वाराणस्यां गोधूम-उद्योगस्य द्विदिवसीया गोष्ठी शुभारब्धा, समस्यायां चर्चया सह उद्यमिनो भविष्यन्ति सम्मानिताः
वाराणसी, 09 जुलाईमासः (हि. स.)।उत्तरप्रदेशस्य वाराणसीनगर्यां गुरुवासरे व्हीटप्राडक्ट्सप्रमोशनसोसायटीद्वारा आयोजितायाः द्विदिवसीयगोष्ठ्याः शुभारम्भः अभवत्। अस्यां गोष्ठ्यां एकाशीतिनगरेभ्यः गोधूमोद्योगेन सम्बद्धाः त्रिशतपञ्चाशत् प्रतिनिधयः पञ्चाशदधिक
गोष्ठी के प्रथम सत्र में विषय रखते हुए अजय गोयल और दीपक बजाज


वाराणसी, 09 जुलाईमासः (हि. स.)।उत्तरप्रदेशस्य वाराणसीनगर्यां गुरुवासरे व्हीटप्राडक्ट्सप्रमोशनसोसायटीद्वारा आयोजितायाः द्विदिवसीयगोष्ठ्याः शुभारम्भः अभवत्। अस्यां गोष्ठ्यां एकाशीतिनगरेभ्यः गोधूमोद्योगेन सम्बद्धाः त्रिशतपञ्चाशत् प्रतिनिधयः पञ्चाशदधिकाः वक्तारश्च भागं गृह्णन्ति। गोष्ठ्याः शुभारम्भं कुर्वन् व्हीटप्राडक्ट्सप्रमोशनसोसायटी इत्यस्याः अध्यक्षः अजयगोयलः सर्वेषां सदस्यानां स्वागतं कृत्वा अस्याः उद्देश्यान् प्रकाशयामास।

यूपी आरएफएमए इत्यस्य अध्यक्षः दीपकबजाजः गोष्ठ्याः स्वागतसत्रे उक्तवान् यत् गोधूमकृषकाणां समस्याभ्यः आरभ्य गोधूमोत्पादानां गोधूमोद्यमस्य च विषये अस्यां गोष्ठ्यां द्वयोः दिनयोः विचारमन्थनं भविष्यति। अस्यां गोष्ठ्यां राज्यसर्वकारस्य स्वतन्त्रप्रभारयुक्तः राज्यमन्त्री रवीन्द्रजायसवालः सायङ्काले उपस्थितः भविष्यति तथा तस्य करकमलाभ्यां गोधूमोद्योगस्य प्रमुखजनानां कृषकाणां च सम्मानं भविष्यति। सेवानिवृत्तः भारतीयप्रशासनिकसेवाधिकारी मनोजसिंहः मुख्यातिथिरूपेण उपस्थितः भविष्यति।

व्हीटप्राडक्ट्सप्रमोशनसोसायटी इत्यस्याः अध्यक्षः अजयगोयलः उक्तवान् यत् वाराणसीम् आगतानां सर्वेषां प्रमुखजनानां पञ्जीकरणं कृतम् अस्ति। एतत् पञ्जीकरणं काशीनाम्ना अधिकं जातम् अस्ति। गोधूमेन निर्मीयमाणानां बिस्कुटानां पावरोटिकानाम् आटाचूर्णस्य नूडल्सपास्तादीनां च उद्योगैः सम्बद्धाः उद्यमिनः अत्र आमन्त्रिताः सन्ति। गोधूमोद्योगक्षेत्रे किं श्रेष्ठं कर्तुं शक्यते इति विषये विचारमन्थनं भविष्यति।

सः उक्तवान् यत् एकस्य बिस्कुटपुटकस्य उद्योगे सम्पूर्णा शृङ्खला भवति। बिस्कुटनिर्माणे तस्य संवेष्टने गन्तव्यस्थानं प्रति प्रेषणे च बहवः जनाः कार्यं कुर्वन्ति। एषा महती शृङ्खला अस्ति। अस्यां गोष्ठ्यां गोधूमस्य विविधप्रजातीनां विषये चर्चा भविष्यति। गोधूमस्य उपभोगस्य उत्पादनस्य वितरणस्य च विषये अपि चर्चा भविष्यति।

सः उक्तवान् यत् पञ्जीकृतेभ्यः उद्यमिभ्यः कृषकप्रतिभागिभ्यश्च वाराणस्याः विशेषः सांस्कृतिकः आध्यात्मिकश्च अनुभवः अपि निर्धारितः अस्ति। अस्मिन् गङ्गानौकाविहारः गङ्गाद्वारमार्गेण काशीविश्वनाथमन्दिरस्य दर्शनं गङ्गारार्तिक्यदर्शनं जलपानं रात्रिभोजनं च सम्मिलितानि सन्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani