Enter your Email Address to subscribe to our newsletters

हरिद्वारम्, 09 जुलाईमासः (हि.स.)।तमिलनाडुराज्यस्य काञ्चीपुरे आयोजिते धार्मिकसमारोहे श्रीपञ्चायती-अखाडा-बडा-उदासीन-निर्वाणस्य उत्तरपङ्क्तेः नूतनश्रीमहतः विधिवत् पदाभिषेकसमारोहः सम्पन्नः। सर्वसम्मत्या पञ्जाबप्रदेशस्य स्वामी सत्त्वमुनिः उत्तरपङ्क्तेः श्रीमहन्तरूपेण मनोनीतः।
समारोहस्य अध्यक्षतां काञ्चीकामकोटिपीठस्य शङ्कराचार्यः स्वामी विजयेन्द्रसरस्वती अकरोत्। सः नवनियुक्तं श्रीमहन्तं स्वामिनं सत्त्वमुनिम् आशीर्वादं प्रदाय तस्य सफलकार्यकालस्य कामनां कृतवान्। हरिद्वारस्थितेन बडा-उदासीन-अखाडेन निर्गतायाः विज्ञप्तेः अनुसारम् अस्मिन् अवसरे देशस्य विभिन्नभागेभ्यः सन्तसमाजस्य प्रतिनिधयः, विविधाखाडानां प्रमुखसन्तः, बहुसंख्यकाः श्रद्धालवश्च काञ्चीपुरम् आगतवन्तः।
समारोहे श्रीपञ्चायती-अखाडा-बडा-उदासीन-निर्वाणस्य श्रीमहन्तः दुर्गादासः, श्रीमहन्तः अद्वैतमुनिः, श्रीमहन्तः रामनौमीदासः, महामण्डलेश्वरः स्वामी रूपेन्द्रप्रकाशमहन्तः तथा च अनेके महामण्डलेश्वराः विशिष्टाः सन्तमहात्मानश्च उपस्थिताः आसन्। वैदिकमन्त्रोच्चारणस्य, पारम्परिकधार्मिकानुष्ठानानां तथा सन्तानां सान्निध्ये काञ्चीपुरस्थिते उदासीनाश्रमे स्वामिनः सत्त्वमुनेः चादरविधिः विधिवत् सम्पन्ना।
Hindusthan Samachar / Dheeraj Maithani