पतञ्जलि: तथा एम्स ऋषिकेश: इत्यनयोः मध्ये समझौतापत्रे हस्ताक्षरम्, आयुर्वेदस्य आधुनिकचिकित्सायाश्च विषये संयुक्तमनुसन्धानं भविष्यति
हरिद्वारनगरम्, ०९ जुलाईमासः (हि.स.)। भारतीयज्ञानपरम्परां आधुनिकचिकित्सा-विज्ञानं च एकस्मिन् मञ्चे समानतां स्थापयितुं अभिनव: प्रयत्न: कृत: अस्ति। पतञ्जलि-अनुसन्धान-संस्था, पतञ्जलि-विश्वविद्यालयः तथा अखिलभारतीय-आयुर्विज्ञान-संस्थानम् ऋषिकेश: इत्यनयोः
समझौता ज्ञापन पर हस्ताक्षर के बाद का दृश्य


हरिद्वारनगरम्, ०९ जुलाईमासः (हि.स.)। भारतीयज्ञानपरम्परां आधुनिकचिकित्सा-विज्ञानं च एकस्मिन् मञ्चे समानतां स्थापयितुं अभिनव: प्रयत्न: कृत: अस्ति। पतञ्जलि-अनुसन्धान-संस्था, पतञ्जलि-विश्वविद्यालयः तथा अखिलभारतीय-आयुर्विज्ञान-संस्थानम् ऋषिकेश: इत्यनयोः मध्ये नैदानिक-अनुसन्धानस्य तथा नवाचारस्य प्रोत्साहनार्थं सन्धिपत्रे हस्ताक्षरं कृतम्।

सन्धे: अन्तर्गतं एतानि त्रीणि संस्थानानि संयुक्तरूपेण नैदानिक-अध्ययनम्, वैज्ञानिक-अनुसन्धानम्, शैक्षणिक-सहयोगं तथा स्वास्थ्यविज्ञानक्षेत्रे नवाचारं च प्रवर्तयिष्यन्ते। तदतिरिक्तं शोधार्थिनां, वैज्ञानिकानां, चिकित्सकानां च परस्परमादानप्रदानमपि भविष्यति। अस्य प्रमुखोद्देश्यम् आयुर्वेदस्य आधुनिक-चिकित्सायाश्च संयुक्तसामर्थ्यस्य उपयोगेन रोगिभ्यः प्रमाणाधारितचिकित्सापद्धतीनां विकासः अस्ति।

सन्धिपत्रे हस्ताक्षरानन्तरं गुरुवासरे पतञ्जलियोगपीठस्य महासचिवः आचार्यः बालकृष्णः अवदत् यत् एषा सहभागिता उभे संस्थाने नूतन-उच्चतां प्रति नेष्यति। एषा भारते समन्वितस्वास्थ्यप्रतिमानं सुदृढं करिष्यति, यस्मिन् पारम्परिकभारतीय-चिकित्साज्ञानम् आधुनिकवैज्ञानिक-पद्धतयश्च परस्परं पूरकरूपेण कार्यं करिष्यन्ति। संयुक्तनैदानिक-अनुसन्धानस्य वैज्ञानिकप्रमाणानां च माध्यमेन जनस्वास्थ्याय अधिक-प्रभावकारिणः समाधानानि प्रदातुं शक्यन्ते इति तेन उक्तम्।

एम्स ऋषिकेशस्य निदेशिका तथा मुख्यकार्यपालिका प्रो. डॉ.मीनूसिंह: अवदत् यत् आधुनिकचिकित्सायाः पारम्परिक-ज्ञानस्य च मध्ये वैज्ञानिकसंवादः अद्यतनकाले अत्यावश्यकः अस्ति। सन्धि: नैदानिक-अनुसन्धानस्य, नवाचारस्य, शिक्षायाश्च क्षेत्रेषु नूतनानवसरान् उद्घाटयिष्यति। संयुक्त-अनुसन्धानात् तादृशानि वैज्ञानिकप्रमाणानि प्राप्स्यन्ते, येन रोगिणामुपचारः स्वास्थ्यसेवानां गुणवत्ता च अधिका भविष्यति इति तया विश्वासः व्यक्तः।

अस्मिन् अवसरे पतञ्जलि-विश्वविद्यालयस्य उपकुलपतिः प्रो.मयङ्ककुमार-अग्रवालः अवदत् यत् सन्धे: अन्तर्गतं उभे संस्थाने वैज्ञानिक-तकनीकी-विशेषज्ञतां परस्परं विनिमयिष्यतः। विद्यार्थिनां, शोधार्थिनां, चिकित्सकानां च कृते संयुक्त-प्रशिक्षण-कार्यक्रमाः तथा विनिमय-कार्यक्रमाश्च सञ्चालयिष्यन्ते।

एम्स ऋषिकेशस्य अनुसन्धानविभागस्य अधिष्ठाता प्रो. शैलेन्द्रहाण्डू अवदत् यत् एषः सहयोगः समग्रस्वास्थ्यस्य दिशि मीलस्तम्भः सिद्ध्यति। अपरं पतञ्जलि-अनुसन्धान-संस्थायाः प्रमुखवैज्ञानिकः डॉ. अनुरागवार्ष्णेयः अवदत् यत् सन्धि: युवा-अनुसन्धानकर्तृभ्यः दत्तांशाधारित-अनुसन्धानाय च सशक्तं मञ्चं प्रदास्यति। उभयोः संस्थानयोः विशेषज्ञानां सहयोगेन अन्ताराष्ट्रियमानदण्डानुसारं उच्च-गुणवत्तायुक्तम् अनुसन्धानं सम्पन्नं भविष्यति।

Hindusthan Samachar / Divya Ranjan