शक्ष्यन्ति। उत्तरप्रदेशस्य मुख्यमन्त्रिणः योगिआदित्यनाथस्य निर्देशानुसारं मन्दिरन्यासेन काशीवासिनां दर्शनार्थं पृथक् ‘काशीद्वारम्’ निर्मितम् अस्ति। अस्याः सुविधायाः कृते श्रीकाशीविश्वनाथमन्दिरन्यासेन २०२४ तमे वर्षे द्वारसङ्ख्या ४ बी ‘काशीद्वारम्’ इति रूपेण चिह्निता आसीत्।

गुरुवासरे मन्दिरन्यासेन एषा सूचना प्रदत्ता। न्यासेन कथितं यत् पूर्वं द्वारसङ्ख्या ४ बी द्वारा प्रतिदिनं प्रातः चतुर्वादनतः पञ्चवादनपर्यन्तं तथा सायं चतुर्वादनतः पञ्चवादनपर्यन्तं विशेषदर्शनस्य व्यवस्था आसीत्। अधुना मन्दिरन्यासेन अस्याः सुविधायाः विस्तारं कृत्वा काशीवासिनां कृते प्रातः ०४:१५ वादनतः रात्रौ १०:४५ वादनपर्यन्तं मन्दिरोद्घाटनस्य पञ्चदशनिमेषानन्तरात् मन्दिरपिधानस्य पञ्चदशनिमेषपूर्वपर्यन्तम् अस्मात् द्वारात् प्रवेशव्यवस्था कृता अस्ति।

एषा सुविधा विशेषतिथिषु पर्वदिवसेषु च प्रवर्तिता न भविष्यति। अस्याः विस्तारितव्यवस्थायाः प्रथमदिने गते बुधवासरे ०८ जुलाई दिनाङ्के आहत्य ८,६८८ काशीवासिश्रद्धालवः अस्याः सुविधायाः लाभं प्राप्य बाबाश्रीकाशीविश्वनाथस्य दर्शनं कृतवन्तः।

तथैव गुरुवासरे ०९ जुलाई २०२६ दिनाङ्के अपराह्णे ०१:३० वादनपर्यन्तमेव ५,१९६ काशीवासिश्रद्धालवः अस्याः विशेषसुविधायाः लाभं प्राप्तवन्तः। काशीवासिभ्यः श्रद्धालुभ्यश्च सुगमां सुरक्षितां सुव्यवस्थितां च दर्शनसुविधाम् उपलब्धां कारयितुं न्यासः निरन्तरं प्रयत्नशीलः अस्ति।

Hindusthan Samachar / Dheeraj Maithani