श्री पंचायती अखाड़ा बड़ा उदासीन निर्वाणं पञ्च संन्यासिनः आजीवनं निष्कासिताः
हरिद्वारम्, 09 जुलाईमासः (हि.स.)। श्रीपञ्चायती-अखाडा-बडा-उदासीन-निर्वाणस्य तमिलनाडुराज्यस्य काञ्चीपुरे आयोजितायां सभायाम् अखाडेन सम्बद्धान् पञ्च सन्तान् महन्तांश्च आजीवनं निष्कासयितुं तेषां सामाजिकधार्मिकसम्बन्धान् च पूर्णतया विच्छेत्तुं सर्वसम्मत
बैठक में उपस्थित संत व महंत


हरिद्वारम्, 09 जुलाईमासः (हि.स.)।

श्रीपञ्चायती-अखाडा-बडा-उदासीन-निर्वाणस्य तमिलनाडुराज्यस्य काञ्चीपुरे आयोजितायां सभायाम् अखाडेन सम्बद्धान् पञ्च सन्तान् महन्तांश्च आजीवनं निष्कासयितुं तेषां सामाजिकधार्मिकसम्बन्धान् च पूर्णतया विच्छेत्तुं सर्वसम्मत्या निर्णयः कृतः।

अखाडस्य श्रीमहन्तः दुर्गादासः अवदत् यत् सभायां देशस्य विभिन्नभागेभ्यः समागतैः उदासीनसन्तैः सर्वसम्मत्या एषः निर्णयः कृतः। निष्कासितेषु सन्तेषु श्रीमहन्तः रघुमुनिः, उग्रदासः, ज्येन्द्रमुनिः शाहपुरकनखलस्थः, स्वामी शिवानन्दः प्रयागराजस्थः तथा सेवादासः मतौलीहरिद्वारस्थः च अन्तर्भवन्ति।

श्रीमहन्तदुर्गादासमहाराजस्य अनुसारम् एते सर्वे सन्ताः महन्ताश्च अखाडात् स्थायिरूपेण निष्कासिताः सन्ति। एतैः सह सर्वान् धार्मिकान् सङ्गठनात्मकांश्च सम्बन्धान् पूर्णतया समापयितुमपि सभायां निर्णयः कृतः।

Hindusthan Samachar / Dheeraj Maithani